अक्षर आकार:

श्रीहरिहरात्मजाष्टकम् अथवा शास्तुः गीताष्टकम्

shrI hariharAtmajAShTakam

श्रीहरिहरात्मजाष्टकम् अथवा शास्तुः गीताष्टकम्

हरिवरासनं विश्वमोहनं हरिदधीश्वरमाराध्यपादुकम् । अरिविमर्दनं नित्यनर्तनं हरिहरात्मजं देवमाश्रये ॥ १॥ चरणकीर्तनं भक्तमानसं भरणलोलुपं नर्तनालसम् । अरुणभासुरं भूतनायकं हरिहरात्मजं देवमाश्रये ॥ २॥ प्रणयसत्यकं प्राणनायकं प्रणतकल्पकं सुप्रभाञ्चितम् । प्रणवमन्दिरं कीर्तनप्रियं हरिहरात्मजं देवमाश्रये ॥ ३॥ तुरगवाहनं सुन्दराननं वरगदायुधं वेदवर्णितम् । गुरुकृपाकरं कीर्तनप्रियं हरिहरात्मजं देवमाश्रये ॥ ४॥ त्रिभुवनार्चितं देवतात्मकं त्रिनयनप्रभुं दिव्यदेशिकम् । त्रिदशपूजितं चिन्तितप्रदं हरिहरात्मजं देवमाश्रये ॥ ५॥ भवभयापहं भावुकावकं भुवनमोहनं भूतिभूषणम् । धवलवाहनं दिव्यवारणं हरिहरात्मजं देवमाश्रये ॥ ६॥ कलमृदुस्मितं सुन्दराननं कलभकोमलं गात्रमोहनम् । कलभकेसरी वाजिवाहनं हरिहरात्मजं देवमाश्रये ॥ ७॥ श्रितजनप्रियं चिन्तितप्रदं श्रुतिविभूषणं साधुजीवनम् । श्रुतिमनोहरं गीतलालसं हरिहरात्मजं देवमाश्रये ॥ ८॥ ॥ इति श्री हरिहरात्मजाष्टकं सम्पूर्णम् ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।