अक्षर आकार:

श्रीगीतासार गुर्वष्टोत्तरशतनामावलिस्तोत्रम्

shrIgItAsAra gurvaShTottarashatanAmAvalistotram

श्रीगीतासार गुर्वष्टोत्तरशतनामावलिस्तोत्रम्

श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । गीतामध्यगतैरेव ग्रथितेयं पदैः शुभैः । आचार्येन्द्रपदाम्भोजे भक्त्या माला समर्प्यते ॥ वक्तुं ब्रह्मविदां श्रेष्ठं मनोवाचामगोचरम् । कथमन्याः समर्थाः स्युर्वाचो भागवतीर्विना ॥ प्रशान्तात्मा विगतभीर्योगी विगतकल्मषः । योगयुक्तो विशुद्धात्मा यतचित्तेन्द्रियक्रियः ॥ १॥ स्वकर्मनिरतः शान्तो धर्मात्माऽमितविक्रमः । मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः ॥ २॥ स्थिरबुद्धिरसंमूढो जितात्मा विगतस्पृहः । सर्वसङ्कल्पसंन्यासी भक्तः सङ्गविवर्जितः ॥ ३॥ विविक्तसेवी लघ्वाशी यतवाक्कायमानसः । एकाकी योगसंसिद्धो योगारूढोऽपरिग्रहः ॥ ४॥ ध्यानयोगपरो मौनी स्वस्थः संशुद्धकिल्बिषः । वीतरागभयक्रोधः स्थितधीर्विगतज्वरः ॥ ५॥ सर्वारम्भपरित्यागी कृत्स्नवित् कृत्स्नकर्मकृत् । यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ॥ ६॥ यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः । अनिकेतः स्थिरमतिर्महात्मा दृढनिश्चयः ॥ ७॥ निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ ८॥ निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ॥ ९॥ ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । निस्त्रैगुण्यो वशी ज्ञानी समलोष्टाश्मकाञ्चनः ॥ १०॥ तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः । त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ ११॥ विद्वानात्मरतिर्मुक्तो नित्यतृप्तो निराश्रयः । अन्तस्सुखोऽन्तरारामः सन्तुष्टः सर्ववित् पुमान् ॥ १२॥ सर्वभूतात्मभूतात्मा तत्त्ववित् समदर्शनः । गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ॥ १३॥ आत्मतृप्तो गुरुः पूज्यो गरीयान् पुरुषोत्तमः । ब्रह्मभूतः प्रसन्नात्मा लोकानुग्रहकाम्यया ॥ १४॥ स्थितप्रज्ञो गुणातीतः चन्द्रशेखरभारती । शारदायाश्चरा मूर्तिः श‍ृङ्गशैले विराजते ॥ १५॥ इति श्रीचन्द्रशेखरभारतीशिष्येण श्री आर. कृष्णस्वामिना रचितं श्रीगीतासार गुर्वष्टोत्तरशतनामावलिस्तोत्रम् ॥