अक्षर आकार:

गुरुमहिमास्वमहिमा

Gurumahimasvamahima

गुरुमहिमास्वमहिमा

गुरुर्मूलं हि मन्त्राणां गुरुर्मूलं परन्तपः ॥ १-१८८॥ गुरोः प्रसादमात्रेण सिद्धिरेव न संशयः । अहं गुरुरहं देवो मन्त्रार्थोऽस्मि न संशयः ॥ १-१८९॥ भेदका नरकं यान्ति नानाशास्त्रार्थवर्जिताः । सर्वासामेव विद्यानां दीक्षा मूलं यथा प्रभो ॥ १-१९०॥ गुरुमूलस्वतन्त्रस्य गुरुरात्मा न संशयः । आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ १-१९१॥ आत्मना क्रियते कर्म भावसिद्धिस्तदा भवेत् । हीनाङ्गी कपटी रोगी बह्वाशी शीलवर्जितः ॥ १-१९२॥ मय्युपासनमास्थाय उपविद्यां सदाभ्यसेत् । धनं धान्यं सुतं वित्तं राज्यं ब्राह्मणभोजनम् ॥ १-१९३॥ शुभार्थं संप्रयोक्तव्यं नान्यचिन्ता वृथाफलम् । नित्यश्राद्धरतो मर्त्यो धर्मशीलो नरोत्तमः ॥ १-१९४॥ महीपालः प्रियाचारः पीठभ्रमणतत्परः । पीठे पीठे महाविद्यादर्शनं यदि लभ्यते ॥ १-१९५॥ तदा तस्य करे सर्वाः सिद्धयोऽव्यक्तमण्डलाः । अकस्माज्जायते सिद्धिर्महामायाप्रसादतः ॥ १-१९६॥ महावीरो महाधीरो दिव्यभावस्थितोऽपि वा । अथवा पशुभावस्थो मन्त्रपीठं विवासयेत् ॥ १-१९७॥ क्रियायाः फलदं प्रोक्तं भावत्रयमनोरमम् । तथा च युगभावेन दिव्यवीरेण भैरव ॥ १-१९८॥ प्रपश्यन्ति महावीराः पशवो हीनजातयः । न पश्यन्ति कलियुगे शास्त्राभिभूतचेतसः ॥ १-१९९॥ अपि वर्षसहस्रेण शास्त्रान्तं नैव गच्छति । तर्काद्यनेकशास्त्राणि अल्पायुर्विघ्नकोटयः ॥ १-२००॥ तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसि । कलौ च दिव्यवीराभ्यां नित्यं तद्गतचेतसः ॥ १-२०१॥ महाभक्ताः प्रपश्यन्ति महाविद्यापरं पदम् । साधवो मौनशीलाश्च सदा साधनतत्पराः ॥ १-२०२॥ दिव्यवीरस्वभावेन पश्यन्ति मत्पदाम्बुजम् । भावद्वयं ब्राह्मणानां महासत्फलकाङ्क्षिणाम् ॥ १-२०३॥ अथवा चावधूतानां भावद्वयमुदाहृतम् । भावद्वयप्रभावेण महायोगी भवेन्नरः ॥ १-२०४॥ मूर्खोऽपि वाक्पतिः श्रेष्ठो भावद्वयप्रसादतः । ये जानन्ति महादेव मम तन्त्रार्थसाधनम् ॥ १-२०५॥ भावद्वयं हि वर्णानां ते रुद्रा नात्र संशयः । भावुको भक्तियोगेन्द्रः सर्वभावज्ञसाधनः ॥ १-२०६॥ उन्मत्तजडवन्नित्यं निजतन्त्रार्थपारगः । वृक्षो वहति पुष्पाणि गन्धं जानाति नासिका ॥ १-२०७॥ पठन्ति सर्वशास्त्राणि दुर्लभा भावबोधकाः । प्रज्ञाहीनस्य पठनमन्धस्यादर्शदर्शनम् ॥ १-२०८॥ प्रज्ञावतो धर्मशास्त्रं बन्धनायोपकल्पते । तत्त्वमीदृगिति भवेदिति शास्त्रार्थनिश्चयः ॥ १-२०९॥ अहं कर्ताऽहमात्मा च सर्वव्यापी निराकुलः । मनसेति स्वभावञ्च चिन्तयत्यपि वाक्पतिः ॥ १-२१०॥ सौदामिनीतेजसो वा सहस्रवर्षकं यदा । प्रपश्यति महाज्ञानी एकचन्द्रं सहस्रकम् ॥ १-२११॥ कोटिवर्षशतेनापि यत्फलं लभते नरः । एकक्षणमङ्घ्रिरजो ध्यात्वा तत्फलमश्नुते ॥ १-२१२॥ विचरेद्यदि सर्वत्र केवलानन्दवर्धनम् । कामरूपं महापीठं त्रिकोणाधारतैजसम् ॥ १-२१३॥ जलबुद्बुद्शब्दान्तमनन्तमङ्गलात्मकम् । स भवेन्मम दासेन्द्रो गणेशगुहवत्प्रियः ॥ १-२१४॥ कङ्कालाख्या--साट्टहासा--विकटाक्षोपपीठकम् । विचरेत् साधकश्रेष्ठो मत्पादाब्जं यदीच्छति ॥ १-२१५॥ ज्वालामुखीमहापीठं मम प्रियमतर्कवित् । यो भ्रमेन्मम तुष्ट्यर्थं स योगी भवति ध्रुवम् ॥ १-२१६॥ भावद्वयादिनिकरं ज्वालामुख्यादिपीठकम् । भ्रमन्ति ये साधकेन्द्रास्ते सिद्धा नात्र संशयः ॥ १-२१७॥ भावात् परतरं नास्ति त्रैलोक्यसिद्धिमिच्छताम् । भावो हि परमं ज्ञानं ब्रह्मज्ञानमनुत्तमम् ॥ १-२१८॥ कोटिकन्याप्रदानेन वाराणस्यां शताटनैः । किं कुरुक्षेत्रगमने यदि भावो न लभ्यते ॥ १-२१९॥ गयायां श्राद्धदानेन नानापीठाटनेन किम् । नानाहोमैः क्रियाभिः किं यदि भावो न लभ्यते ॥ १-२२०॥ भावेन ज्ञानमुत्पन्नं ज्ञानान्मोक्षमवाप्नुयात् । आत्मनो मनसा देव्या गुरोरीश्वरमुच्यते ॥ १-२२१॥ ध्यानं संयोजनं प्रोक्तं मोक्षमात्ममनोलयम् । गुरोः प्रसादमात्रेण शक्तितोषो महान् भवेत् ॥ १-२२२॥ शक्तिसन्तोषमात्रेण मोक्षमाप्नोति साधकः । गुरुमूलं जगत्सर्वं गुरुमूलं परन्तपः ॥ १-२२३॥ गुरोः प्रसादमात्रेण मोक्षमाप्नोति सद्वशी । न लङ्घयेद् गुरोराज्ञामुत्तरं न वदेत् तथा ॥ १-२२४॥ दिवारात्रौ गुरोराज्ञां दासवत् परिपालयेत् । उक्तानुक्तेषु कार्येषु नोपेक्षां कारयेद् बुधः ॥ १-२२५॥ गच्छतः प्रयतो गच्छेद् गुरोराज्ञां न लङ्घयेत् । न श‍ृणोति गुरोर्वाक्यं श‍ृणुयाद् वा पराङ्मुखः ॥ १-२२६॥ अहितं वा हितं वापि रौरवं नरकं व्रजेत् । आज्ञाभङ्गं गुरोर्दैवाद् यः करोति विबुद्धिमान् ॥ १-२२७॥ प्रयाति नरकं घोरं शूकरत्वमवाप्नुयात् । आज्ञाभङ्गं तथा निन्दां गुरोरप्रियवर्तनम् ॥ १-२२८॥ गुरुद्रोहञ्च यः कुर्यात् तत्संसर्गं न कारयेत् । गुरुद्रव्याभिलाषी च गुरुस्त्रीगमनानि च ॥ १-२२९॥ पातकञ्च भवेत् तस्य प्रायश्चित्तं न कारयेत् । गुरुं दुष्कृत्य रिपुवन्निर्हरेत् परिवादतः ॥ १-२३०॥ अरण्ये निर्जने देशे स भवेद् ब्रह्मराक्षसः । पादुकां आसनं वस्त्रं शयनं भूषणानि च ॥ १-२३१॥ दृष्ट्वा गुरुं नमस्कृत्य आत्मभोगं न कारयेत् । सदा च पादुकामन्त्रं जिह्वाग्रे यस्य वर्तते ॥ १-२३२॥ अनायासेन धर्मार्थकाममोक्षं लभेन्नरः । श्रीगुरोश्चरणाम्भोजं ध्यायेच्चैव सदैव तम् ॥ १-२३३॥ भक्तये मुक्तये वीरं नान्यभक्तं ततोऽधिकम् । एकग्रामे स्थितः शिष्यो गत्वा तत्सन्निधिं सदा ॥ १-२३४॥ एकदेशे स्थितः शिष्यो गत्वा तत्सन्निधिं सदा । सप्तयोजनविस्तीर्णं मासैकं प्रणमेद् गुरुम् ॥ १-२३५॥ श्रीगुरोश्चरणाम्भोजं यस्यां दिशि विराजते । तस्यां दिशि नमस्कुर्यात् कायेन मनसा धिया ॥ १-२३६॥ विद्याङ्गमासनं मन्त्रं मुद्रां तन्त्रादिकं प्रभो । सर्वं गुरुमुखाल्लब्ध्वा सफलं नान्यथा भवेत् ॥ १-२३७॥ कम्बले कोमले वापि प्रसादे संस्थिते तथा । दीर्घकाष्ठेऽथवा पृष्ठे गुरुञ्चैकासनं त्यजेत् ॥ १-२३८॥ श्रीगुरोः पादुकामन्त्रं मूलमन्त्रं स्वपादुकाम् । शिष्याय नैव देवेश प्रवदेद् यस्य कस्यचित् ॥ १-२३९॥ यद् यदात्महितं वस्तु तद्द्रव्यं नैव वञ्चयेत् । गुरोर्लब्ध्वा एकवर्णं तस्य तस्यापि सुव्रत ॥ १-२४०॥ भक्ष्यं वित्तानुसारेण गुरुमुद्दिश्य यत्कृतम् । स्वल्पैरपि महत्तुल्यं भुवनाद्यं दरिद्रताम् ॥ १-२४१॥ सर्वस्वमपि यो दद्याद् गुरुभक्तिविवर्जितः । नरकान्तमवाप्नोति भक्तिरेव हि कारणम् ॥ १-२४२॥ गुरुभक्त्या च शक्रत्वमभक्त्या शूकरो भवेत् । गुरुभक्तः परं नास्ति भक्तिशास्त्रेषु सर्वतः ॥ १-२४३॥ गुरुपूजां विना नाथ कोटिपुण्यं वृथा भवेत् ॥ १-२४४॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वविद्यानुष्ठाने सिद्धिमन्त्रप्रकरणे भैरवीभैरवसंवादे प्रथमः पटलः ॥ १॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.