अक्षर आकार:

श्रीगुरुस्तुतिः

Shri Gurustutih

श्रीगुरुस्तुतिः

गुरुवरकरुणां हित्वा को वा स्वेष्टं लभेत लोकेऽस्मिन् । तस्माद्गुरुवरचरणं भज चेतः सर्वसौख्यमूलं त्वम् ॥ १॥ गुरुवर करुणासागर तरुणारुणवस्त्रसंवृताङ्ग विभो । कुरु करुणां मयि दीने सुरवरतरुगर्वहरणनिपुणकर ॥ २॥ हित्वा तव चरणं मम शरणं जानासि नान्यदस्तीति । गुरुवर नृसिंह तस्मात्पालय बुद्धिं सुनिश्चलां दत्त्वा ॥ ३॥ बहुशः कृतपापमपि क्रियमाणाघं गुरो पाहि । दोषाकरमपि शम्भुर्धत्ते शीर्षे न किं ब्रूहि ॥ ४॥ नावोचः किं पूर्वं त्वमपि भवेः श्रीसदाशिवेन्द्राभः । इति कस्मान्मम ममता देहे जागर्ति गुरुवर ब्रूहि ॥ ५॥ स्वप्ने ममोत्तमाङ्गे स्वयमाहूयातिकरुणया चरणौ । दधतस्तव निकटे मम गुरुवर नरसिंह याचना कास्ति ॥ ६॥ स्वप्नेऽपि रामनिकटे मच्छ्रेयः प्रार्थनाकर्तुः । गुरुवर तव निकटे मम कर्तव्या प्रार्थना कास्ति ॥ ७॥ नरसिंहापररूपे मत्पालनबद्धकङ्कणे भवति । जाग्रति सति मम निकटे गुरुवर भीतिर्भवेत्कस्मात् ॥ ८॥ कुत्र गतोऽत्रैवाहं तिष्ठामीत्यभयवितरणव्यग्रे । भवति भवतापहारिणि गुरुवर भीतिः कुतस्त्या मे ॥ ९॥ त्वच्चरणभक्तिपूरितमानसमेनं गुरो विधायाशु । सकलभयशून्यहृदयं कुरु करुणावारिधे नृसिंहगुरो ॥ १०॥ प्रणताद्वैतविबोधनमचिरात्कर्तुं गिरेव नाम्ना च । स्वीकृतनरसिंहाभिधमनिशं कलयामि गुरुवरं कञ्चित् ॥ ११॥ प्रत्यक्षं बहुकरुणं प्रविहाय त्वां गुरोऽन्यभजनं मे । करसंस्थान्नविसर्जनपूर्वकभिक्षाटनं न किमु ॥ १२॥ नैसर्गिककरुणाजनिभूमौ मन्मूर्तिमद्भाग्ये । त्वय्यपराधा मत्का गुरुवर कुर्वन्ति कल्मषं किं भो ॥ १३॥ चित्तं मामकमनिशं सच्चित्सुखरूपगं दृढं प्रभवेत् । यद्वत्तथाशु कृत्वा पालय सततं नृसिंहगुरो ॥ १४॥ विकृतिर्नैव मम स्यात्कायेऽस्मिंश्छिद्यमानेऽपि । चित्ते यथा तथा त्वं कुरु करुणावारिधे नृसिंहगुरो ॥ १५॥ सच्चित्सुखरूपोऽहं नैवेदं दृश्यमित्यचलाम् । बुद्धिं प्रयच्छ मह्यं करुणामृतवारिधे नृसिंहगुरो ॥ १६॥ अपुनःस्मरणं लोकं देहं शास्त्रं च विस्मृत्य । आनन्दं निरवधिकं प्राप्नोमि कदा नृसिंहगुरो ॥ १७॥ स्थूले सूक्ष्मे हेतौ देहेऽहन्तां समुत्सृज्य । चिषेऽहननन्ता मे समुदेति कदा नृसिंहगुरो ॥ १८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीगुरुस्तुतिः सम्पूर्णा ।