अक्षर आकार:

गुरुराजस्तवः

Gururajastavah

गुरुराजस्तवः

सद्गुरुं भज सद्गुरुं भज सदगुरु भज बुद्धिमन् येन संसृतिपारमेष्यसि मुक्त इत्यपि गास्यसे । आसुरीं त्यज सम्पदं विपदां पदं मुनिगर्हितां तर्हि तां भज सम्पदं मुनिसंस्तुतां भगवत्प्रियाम् ॥ १॥ गर्व-पर्वत-मस्तके तव संस्थितिनं हि शोभते पातमेष्यसि घातकर्मणि युज्यसे न तु पूज्यसे । सात्त्विकं फलमश्नुषे यदि सत्यवृत्तपरायणो दनुजसूनुरिवामरद्रुममर्हणं भगवत्पदम् ॥ २॥ दम्भमार्गपरायणं यदि सत्फलाय भवत्यहो इल्वलादिकृताऽपि विप्रवरार्चना विषमा कथम् । कष्टमेष्यसि दुष्टबुद्धिपरायणो यदि चाऽन्तरे मृष्ट मृष्ट परं पदं तव दूरतः स्तवकर्मणाम् ॥ ३॥ मुक्तताऽपि मुमुक्षुता कपटौघमूलनिकृन्तनी नीतिरर्भकता तथा यदि नास्ति जन्म निरर्थकम् । केषु ते गणना भवेद् वद विद्यवेद्यसमान्तरे भासुरे जनजन्म कर्म निरर्थकं कुरुषे कुतः ॥ ४॥ साधुचित्तविखण्डनाद् भगवत्प्रियावपि दानवौ तत्र साधुविघर्षणादपि राक्षसौ मुनिभक्षकौ । तेन हीनबलावथो नृपनामदूषकराक्षसौ कृष्णहिंसन-तत्पराविति कर्मणो गहना गतिः ॥ ५॥ व्रह्मनिष्ठ -विमाननान्निज -सूनुगीतहरेः पदे द्वेष आविरभूद्भवग्रहमान्त्रिके निजसेविते । दानवस्य च दानधर्मपरायणस्य च रक्षसः शैवधर्मरतस्य मूलविनाशनोऽप्यघनाशने ॥ ६॥ जीवतामपहापयञ्छिवतां दिशत्यतिकौशलात् पूर्ववत् स्थितविश्वमेष तिरष्करोत्यतिलीलया । तं गुरुं भज नम्रमोचनकारकं भवतारकं तत्र शात्रवमत्र यच्छति वृक्षतां पितृकानने ॥ ७॥ श्रीगुरोः पदपङ्कजं भजतां सतां सततं हरिः सन्निधाविति सर्वशासनसारमेतदुदीरितम् । तन्महत्त्वमहाम्बुधेरपरं तटं न हि केचन प्राप्नुवन्ति परावरज्ञाः पण्डिताः सनकादयः ॥ ८॥ शब्दमूलमहो गुरुः शिवजीवविश्वभिदास्पदं विश्वजीवशिवादिनामत एष एव हि बुध्यते । वाच्यकोटिनिविष्टमेव हि तत्त्रयं कृतपत्त्रयं लक्ष्यभूतवपुर्गुंरुस्तमु जानते न हि केचन ॥ ९॥ वृत्त्यनाश्रितचित्स्वरूपक एष एव समः प्रभो वृत्तिरूढचिदम्बरं खलु जीव ईश इदं जगत् । जन्म-मृत्यु-नियामकः परमेश्वरः स तु भोगभुग् जन्ममृत्यु-निवारकः परमेश्वरादतिरिच्यते ॥ १०॥ ब्रह्मरन्ध्रपदं गुरोर्हृदयं शिवस्य निजास्पदं स्थानमेव हि तत्स्वरूप-विनिर्णयाय भवत्फलम् । हृद्यतो विषयान् भजत्यथ नैव किञ्चन रन्ध्रगो यच्छति क्रमतः फलं वद मुक्तिदोऽस्त्यनयोऽस्तु कः ॥ ११॥ तत्स्वरूपविमर्शनं गुरुपादुकामनुसंशितं तत्मनुस्तु तदीयपूर्णकृपाभरेण हि लभ्यते । लाभतो गुरुणा सहैक्यविमर्शनं परमं पदं तत्र मुक्तिवराङ्गना वृणुते स्वयं निजसम्पदा ॥ १२॥ तत्र यो विमुखो नरो निजघातकीर्ति निगद्यते तस्य सम्मुखतां भजन् परमद्वयं भवति क्षणात् । ऋक्श्रुतिः शतधारमित्यपि नौति तां गुरुपादुकां कृष्णभिक्षुरिमं स्तवं पदपङ्कजेऽर्पयते गुरोः ॥ १३॥ द्रोणपर्वतवासिने नतशासिने मतिकाशिने हारिणे विपदां मुहुर्मम दायिनेऽखिलसम्पदाम् । सच्चिदादिसुखाभिधाय यतीश्वराय सहस्रशः सन्त मे नतयो दयोदकसागराय दिने दिने ॥ १४॥ स्तोत्रमेतदभीष्टसिद्धिद -मासुरव्रत -हारकं तारकं निजदेशि -केन्द्रपदाब्जयोर्दृढसन्मतेः । य पठेत् प्रयत्नः शुचिः सुविचायं भूरि दिने दिने मुच्यते भवपाशपाशित एवमेव मतिर्मम ॥ १५॥ इति श्रीमत्कृष्णानन्द-सरस्वतीकृत-गुरुराजस्तवः सम्पूर्णः ।