अक्षर आकार:

गुरुमहिमागुरुकृत्य

Gurumahimagurukritya

गुरुमहिमागुरुकृत्य

अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ २-२२॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ २-२३॥ देवतायाः दर्शनस्य कारणं करुणानिधिम् । सर्वसिद्धिप्रदातारं श्रीगुरुं प्रणमाम्यहम् ॥ २-२४॥ वराभयकरं नित्यं श्वेतपद्मनिवासिनम् । महाभयनिहन्तारं गुरुदेवं नमाम्यहम् ॥ २-२५॥ महाज्ञानाच्छापिताङ्गं नराकारं वरप्रदम् । चतुर्वर्गप्रदातारं स्थूलसूक्ष्मद्वयान्वितम् ॥ २-२६॥ सदानन्दमयं देवं नित्यानन्दं निरञ्जनम् । शुद्धसत्त्वमयं सर्वं नित्यकालं कुलेश्वरम् ॥ २-२७॥ ब्रह्मरन्ध्रे महापद्मे तेजोबिम्बे निराकुले । योगिभिर्ध्यानगम्ये च चक्रे शुक्ले विराजिते ॥ २-२८॥ सहस्रदलसङ्काशे कर्णिकामध्यमध्यके । महाशुक्लभासुरार्ककोटिकोटिमहौजसम् ॥ २-२९॥ सर्वपीठस्थममलं परं हंसं परात्परम् । वेदोद्धारकरं नित्यं काम्यकर्मफलप्रदम् ॥ २-३०॥ सदा मनःशक्तिमायालयस्थानं पदद्वयम् । शरज्ज्योत्स्नाजालमालाभिरिन्दुकोटिवन्मुखम् ॥ २-३१॥ वाञ्छातिरिक्तदातारं सर्वसिद्धीश्वरं गुरुम् । भजामि तन्मयो भूत्त्वा तं हंसमण्डलोपरि ॥ २-३२॥ आत्मानं च निराकारं साकारं ब्रह्मरूपिणम् । महाविद्यामहामन्त्रदातारं परमेश्वरम् ॥ २-३३॥ सर्वसिद्धिप्रदातारं गुरुदेवं नमाम्यहम् । कायेन मनसा वाचा ये नमन्ति निरन्तरम् ॥ २-३४॥ अवश्यं श्रीगुरोः पादाम्भोरुहे ते वसन्ति हि । प्रभाते कोटिपुण्यञ्च प्राप्नोति साधकोत्तमः ॥ २-३५॥ मध्याह्ने दशलक्षञ्च सायाह्ने कोटिपुण्यदम् । प्रातःकाले पठेत् स्तोत्रं ध्यानं वा सुसमाहितः ॥ २-३६॥ तदा सिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ २-३७॥ गुरुस्तोत्रम् । शिरसि सितपङ्कजे तरुणकोटिचन्द्रप्रभं वराभयकराम्बुजं सकलदेवतारूपिणम् । भजामि वरदं गुरुं किरणचारुशोभाकुलं प्रकाशितपदद्वयाम्बुजमलत्ककोटिप्रभम् ॥ २-३८॥ जगद्भयनिवारणं भुवनभोगमोक्षप्रदं गुरोः पादयुगाम्बुजं जयति यत्र योगे जयम् । भजामि परमं गुरुं नयनपद्ममध्यस्थितं भवाब्धिभयनाशनं शमनरोगकायक्षयम् ॥ २-३९॥ प्रकाशितसुपङ्कजे मृदुलषोडशाख्ये प्रभुं परापरगुरुं भजे सकलबाह्यभोगप्रदम् । विशालनयनाम्बुजद्वयतडित्प्रभामण्डलं कडारमणिपाटलेन्दुबिन्दुबिन्दुकम् ॥ २-४०॥ चलाचलकलेवरं प्रचपलदले द्वादशे । महौजसमुमापतेर्विगतदक्षभागे हृदि । प्रभाकरशतोज्ज्वलं सुविमलेन्दुकोट्याननम् । भजामि परमेष्ठिनं गुरुमतीव वारोज्ज्वलम् ॥ २-४१॥ गुर्वाद्यञ्च शुभं मदननिदहनं हेममञ्जरीसारं नानाशब्दाद्भुताह्लादितपरिजनाच्चारुचक्रत्रिभङ्गम् । नित्यं ध्यायेत् प्रभाते अरुणशतघटाशोभनं योगगम्यं नाभौ पद्मेऽतिकान्ते दशदलमणिभे भाव्यते योगिभिर्यत् ॥ २-४२॥ या माता मयदानवादिस्वभुजा निर्वाणसीमापुरे स्वाधिष्ठाननिकेतने रसदले वैकुण्ठमूले मया । जन्मोद्धारविकारसुप्रहरिणी वेदप्रभा भाव्यते कन्दर्पार्पितशान्तियोनिजननी विष्णुप्रिया शाङ्करी ॥ २-४३॥ या भाषाननकुण्डली कुलपथाच्छामाभशोभाकरी । मूले पद्मचतुर्दले कुलवती निःश्वासदेशाश्रिता । साक्षात्काङ्क्षितकल्पवृक्षलतिका सूद्भाषयन्ती प्रिया । नित्या योगिभयापहा विषहरा गुर्वम्बिका भाव्यते ॥ २-४४॥ ऊर्द्ध्वाम्भोरुहनिःसृतामृतघटी मोदोद्वलाप्लाविता गुर्वास्या परिपातु सूक्ष्मपथगा तेजोमयी भास्वती । सूक्ष्मा साधनगोचरामृतमयी मूलादिशीर्षाम्बुजे पूर्णा चेतसि भाव्यते भुवि कदा माता सदोर्द्ध्वामगा ॥ २-४५॥ गुरुस्तोत्रफलश्रुतिः । स्थितिपालनयोगेन ध्यानेन पूजनेन वा । यः पठेत् प्रत्यहं व्याप्य स देवो न तु मानुषः ॥ २-४६॥ कल्याणं धनधान्यं च कीर्तिमायुर्यशःश्रियम् । सायाह्ने च प्रभाते च पठेद्यदि सुबुद्धिमान् ॥ २-४७॥ स भवेत् साधकश्रेष्ठः कल्पद्रुमकलेवरः । स्तवस्यास्य प्रसादेन वागीशत्वमवाप्नुयात् ॥ २-४८॥ पशुभावस्थिता ये तु तेऽपि सिद्धाः न संशयः । गुरुलक्षणम् । आदौ साधकदेवश्च सदाचारमतिः सदा ॥ २-४९॥ पशुभावस्ततो वीरः सायाह्ने दिव्यभाववान् । एतेषां भाववर्गाणां गुरुर्वेदान्तपारगः ॥ २-५०॥ शान्तो दान्तः कुलीनश्च विनीतः शुद्धवेषवान् । शुद्धाचारः सुप्रतिष्ठः शुचिर्दक्षः सुबुद्धिमान् ॥ २-५१॥ आश्रमी ध्याननिष्ठश्च मन्त्रतन्त्रविशारदः । निग्रहानुग्रहे शक्तो वशी मन्त्रार्थजापकः ॥ २-५२॥ निरोगी निरहङ्कारो विकाररहितो महान् । पण्डितो वाक्पतिः श्रीमान् सदा यज्ञविधानकृत् ॥ २-५३॥ पुरश्चरणकृत् सिद्धो हिताहितविवर्जितः । सर्वलक्षणसंयुक्तो महाजनगणादृतः ॥ २-५४॥ प्राणायामादिसिद्धान्तो ज्ञानी मौनी विरागवान् । तपस्वी सत्यवादी च सदा ध्यानपरायणः ॥ २-५५॥ आगमार्थविशिष्टज्ञो निजधर्मपरायणः । अव्यक्तलिङ्गचिह्नस्थो भावको भद्रदानवान् ॥ २-५६॥ लक्ष्मीवान् धृतिमान्नाथो गुरुरित्यभिधीयते । शिष्यलक्षणम् । शिष्यस्तु तादृशो भूत्त्वा सद्गुरुं पर्युपाश्रयेत् ॥ २-५७॥ वर्जयेच्च परानन्दरहितं रूपवर्जितम् । कुष्ठिनं क्रूरकर्माणं निन्दितं रोगिणं गुरुम् ॥ २-५८॥ अष्टप्रकारकुष्ठेन गलत्कुष्ठिनमेव च । श्वित्रिणं जनहिंसार्थं सदार्थग्राहिणं तथा ॥ २-५९॥ स्वर्णविक्रयिणं चौरं बुद्धिहीनं सुखर्वकम् । श्यावदन्तं कुलाचाररहितं शान्तिवर्जितम् ॥ २-६०॥ सकलङ्कं नेत्ररोगैः पीडितं परदारगम् । असंस्कारं प्रवक्तारं स्त्रीजितं चाधिकाङ्गकम् ॥ २-६१॥ कपटात्मानकं हिंसाविशिष्टं बहुजल्पकम् । बह्वाशिनं हि कृपणं मिथ्यावादिनमेव च ॥ २-६२॥ अशान्तं भावहीनं च पञ्चाचारविवर्जितम् । दोषजालैः पूरिताङ्गं पूजयेन्न गुरुं बिना ॥ २-६३॥ गुरौ मानुषबुद्धिं तु मन्त्रेषु लिपिभावनम् । प्रतिमासु शिलारूपं विभाव्य नरकं व्रजेत् ॥ २-६४॥ जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः । गुरुर्विशेषतः पूज्यो धर्माधर्मप्रदर्शकः ॥ २-६५॥ गुरुः पिता गुरुर्माता गुरुर्देवो गुरुर्गतिः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ २-६६॥ गुरोर्हितं प्रकर्तव्यं वाङ्मनःकायकर्मभिः । अहिताचरणाद् देव विष्ठायां जायते कृमिः ॥ २-६७॥ मन्त्रत्यागाद् भवेन्मृत्युर्गुरुत्यागाद् दरिद्रता । गुरुमन्त्रपरित्यागाद् रौरवं नरकं व्रजेत् ॥ २-६८॥ गुरौ सन्निहिते यस्तु पूजयेदन्यदेवताम् । प्रयाति नरकं घोरं सा पूजा विफला भवेत् ॥ २-६९॥ गुरुवद् गुरुपुत्रेषु गुरुवत् तत्सुतादिषु । अविद्यो वा सविद्यो वा गुरुरेव तु दैवतम् ॥ २-७०॥ अमार्गस्थोऽपि मार्गस्थो गुरुरेव तु दैवतम् । उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदो गुरुः ॥ २-७१॥ तस्मान्मन्येत सततं पितुरप्यधिकं गुरुम् । गुरुदेवाधीनश्चास्मि शास्त्रे मन्त्रे कुलाकुले ॥ २-७२॥ नाधिकारी भवेन्नाथ श्रीगुरोः पदभावकः । गुरुर्माता पिता स्वामी बान्धवः सुहृत् शिवः ॥ २-७३॥ इत्याधाय मनो नित्यं भजेत् सर्वात्मना गुरुम् । एकमेव परं ब्रह्म स्थूलशुक्लमणिप्रभम् ॥ २-७४॥ सर्वकर्मनियन्तारं गुरुमात्मानमाश्रयेत् । गुरुश्च सर्वभावानां भावमेकं न संशयः ॥ २-७५॥ निःसन्दिग्धं गुरोर्वाक्यं संशयात्मा विनश्यति निःसंशयी गुरुपदे सर्वत्यागी पदं व्रजेत् ॥ २-७६॥ खेचरत्वमवाप्नोति मासादेव न संशयः । सद्गुरुमाश्रितं शिष्यं वर्षमेकं प्रतीक्षयेत् ॥ २-७७॥ सगुणं निर्गुणं वापि ज्ञात्वा मन्त्रं प्रदापयेत् । शिष्यस्य लक्षणं सर्वं शुभाशुभविवेचनम् ॥ २-७८॥ अन्यथा विप्रदोषेण सिद्धिपूजाफलं दहेत् । कामुकं कुटिलं लोकनिन्दितं सत्यवर्जितम् ॥ २-७९॥ अविनीतमसमर्थं प्रज्ञाहीनं रिपुप्रियम् । सदापापक्रियायुक्तं विद्याशून्यं जडात्मकम् ॥ २-८०॥ कलिदोषसमूहाङ्गं वेदक्रियाविवर्जितम् । आश्रमाचारहीनं चाशुद्धान्तःकरणोद्यतम् ॥ २-८१॥ सदा श्रद्धाविरहितमधैर्यं क्रोधिनं भ्रमम् । असच्चरित्रं विगुणं परदारातुरं सदा ॥ २-८२॥ असद्बुद्धिसमूहोत्थमभक्तं द्वैतचेतसम् । नानानिन्दावृताङ्गं च तं शिष्यं वर्जयेद् गुरुः ॥ २-८३॥ यदि न त्यज्यते वीर धनादिदानहेतुना । नारकी शिष्यवत् पापी तद्विशिष्टमवाप्नुयात् ॥ २-८४॥ क्षणादसिद्धः स भवेत् शिष्यासादितपातकैः । अकस्मान्नरकं प्राप्य कार्यनाशाय केवलम् ॥ २-८५॥ विचार्य यत्नात् विधिवत् शिष्यसङ्ग्रहमाचरेत् । अन्यथा शिष्यदोषेण नरकस्थो भवेद् गुरुः ॥ २-८६॥ न पत्नीं दीक्षयेद् भर्ता न पिता दीक्षयेत् सुताम् । न पुत्रं च तथा भ्राता भ्रातरं नैव दीक्षयेत् ॥ २-८७॥ सिद्धमन्त्रो यदि पतिस्तदा पत्नीं स दीक्षयेत् । शक्तित्त्वेन भैरवस्तु न च सा पुत्रिका भवेत् । मन्त्राणां देवता ज्ञेया देवता गुरुरूपिणी ॥ २-८८॥ तेषां भेदो न कर्तव्यो यदीच्छेच्छुभमात्मनः । एकग्रामे स्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद् गुरुम् ॥ २-८९॥ क्रोशमात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेत् । अर्धयोजनतः शिष्यः प्रणमेत् पञ्चपर्वसु ॥ २-९०॥ एकयोजनमारभ्य योजनद्वादशावधिः । दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः ॥ २-९१॥ तन्त्रयोजनसङ्ख्योक्तमासेन प्रणमेद् गुरुम् । वर्षैकेण भवेद् योग्यो विप्रो हि गुरुभावतः ॥ २-९२॥ वर्षद्वयेन राजन्यो वैश्यस्तु वत्सरैस्त्रिभिः । चतुर्भिर्वत्सरैः शूद्रः कथिता शिष्ययोग्यता ॥ २-९३॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सर्वविद्यानुष्ठाने सिद्धिमन्त्रप्रकरणे भैरवीभैरवसंवादे गुरुमहिमागुरुकृत्यः द्वितीयः पटलः ॥ १॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.