अक्षर आकार:

श्रीगुरुसुवर्णमालास्तोत्रम् २

Shri Gurusuvarnamalastotram 2

श्रीगुरुसुवर्णमालास्तोत्रम् २

श्रीसत्संवित्सुखशिवनूतननरसिंहनामगुरुवर्यम् । संसारसिन्धुतारणनावं भक्तिप्रदं सदा वन्दे ॥ १॥ श्रीकण्ठपूजकं तं श्रीविद्याकीर्तिदानकल्पतरुम् । श्रीनिर्भर्त्सितभानुं श्रीश‍ृङ्गगिरौ वसन्तमहमीडे ॥ २॥ सत्यं ज्ञानमितीमे सर्वे घुष्यन्ति यं हि वेदान्ताः । सद्गुरुमुखलभ्यं तं सततं प्रणमामि गुरुवरं भक्त्या ॥ ३॥ चिदचिद्दुग्धजले यः चित्तत्रोट्या विभज्य परहंसः । चितमेवाङ्गीकुरुते चित्तविशुद्ध्यै द्विजाग्र्यमीडे तम् ॥ ४॥ आसेचनकमुखाम्बुजमानन्ददमाशु भक्तजनतायाः । आकण्ठपूर्णनतदयमात्मारामं नमामि लोकगुरुम् ॥ ५॥ नन्दनशाखी नमतां नश्यति यद्दर्शनाद्धि पापौघः । नन्दितविश्वजनं तं नन्दं वन्दे समाप्तुमापूर्वम् ॥ ६॥ दरहासदीप्तवक्त्रं दन्तिवरेण्ये निविष्टचित्तं तम् । दमशममुखगुणदाने दक्षं प्रणमामि शोकविच्छित्त्यै ॥ ७॥ शिवदो भक्तजनानां शिवरूपो हस्तनिर्जितपलाशः । शिथिलयतु भवपाशं शिरसा वेदस्य गीतनिजरूपः ॥ ८॥ वारणगमनं भवभयवारणमानन्दबोधघनम् । वातादिभूतरूपं वाजिगजैर्बिरुदवन्तमहमीडे ॥ ९॥ भिक्षुकवरसम्पूज्यं भिषजं संसारदुःखरोगस्य । भीनययुतोऽहमीड्यं भिक्षां याचे विशुद्धविद्यायाः ॥ १०॥ नखकान्तिरक्तमालं नगस्थिरं मन्मथस्य जेतारम् । नवनीतहृदयमनिशं नमामि गुरुराजमाशु मोक्षाय ॥ ११॥ वश्यीकृतसर्वाक्षं वाचस्पतिगर्वहारिवाचालिम् । वश्यं भक्तजनानां वटतरुहितरूपसद्गुरुं वन्दे ॥ १२॥ नृहरिगुरुसक्तचित्तो नृवरपशुप्रभृतिसर्ववस्तुसमः । नृपवन्दितपादाब्जो नृत्यतु गुरुराण्मदीयचित्ताब्जे ॥ १३॥ सिंहं द्वैतिमदेभे सितमातन्वानमन्तरं नमताम् । सिन्दूरारुणचेलं सितचामरवीजितं गुरुं वन्दे ॥ १४॥ हरिदष्टभरितकीर्तिं हन्तारं सर्वलोकहृत्तमसः । हंसं परपदपूर्वं हरन्तमीडे समस्तचक्रार्तिम् ॥ १५॥ भारतिनरसिंहगुरो भाजनमेनं भवत्कटाक्षस्य । भाविनमपि कुरुषे नहि भारति लोकस्य खलु दयादृष्टे ॥ १६॥ रदनविनिर्जितकुन्दं रम्या वाचः प्रसारयन्तमहम् । रक्षकमीडे जगतां रजस्तमोहीनमाशु मां तनुताम् ॥ १७॥ तीव्रतपा गुरुचरणस्तीरं यो नयति संसृतौ मग्नान् । तीव्राज्ञानमयं मां तीर्थेशो ज्ञानवन्तमातनुताम् ॥ १८॥ पातकवह्निजलं यः पामरविद्वत्समानदृष्टिश्च । पावयिता लोकानां पातु गुरुः सर्वदा समस्तान्नः ॥ १९॥ तुहिनांशुसदृशकान्तिः तुच्छं विश्वं विलोकयन् योगी । तुलनारहितः शीघ्रं तुष्टिं मह्यं ददातु गुरुवर्यः ॥ २०॥ श्रीगुरुशिष्यान्यतमः कश्चन भक्तः सुभक्तिसंयुक्तः । श्लोकालीन् श्रीदेशिकपदाब्जयुग्मे समार्पयत् ॥ २१॥ इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीगुरुसुवर्णमालास्तोत्रं सम्पूर्णम् ।