अक्षर आकार:

श्रीगुरुपादुकास्तोत्रम् २

Shri Gurupadukastotram 2

श्रीगुरुपादुकास्तोत्रम् २

नालीकनीकाशपदादृताभ्यां नारीविमोहादिनिवारकाभ्याम् । नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ १॥ शमादिषट्कप्रदवैभवाभ्यां समाधिदानव्रतदीक्षिताभ्याम् । रमाधवाङ्घ्रिस्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ २॥ नृपालिमौलिव्रजरत्नकान्तिसरिद्विराजज्झषकन्यकाभ्याम् । नृपत्वदाभ्यां नतलोकपङ्क्तेर्नमो नमः श्रीगुरुपादुकाभ्याम् ॥ अनन्तसंसारसमुद्रतारनौकायिताभ्यां गुरुभक्तिदाभ्याम् । वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ४॥ पापान्धकारार्कपरम्पराभ्यां तापत्रयाहीन्द्रखगेश्वराभ्याम् । जाड्याब्धिसंशोषणबाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ५॥ कवित्ववाराशिनिशाकराभ्यां दारिद्र्यदावाम्बुदमालिकाभ्याम् । दूरीकृतानम्रविपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ६॥ नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः । मूकश्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ७॥ कामादिसर्पव्रजभञ्जकाभ्यां विवेकवैराग्यनिधिप्रदाभ्याम् । बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ८॥ स्वार्चापराणामखिलेष्टदाभ्यां स्वाहासहायाक्षधुरन्धराभ्याम् । स्वान्ताच्छभावप्रदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाध्याम् ॥ ९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीगुरुपादुकास्तोत्रं सम्पूर्णम् ।