अक्षर आकार:

श्रीगुरुवन्दनम् २

shrIguruvandanam 2

श्रीगुरुवन्दनम् २

श्रीगणेशाय नमः । ॐ श्रुतिस्मृतिपुरणानामालयङ्करुणालयम् । नमामि भगवत्पादं शङ्करं लोकशङ्करम् ॥ १ ॥ शङ्करं शङ्कराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥ २ ॥ ईश्वरोगुरुरात्मेति मूर्तिभेदविभागिने । व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ ३ ॥ गुकारस्त्वन्धकारो वै रुकारस्तन्निवर्तकः । अन्धकारनिरोधित्वाद् गुरुरित्यभिधीयते ॥ ४ ॥ सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ५ ॥ These set of verses are recited at Arshavidyagurukula founded by late Swami Dayananda Saraswati. From ᳚Vedic Heritage Teaching Programme᳚ Volume 2 book.