अक्षर आकार:

गुरुस्तुतिप्रमाणिका

gurustutipramANikA

गुरुस्तुतिप्रमाणिका

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ त्यागराजाय विद्महे । वाक्स्वरूपाय धीमहि । तन्नो गुरुः प्रचोदयात् ॥ अथ गुरुस्तुतिप्रमाणिका । सुनादरामपूजनं सुगानसर्वमोदनम् । सरागभक्तिवन्दितं सुगीतसेवितं गुरुम् ॥ १॥ सुरामनामकीर्तनं सुनामगानतल्लजम् । समाधियोगसंस्थितं सदासुलीननामकम् ॥ २॥ सुगानवर्षगङ्गिकं सुगीतनामतारकम् । गलस्वरातिमञ्जुलं श्रुतिस्वलीनगीतकम् ॥ ३॥ लयप्रशान्तिकीर्तनं प्रवाहरागसारतम् । सुनामतारकाजपं सुदृष्टरामविग्रहम् ॥ ४॥ सुनादरूपतेजसं सुलीननादसद्रसम् । सदाविलीनरामकं सदानुभूतदैविकम् ॥ ५॥ कराम्बुजस्थझल्लकं सुलासपादपङ्कजम् । लयश्रुतिस्वभावकं प्रगीतभावकीर्तनम् ॥ ६॥ सुतत्त्वसत्त्वदर्शनं अहंहरम् अहँल्लयम् । मनोविलीनसद्गुरुं विलीनमानसार्चितम् ॥ ७॥ मनःप्रसन्नदैवतं मनःप्रसादरूपकम् । मनोजपुष्पसार्चितं मनोजभावसामुदम् ॥ ८॥ स्वभावमानसार्पणं सुरागभावमोदितम् । स्वरागरत्नमालिकं स्वशिष्यपुष्पमालिकम् ॥ ९॥ सुपादसेविताश्रयं पदागतासुरक्षणम् । सदा भजे गुरुं शुभं सुभव्यमङ्गलास्पदम् ॥ १०॥ गुरुस्तुतिप्रमाणिका गुरुप्रचोदमातृका । गुरुप्रमोददायिका गुरुप्रसादमङ्गला ॥ ११॥ गुरुप्रसादमङ्गलं सदाशुभं सुमङ्गलम् । सरक्तिगाथमङ्गलं सुभक्तिगीतमङ्गलम् ॥ १२॥ मङ्गलं त्यागराजाय गुरुदेवाय मङ्गलम् । प्रमाणिकास्तुतिस्तोत्रपुष्पार्चिताय मङ्गलम् ॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता गुरुस्तुतिप्रमाणिका गुरुपादपुष्पे समर्पिता । ॐ शुभमस्तु । Copyright Pushpa Srivatsan