अक्षर आकार:

गुरुतत्त्वविवेचनम्

Gurutattvavivechanam

गुरुतत्त्वविवेचनम्

अन्धेनाऽन्धीकृतं विश्वं सचक्षुस्तु सचक्षुषम् । दिदृक्षा चेद्भज त्वं तु देशिकेन्द्रं सचक्षुषम् ॥ १॥ अन्धस्य गुरुरेकाक्षस्तस्य द्व्यक्षो गुरुर्मतः । द्व्यक्षाणामपि सर्वेषां गुरुस्त्रयक्षो न तत्समः ॥ २॥ सहस्राक्षादयः सर्वे द्व्यक्षा एव हि केवलम् । कार्यध्येय-दृशो यस्मात् त्र्यक्षशिष्यपदे स्थिताः ॥ ३॥ त्र्यक्षस्तु भगवानादिपुरुषः शङ्करो भवः । सृष्ट्वा सर्वाणि भूतानि कायमध्येऽथ सन्दिशन् ॥ ४॥ उभयातीतममलं तृतीयाक्षस्य गोचरम् । ददाति प्रार्थितस्तुष्टः श्रीगुरुः परमेश्वरः ॥ ५॥ स आदिनाथो भगवाननादिर्ज्ञानाम्बुधिः स्वात्मरतिर्महात्मा । श्रीदेशिकेन्द्र करुणाम्बुराशिर्नानास्वरूपैश्चरतीह लोके ॥ ६॥ क्वचिच्च किञ्चित् कुरुते मनस्वी क्वचिन्न किञ्चित् कुरुते प्रमत्तः । वालो यथा क्रीडति सर्वलोके तथैव स क्रीडति पामरेषु ॥ ७॥ स लभ्यते केनचिदेव पुंसा विज्ञायते केनचिदेव पुंसा । प्रस्तूयते केनचिदेव पुंसा श‍ृणोति वा तं स नरोऽपि धन्यः ॥ ८॥ इति श्रीकृष्णानन्दयतिविरचितं गुरुतत्त्वविवेचनं सम्पूर्णम् ।