अक्षर आकार:

श्रीगुरुसुवर्णमालास्तोत्रम्

Shri Gurusuvarnamalastotram

श्रीगुरुसुवर्णमालास्तोत्रम्

श्रीमातृचिन्तनरतः श्रीशाङ्करभाष्यजलधिराकेन्दुः श्रीबोधदाननिरतः श्रीमान्मम मनसि देशिकः स्फुरतु ॥ १॥ नृपमौलिराजिताङ्घ्रिर्नृहरिपदाम्भोजपूजनासक्तः । नृवराराधितचरणो नृत्यतु गुरुराण्मदीयहृद्रङ्गे ॥ २॥ सिन्धुरसमानगमनः सिन्धुतरङ्गाभनैजवाक्प्रसरः । सिंहः प्रतिवादिगजे सिन्दूरसदृक्षवस्त्रयुग्जयति ॥ ३॥ हसितविनिर्जितचन्द्रो हरिदन्तविराजमानसर्त्कार्तिः । हरतादघमखिलं मे हतरिपुषट्कः सदानन्दः ॥ ४॥ भाति नरोऽल्पविदां यो भारत्येव प्रकृष्टबुद्धीनाम् । भाधीशतुल्यकान्तिर्भातु स मे चित्तसरसिजे गुरुराट् ॥ ५॥ रतिरमणगर्वहारी रजताचलसदनसक्तचेतस्कः । रचयतु मम हृदयाब्जं रजसा तमसा विहीनमाशु गुरुः ॥ ६॥ तीर्णभववारिराशिस्तीर्थाटनलोलहृदयकञ्जातः । तीव्राज्ञानमिदं मे तीर्थेट् शमयेद्द्रुतं दयया ॥ ७॥ जडताम्बुधिबडवाग्निर्जनकमहीपादितुल्यबोधयुतः । जनयतु तत्त्वज्ञानं जगदेकगुरुर्नृसिंहयतिराण्मे ॥ ८॥ यतिपतिनिषेव्यपादो यमनियमाद्यङ्गयुक्तयोगज्ञः । यमभयवारणदक्षो यच्छतु मह्यं गुरूत्तमो योगम् ॥ ९॥ तिष्ठति यदीयचित्तं तिर्यग्बुधाग्रिमेषु समदर्शि । तिर्यक्त्रिपुण्ड्रफालस्तिरयतु सोऽन्तर्बहिश्व शत्रून्मे ॥ १०॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीगुरुसुवर्णमालास्तोत्रं सम्पूर्णम् ।