अक्षर आकार:

श्रीगुरुस्तोत्रम्

shrIgurustotram

श्रीगुरुस्तोत्रम्

बृहत्पाकं हंस्यां संहितायां ज्ञानात्मानं परमात्मानं दानं ध्यानं योगं ज्ञानम् । जानन्नपि सुन्दरिमातर्न न गुरोरधिकं न गुरोरधिकम् ॥ १॥ प्राणं देहं गेहं राज्यं भोगं मोदा भक्तिं पुत्रम् । मन्ये मित्रं वितकलत्रं न गुरोरधिकं न गुरोरधिकम् ॥ २॥ वानप्रस्थं यतिविधधर्मं पारमहंस्यं भिक्षुक चरितम् । साधो सेवा बहुसुरभक्तिर्न गुरोरधिकं न गुरोरधिकम् ॥ ३॥ विष्णो भक्तिः पूजन चरितं वैष्णवसेवा मातरि भक्तिम् । विष्णोरिव पितृसेवनयोगो न गुरोरधिकं न गुरोरधिकम् ॥ ४॥ प्रत्याहारं चेन्द्रियजपताप्राणायामंन्यानिर्विधानम् । इष्टै पूजाजपतपभक्तिर्न गुरोरधिकं न गुरोरधिकम् ॥ ५॥ काली दुर्गा कमला भुवना त्रिपुरामीमां बगलापूर्णा । श्रीमातङ्गी धूमा तारा एता विधात्रिभुवनस्तरा न गुरोरधिकं न गुरोरधिकम् ॥ ६॥ मात्स्यं कौर्मं श्रीवाराहं नरहरिरूपं वामनचरितम् । अवतारादिकमन्यत् सर्वं न गुरोरधिकं न गुरोरधिकम् ॥ ७॥ श्रीरघुनाथं श्रीयदुनाथं श्रीभृगुदेवं बौद्धं कल्किम् । अवतारानिति दशकं मन्ये न गुरोरधिकं न गुरोरधिकम् ॥ ८॥ गङ्गा काशी काञ्ची द्वारा मायाऽयोध्याऽवना मथुरा । यमुना रेवा परतरतीर्थं न गुरोरधिकं न गुरोरधिकम् ॥ ९॥ गोकुल गमनं गोपुररमणं श्रीवृन्दावनमधुपुर भटनम् । एतत् सर्वं सुन्दरिमातर्न गुरोरधिकं न गुरोरधिकम् ॥ १०॥ तुलसीसेवा हरिहरभक्तिर्गङ्गासागरसङ्गममुक्तिम् । किमपरमधिकं कृष्णोभक्तिरेतत्सर्वं सुन्दरिमातर्न गुरोरधिकं न गुरोरधिकम् ॥ ११॥ एतत् स्तोत्रं पठति च नित्यं मोक्षज्ञानी सोऽयति धन्यः । ब्रह्माण्डान्तर्यद्यद् ज्ञेयं सर्वं न गुरोरधिकं न गुरोरधिकम् ॥ १२॥ ॥ इति बृहत्पाकं हंस्यां संहितायां श्रीशिवपार्वती संवादे श्रीगुरुस्तोत्रं सम्पूर्णम् ॥