अक्षर आकार:

श्रीगुरुवन्दनम्

Shri Guruvandanam

श्रीगुरुवन्दनम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ त्यागराजाय विद्महे । नादगङ्गाय धीमहि । तन्नस्सद्गुरुः प्रचोदयात् ॥ अथ गुरुवन्दनम् । नमः श्रीत्यागराजाय नमः सुज्ञानतेजसे । नमः श्रीरामभक्ताय आचार्याय नमो नमः ॥ १॥ नादावतारपूज्याय नादोपासनमार्गिणे । नादार्चितपरब्रह्मश्रीरामाय नमो नमः ॥ २॥ जप्ततारकसन्मन्त्रशतकोटिसुकीर्तये । श्रीरामभद्रसन्नामतारकानन्दमूर्तये ॥ ३॥ यागरक्षणसंदर्शनाह्लादहृष्टिरूपिणे । गङ्गाप्रवाहवाग्वर्षसंसिक्तराममूर्तये ॥ ४॥ सुस्वरासारसत्कीर्तनानन्दबाष्पकण्ठिने । प्रासानुप्राससम्भासशैलीगभीरगायिने ॥ ५॥ सहस्रायुतसत्कीर्तनागीतरामतेजसे । सुदिव्यनामसङ्कीर्तनालासलयलासिने ॥ ६॥ रागताललयालास्यकृतिवृन्दप्रसारिणे । रामभक्तिसुधाप्लावस्वानुभूतिप्रकाशिने ॥ ७॥ रागानुरागसज्ज्ञानसंक्षेपकृतिबोधिने । नामगानाधिराजाय सद्भक्तिरसगीतये ॥ ८॥ नादयोगसुनिष्ठाय ध्यानयोगसमाधये । भक्तियोगवरिष्ठाय ज्ञानयोगसुसिद्धये ॥ ९॥ वेदोपनिषदासारकृतिगङ्गाप्रवाहिणे । वेदवेदान्तसत्सारबोधसद्गुरवे नमः ॥ १०॥ पुष्पासवसुगानाय नामपुष्पार्चिताय च । पुष्पावलिसुरागाय त्यागराजाय मङ्गलम् ॥ ११॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीगुरुवन्दनं गुरुपादपुष्पे समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan