अक्षर आकार:

श्रीगुरुपरम्परा

shrIguruparamparA

श्रीगुरुपरम्परा

॥ श्रीः ॥ श्रीमते रामानुजाय नमः श्रीमते वेदान्तमहागुरवे नमः श्रीमते रामानुजाय नमः । श्रीलक्ष्मीनृसिंह परब्रह्मणे नमः । अस्मद्गुरुभ्यो नमः । अस्मत्परमगुरुभ्यो नमः । अस्मत्सर्वगुरुभ्यो नमः । श्रीमते वेदान्तगुरवे नमः । श्रीमते रामानुजाय नमः । श्रीपराङ्कुशदासाय नमः । श्रीमद्यामुनमुनये नमः । श्रीराममिश्राय नमः । श्रीपुण्डरीकाक्षाय नमः । श्रीमते नाथमुनये नमः । श्रीमते शठकोपाय नमः । श्रीविष्वक्सेनाय नमः । श्रीश्रियै नमः । श्रीधराय नमः ॥ ॐ अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान् गुरून् । श्रीमल्लक्ष्मणयोगिपुङ्गवमहापूर्णं मुनीनां मुनिम् ॥ १॥ रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेषिणम् । सेनेशं श्रियमिन्दिरासहचरं नारायणं संश्रये ॥ २॥ सर्वदेशदिशाकालेष्वव्याहतपराक्रमः । रामानुजार्यदिव्याज्ञा वर्धतामनुवर्धताम् ॥ ३॥ रामानुजार्यदिव्याज्ञा प्रतिवासरमुज्ज्वला । दिगन्तव्यापिनी भूयात्सा हि लोकहितैषिणी ॥ ४॥ श्रीमन् श्रीरङ्गश्रियमनुपद्रवामनुदिनं संवर्धय । नमो रामानुजार्याय वेदान्तार्थप्रदायिने ॥ ५॥ आत्रेयपद्मनाभार्यसुताय गुणशालिने । रामानुजदयापात्रं ज्ञानवैराग्यभूषणम् ॥ श्रीमद्वेङ्कटनाथार्यं वन्दे वेदान्तदेशिकम् ॥ ६॥ लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ७॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्म- व्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतो सदयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ८॥ माता पिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानाम् । आद्यस्य नः कुलपतेर्वकुलाभिरामं श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ ९॥ भूतं सरश्च महदाह्वय भट्टनाथ श्रीभक्तिसारकुलशेखरयोगिवाहान् । भक्ताङ्घ्रिरेणुपरकालयतीन्द्रमिश्रान् श्रीमत्पराङ्कुशमुनिं प्रणतोऽस्मि नित्यम् ॥ १०॥ गुरुमुखमनधीत्य प्राह वेदानशेषान् नरपतिपरिक्लृप्तं शुल्कमादातुकामाः । श्वशुरममरवन्द्यं रङ्गनाथस्य साक्षात् द्विजकुलतिलकं तं विष्णुचित्तं नमामि ॥ ११॥ इति श्रीगुरुपरम्परा ॥