अक्षर आकार:

गुरुपरम्परा २

guruparamparA 2

गुरुपरम्परा २

श्रीमते रामानुजाय नमः श्रीदक्षिण अहोविल आश्रम (पुरानीलङ्का) गुरुपरम्परा श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ १॥ वेदान्ताचार्यसिद्धान्तविख्यातविजयध्वजम् । कौशिकं श्रीनिवासार्यं विद्यानिधिमहं भजे ॥ २॥ श्रीरङ्गनाथयतिवर्यकृपाप्तबोधं श्रीवासुदेवशिखरार्यदयावलम्बम् । वैराग्यभक्तिमुखसद्गुणसागरं श्रीनारायणं श्रुतिशिरो गुरुमाश्रयामः ॥ ३॥ वेदान्तनारायणयतीन्द्रकृपावलम्बं श्रीचित्रकूटगिरिकाननयोगनिष्ठम् । शान्त्यादि बोधपरिपूर्णविशुद्धवृत्तं पुरुषोत्तमाख्यगुरुदेशिकमाश्रयामः ॥ ४॥ श्रीलक्ष्मीनृसिंहार्चनबद्धदीक्षं पुरुषोत्तमेन गुरुणा सुकटाक्षणीयम् । तत्त्वत्रयस्य परिशीलनमेकनिष्ठं श्रीवेदमूर्तिबलभद्रगुरुं भजामि ॥ ५॥ श्रीनारायणपादपद्मयुगलं ध्यात्वा स्वरूपङ्गतः, श्रीरङ्गेशसमर्चने प्रतिदिनं लग्नं मुनिं देशिकम् । पूर्वाचार्यपदे नियोज्य मनसं प्राप्तं रहस्यत्रयं शालिग्राममुनिं भजामि सततं श्रीचित्रकूटाश्रयम् ॥ ६॥ वेदान्तदेशिकपदे विनिषक्तचित्तं, अष्टाक्षरं सचरमं द्वयमाश्रयन्तम् । श्रीव्येङ्कटेश करुणापरिपूर्णबोधं, घनश्याम देशिकपदं सततं नमामि ॥ ७॥ श्रीराघवेन्द्रपदपङ्कजप्रीतिभाजं, श्रीवैष्णवादि जनसेवितपादपद्मम् । शान्त्यादि धैर्यशमयोगयुतं सुशीलं, वैराग्यमूर्तिपुरुषोत्तममाश्रयामि । वैराग्यज्ञानहरिप्रीतियुतं शरण्यं, रामप्रपन्नवरदेशिकमाश्रयामि ॥ ८॥ श्रीजानकीसाङ्घ्रिसरोजचित्त- मौदार्यशान्तिपरिपूर्णयुतप्रवीणम् । वन्येन जीवनकृतं तपसा ज्वलन्तं, श्रीरामदेशिकगुरुं शरणं प्रपद्ये ॥ ९॥ श्रीवैष्णवान्वयसुसेवनभक्तचित्तं श्रीरामदेशिककृपाप्तसमस्तबोधम् । श्री श्रीनिवासचरणाम्बुजचञ्चरीकं श्रीदेशिकार्यबलरामगुरुं भजामि ॥ १०॥ श्रीरामानुजदेशिकस्य रागनिष्ठ-रङ्गेश-योगीन्द्र यो प्राप्तज्ञान- विरागभक्तिमतुलं श्रीरामदेशिकगुरुं बलरामप्रपन्नदेशिकं देशिकदयाकैङ्कर्यसेवारतं श्रीजगन्नाथगुरुं प्रपन्नवरदं नित्यं भजेत्सादरम् ॥ ११॥ श्रीमदहोबिलनृसिंहपदाब्जभक्तं श्रीरामदेशिकद्व मन्त्ररत्नम् । श्रीदेशिकालबलरामपदे नियुक्तं श्रीमते जगन्नाथगुरुं भजामि ॥ १२॥ काश्यपगोत्रसमुद्भवे द्विजवरं वेदान्तसेवारतम् । स्वामिन् श्रीरामानुजरामदेशिकपदे कैङ्कर्यनिष्ठावृतम् ॥ १३॥ स्वामिन् श्रीजगन्नाथपादशशिने किरणै रसे वर्द्धितम् । स्वमिन् श्रीमज्जगद्गुरुं रोहिणीश्वरप्रपन्न- भक्तसुलभं नित्यं भजे सादरम् ॥ १४॥ इति गुरुपरम्परा २ समाप्ता ॥