अक्षर आकार:

श्रीगुरुस्तुतिः

Shri Gurustuti

श्रीगुरुस्तुतिः

ॐ नमो गुरुवे । यः सर्वात्माखिलजनविभुर्देवदेवो महेशः स्वातन्त्र्यस्थो ध्रुवपदगतो निश्चलात्मा वरेण्यः । विश्वोत्तीर्णों भवभयहरः स्वेच्छया विश्वपूर्णः तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ १॥ यस्मादीशात्प्रसरति शिवतत्त्वप्रभृतिज्यान्त- मेतद्विश्वं परमवपुषा स्थीयते येन सम्यक् । यस्मिंस्तोयमिव क्रमतया लीयते वारिराशौ तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ २॥ ब्राह्मीं मूर्तिं भुवनजनने राजसीं यो बिभर्ति तद्रक्षायां परमदयया वैष्णवीं सात्विकीं च । तत्संहारेऽनलशततनुस्तामसीं रौद्रमूर्तिं तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ३॥ संसाराब्धौ विषयमकरे दुस्तरे संप्रमग्ना- नुद्धृत्यस्मात्परमकृपया भेददृष्टिं विभिद्य । शैवं स्थानमचलममलं प्रापिता येन भक्त्या तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ४॥ अस्मिंल्लोके ह्यूपमन्युकुले यश्च मर्त्यावतार- मायाति स्म तिमिरहरणः सज्जनानां हिताय । प्राकट्यार्थं स्वमतयशसः प्रेरितोरुद्रव्रातैः तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ५॥ सूर्ये प्राप्ते धनुषि च गुरौ तारकेशे तुलाया- माद्ये भौमे सुखगतबुधे शत्रुगे भार्गवेपि । पङ्गुराहौर्दशमसदने सिंहलग्ने तु जातः तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ६॥ मूर्त्या शम्भुः परमसुखदः तेजसा द्वादशात्मा प्रकृत्या तु शिशिरकिरणः पावनश्चित्रभानुः । शैवीदीक्षागलितवृजिनैर्लक्ष्यते यश्च सद्भिः तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ७॥ रूपं यस्य निखिलजगतां हृत्प्रमोदस्य हेतु यद्यन्तानां किरणपटलैः छात्रवृन्दा विरेजुः । व्याख्यानेन प्रहसितमुखः कर्तनः संशयानां तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ८॥ बाल्यादेव परमतपसि दुःसह्ये वर्तते स्म विश्वमेतत्परममहिमा यश्च स्वात्मन्यद्राक्षीत् । स्वात्मानं च जगति निखिले ज्ञानदृष्टया सदैव तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ९॥ यः शैवाख्यं परममऽमृतं निर्गतं स्वाऽननाऽब्जात् तत्पादाब्जानुगतमनसो भक्तवृन्दानपीप्यत् । एतद्देहं परित्यज्य ह्यगाच्छाश्वतं शैवधाम तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ १०॥ इति श्रीकाश्मीरिकमहामेश्वराचार्यवर्यं स्वामिवरश्रीरामभट्टारक पादचरित्रण् राजानकविद्याधरेण विरचितं श्रीगुरुस्तुतिः समाप्ता ।