अक्षर आकार:

श्रीगुरुस्तोत्रम्

shrIgurustotram

श्रीगुरुस्तोत्रम्

बृहद्विज्ञान परमेश्वरतन्त्रार्गतम् ॥ ॐ नमः श्रीनाथाय ॥ ॥ श्रीमहादेव्युवाच ॥ गुरोरर्मन्त्रस्य देवस्य धर्मस्य तस्य एव वा । विशेषस्तु महादेव! तद् वदस्व दयानिधे ॥ ॥ श्रीमहादेव उवाच ॥ जीवात्मनं परमात्मनं दानं ध्यानं योगो ज्ञानम् । उत्कलकाशीगङ्गामरणं न गुरोरधिकं न गुरोरधिकम् ॥ १॥ प्राणं देहं गेहं राज्यं स्वर्गं भोगं योगं मुक्तिम् । भार्यामिष्टं पुत्रं मित्रं न गुरोरधिकं न गुरोरधिकम् ॥ २॥ वानप्रस्थं यतिविधधर्मं पारमहंस्यं भिक्षुकचरितम् । साधोःसेवां बहुसुखभुक्तिं न गुरोरधिकं न गुरोरधिकम्॥ ३॥ विष्णोभक्तिं पूजनरक्तिं वैष्णवसेवां मातरिभक्तिम् । विष्णोरिव पितृसेवनयोगं न गुरोरधिकं न गुरोरधिकम् ॥ ४॥ प्रत्याहारं चेन्द्रिययजनं प्राणायामं न्यासविधानम् । इष्टे पूजा जप तपभक्तिर्न न गुरोरधिकं न गुरोरधिकम् ॥ ५॥ काली दुर्गा कमला भुवना त्रिपुरा भीमा बगला पूर्णा । श्रीमातङ्गी धूमा तारा न गुरोरधिकं न गुरोरधिकम् ॥ ६॥ मात्स्यं कौर्मं श्रीवाराहं नरहरिरूपं वामनचरितम् । नरनारायणचरितं योगं न गुरोरधिकं न गुरोरधिकम् ॥ ७॥ श्रीभृगुदेवं श्रीरघुनाथं श्रीयदुनाथं बौद्धं कल्क्यम् । अवतारा दश वेदविधानं न गुरोरधिकं न गुरोरधिकम् ॥ ८॥ गङ्गा काशी काञ्ची द्वारा मायाऽयोध्याऽवन्ती मथुरा । यमुना रेवा पुष्करतीर्थं न गुरोरधिकं न गुरोरधिकम् ॥ ९॥ गोकुलगमनं गोपुररमणं श्रीवृन्दावनमधुपुररटनम् । एतत् सर्वंसुन्दरि! मातर्न गुरोरधिकं न गुरोरधिकम् ॥ १०॥ तुलसीसेवा हरिहरभक्तिः गङ्गासागरसङ्गममुक्तिः । किमपरमधिकं कृष्णेभक्तिर्न गुरोरधिकं न गुरोरधिकम् ॥ ११॥ एतत्सोत्रं पठति च नित्यं मोक्षज्ञानी सोऽपि च धन्यम् । ब्रह्माण्डान्तर्यद्यद्ध्येयं न गुरोरधिकं न गुरोरधिकम् ॥ १२॥ ॥ बृहद्विज्ञान परमेश्वरतन्त्रे त्रिपुराशिवसंवादे श्रीगुरोःस्तोत्रम् ॥