अक्षर आकार:

गुरुपादुकापञ्चकम्

gurupAdukApanchakam

गुरुपादुकापञ्चकम्

जगज्जनि-स्तेम-लयालयाभ्यां अगण्य-पुण्योदय-भाविताभ्याम्। त्रयीशिरोजात-निवेदिताभ्यां नमो नमः श्रीगुरुपादुकाभ्यम्॥१॥ विपत्तमस्तोम-विकर्तनाभ्यां विशिष्ट-संपत्ति-विवर्धनाभ्याम्। नमज्जनाशेष-विशेषदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥२॥ समस्त-दुस्तर्क-कलङ्क-पङ्कापनोदन-प्रौढ-जलाशयाभ्याम्। निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥३॥ तापत्रयादित्य-करार्दितानां छायामयीभ्यां अतिशीतलाभ्याम्। आपन्न-संरक्षण-दीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥४॥ यतो गिरोऽप्राप्य धिया समस्ता ह्रिया निवृत्ताः सममेव नित्याः। ताभ्यामजेशाच्युत-भाविताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥५॥ ये पादुका-पञ्चकमादरेण पठन्ति नित्यं प्रयताः प्रभाते। तेषां गृहे नित्य-निवासशीला श्रीदेशिकेन्द्रस्य कटाक्षलक्ष्मीः॥६॥