अक्षर आकार:

श्रीगुरुस्तोत्रम् कुब्जिकातन्त्रोक्त

shrIgurustotram kubjikAtantrokta

श्रीगुरुस्तोत्रम् कुब्जिकातन्त्रोक्त

ॐ नमस्तुभ्यं महामन्त्रदायिने शिवरूपिणे । ब्रह्मज्ञानप्रकाशाय संसारदुःखतारिणे ॥ १॥ अतिसौम्याय दिव्याय वीराय ज्ञानहारिणे । नमस्ते कुलनाथाय कुल कौलिन्यदायिने ॥ २॥ शिवतत्त्वप्रबोधाय ब्रह्मतत्त्वप्रकाशिने । नमस्ते गुरवे तुभ्यं साधकाभयदायिने ॥ ३॥ अनाचाराचारभावबोधाय भक्तहेतवे । भावाभावविनिर्मुक्ताय मुक्तिदात्रे नमो नमः ॥ ४॥ नमस्ते शम्भवे तुभ्यं दिव्यभावप्रकाशिने । ज्ञानानन्दस्वरूपाय विभवाय नमो नमः ॥ ५॥ शिवाय शक्तिनाथाय सच्चिदानन्दरूपिणे । कामरूपाय कामाय कालकेलिकलात्मने ॥ ६॥ कुलपूजोपदेशाय कुलाचारस्वरूपिणे । आरक्तलसच्छक्तये समभागविभूतये ॥ नमस्तेऽस्तु महेशाय नमस्तेऽस्तु नमो नमः ॥७॥ इदं स्तोत्रं पठेन्नित्त्यं साधको गुरुदिङ्मुखः । प्रातरुत्थाय देवेशि! ततो विद्या प्रसीदति ॥ १॥