अक्षर आकार:

श्रीगुरुवन्दनम् १

shrIguruvandanam 1

श्रीगुरुवन्दनम् १

श्रीगणेशाय नमः । गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ १॥ ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् । मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ २॥ नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं भावातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं विश्वातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ३॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जन शलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ४॥ चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् । नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ॥ ५॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६॥ स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ७॥ चिन्मयं व्यापितं सर्वं त्रैलोक्यं सचराच्रम् । असित्वं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ८॥ सच्चिदानन्दरूपाय व्यापिने परमात्मने । नमः श्रीगुरुनाथाय प्रकाशानन्दमूर्तये ॥ ९॥ ज्ञानशक्तिं समारुह्य तत्त्वमालाविभूषिणे । भुक्तिमुक्तिप्रदात्रे च तस्मै श्रीगुरवे नमः ॥ १०॥ अनेकजन्मसम्प्राप्त कर्मधर्मविदाहिने । ज्ञानानल्प प्रभावेन तस्मै श्रीगुरवे नमः ॥ ११॥ मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः । स्वात्मैव सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ १२॥ गुरुः शिवो गुरुर्देवो गुरुर्बन्धुः शरीरिणाम् । गुरुरात्मा गुरुर्जीवो गुरोरन्यन्न विद्यते ॥ १३॥ ब्रह्मानन्दं परमसुखदं योगिनामप्यगम्यं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्त्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ १४॥ श्रुतिस्मृतिपुराणानामालयं करुणालयम् । नमामि भगवत्पादं शङ्करं लोकशङ्करम् ॥ १५॥ गुरुर्धाम्ना महिम्ना च शङ्करो यो विराजते । तत्पदाम्भोरुहरजः कणायास्तु नमो मम ॥ १६॥ गुरवे सर्वलोकानां भिषजे भवरोगिणाम् । निधये सर्वविद्यानां दक्षिणामूर्तये नमः ॥ १७॥ वन्दे गुरुपदद्वन्द्वं अवाङ्मनसगोचरम् । रक्तशुक्ल प्रभामिश्रं अतर्क्यं त्रैपुरं महः ॥ १८॥ From Balasaparya edited by S.V.Radhakrishnasastri of Mahaperiaval Trust This is a compilation from different sources.