अक्षर आकार:

गुरुस्तुतिः ३

Guru Stuti 3

गुरुस्तुतिः ३

ॐ शिवाय गुरवे नमः । ॐ तत्त्वोत्तीर्णोऽतुल-निज-चमत्कारपूर्णो ह्यनन्या पेक्षी स्वैरी कचनपरमो भैरवो बोधभानुः । मालिन्यान्ध्यं त्रिविधमखिलं नाशयित्वाहृदब्ज- सङ्कोचं नः स्वकरनिकरेणोदितः सन्धुनोतु ॥ १॥ या व्यक्तेः प्राक् किल परमहामन्त्रभूमिः पराख्या पश्यन्ती तामुपगतवती द्योतयन्त्यर्थजातम् । भेदामर्शारचन-कुशला मध्यमा वैखरी या व्यक्ता संविल्लसतु हृदिनः क्षोभतूलाग्निहेतिः ॥ २॥ श्री श्रीकण्ठादनुपम-फला याहि सन्तान-शाखा याता तस्यां समधिगतवान् शैशवे शक्तिपातात् । श्रीरामाख्यं गुरुमथ च तत् सेवयावाप्तधीर्यः तं श्रीविद्याधर-गुरुवरं स्वात्मरामं नमामि ॥ ३॥ देहाय्चात्मे त्यखिल जगतामान्ध्यपूर्णो विवादः तुच्छोच्छेद्यो यदपिच शिवः शास्ति चैतन्यमात्मा । आमृश्यैवं विपिनमगमद्रागजालस्य छित्यै तं श्रीविद्याधरगुरुवरं स्वात्म-रामं नमामि ॥ ४॥ कार्कोटाहेर्गहन भवने हिंस्त्र-जीवैः परीते शाक्रस्फारातिशय-विमलो जातसंविद्-वकासः । क्रुद्धा हिंस्रा गुरु-वर-धिया मस्तकैर्यं प्रणेमुः तं श्रीविध्याधर-गुरु-वरं स्वात्म-रामं नमामि ॥ ५॥ यस्या-भूम्ना चकित-चकितोऽभूदयं मर्त्यवर्गः पादौ स्पृष्टं द्रुतमुपययौ प्रावृणो-च् चाश्रमं तत् । नैतत् शर्मेत्यमर विवरं प्राप यः शैवधर्मा तं श्रीविध्याधर-गुरु-वरं स्वात्मरामं नमामि ॥ ६॥ आश्यानोयं चितिरस-मयः सर्वतो भाववर्गः नानारूपं श्रयति द्रवतामागतोऽव्यक्रतां च । इत्यानीतः स्वगृहममरे-शेनयः शिक्षणार्थं तं श्रीविध्याधर-गुरु-वरं स्वात्मरामं नमामि ॥ ७॥ स्वानारण्या वट-झर-महीधेशुचीर्णव्रतो यो योगक्षेमी वितरणमतिशिचन्तयदात्त्मज्ञानम् । दानं भूत्यै भवति जगतां शिक्षियंश्चाविनीतान् तं श्रीविद्याधर-गुरु-वरं स्वात्मरामं नमामि ॥ ८॥ क्रीडाशीलो वलित-स्वतनुश्चेत्यसङ्कोचधर्मा संसारी स्याच्छिव इत्युदितं शक्तिसूत्रेषु सम्यक् । तत्रोपायं स्वकरमविददुद्यमो भैरवो यः तं श्रीविद्याधर-गुरुवरं स्वात्मरामं नमामि ॥ ९॥ शैवाम्नाय-प्रवचन-रति-शङ्करो यो हि देवः पीयूषांशुः इव मुख-रुचा ह्लादयन् शिष्यसङ्घान् । दीप्त्या भास्वान् इव हृदयपं केरुहोद्-बोधहेतुः तं श्रीविद्याधर-गुरुवरं स्वात्मरामं नमामि ॥ १०॥ जज्ञे लग्ने धनुषि सविधौ यस्तुमीनेऽथ केतौ भौमे सौरे रतिगृहगते कर्कटे चोष्मरश्मौ । शुक्रे ज्ञेज्ये नवमगृहगे कन्यकायां चराहौ तं श्रीविध्याधर-गुरुवरं स्वात्मरामं नमामि ॥ ११॥ भूयः स्यात्प्रतिमेलनं प्रतिभुवः सूत्रं शिवस्यान्तिमम् सम्यक् योप्यवधार्य शाश्वतपदं शैवं सहस्यामले । बाण-द्वय-भ्र-शरे समेऽपिच तृतीयस्यां निशान्ते ययौ श्रीविध्याधर स्वामि-दैशकमणिर्भूयादघध्वंसकृत् ॥ १२॥ यत्पाद-पद्म-संस्पर्शात् सत्त्वरं श्यामचेतसाम् । सुन्दरो जायते बोधः शरणं सोऽस्तु नः शिवः ॥ १३॥ इति श्रीविध्याधरगुरुस्तुतिः समाप्ता ।