अक्षर आकार:

श्रीगुरुपादुकापञ्चकम् २

Shri Gurupadukapanchakam 2

श्रीगुरुपादुकापञ्चकम् २

ॐ नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः । आचार्य-सिद्धेश्वर-पादुकाभ्यो नमो नमः श्रीगुरुपादुकाभ्यः ॥ १॥ ऐङ्कार-ह्रीङ्कार-रहस्ययुक्त - श्रीङ्कार-गूढार्थ-महाविभूत्या । ओङ्कार-मर्म-प्रतिपादिनीभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ २॥ होत्राग्नि-होत्राग्नि-हविष्य-होतृ होमादि-सर्वाकृति-भासमानम् । यद्ब्रह्म तद्बोधवितारिणीभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ३॥ कामादिसर्पव्रजगारुडाभ्यां विवेकवैराग्यनिधिप्रदाभ्याम् । बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ४॥ अनन्त-संसार-समुद्रतार- नौकायिताभ्यां स्थिरभक्तिदाभ्याम् । जाड्याब्धि-संशोषण-वाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम् ॥ ५॥ इति श्रीगुरुपादुकापञ्चकं (२) सम्पूर्णम् ।