अक्षर आकार:

श्रीगुरुकवचम्

Shrigurukavacham

श्रीगुरुकवचम्

॥ अथ पुरश्चरणरसोल्लासे ईश्वरदेवीसंवादे श्रीगुरुकवचम् ॥ पूर्वपीठिका ॥ श्रीईश्वर उवाच ॥ श‍ृणु देवि! प्रवक्ष्यामि गुह्याद्गुह्यतरं महत् । लोकोपकारकं प्रश्नं न केनापि कृतं पुरा ॥ १॥ अद्य प्रभृति कस्यापि न ख्यातं कवचं मया । देशिकाः बहवः सन्ति मन्त्रसाधनतत्पराः ॥ २॥ न तेषां जायते सिद्धिः मन्त्रैर्वा चक्रपूजनैः । गुरोर्विधानं कवचमज्ञात्वा क्रियते जपः । वृथाश्रमो भवेत् तस्य न सिद्धिर्मन्त्रपूजनैः ॥ ३॥ गुरुपादं पुरस्कृत्य प्राप्यते कवचं शुभम् । तदा मन्त्रस्य यन्त्रस्य सिद्धिर्भवति तत्क्षणात् । सुगोप्यं तु प्रजप्तव्यं न वक्तव्यं वरानने ॥ ४॥ ॥ सविधि श्रीगुरुकवचस्तोत्रम् ॥ विनियोगः -- ॐ नमोऽस्य श्रीगुरुकवचनाममन्त्रस्य परमब्रह्म ऋषिः सर्ववेदानुज्ञो देवदेवो श्री आदिशिवः देवता नमो हसौं हंसः ह-स-क्ष-म-ल-व-र-यूं सोऽहं हंसः बीजं स-ह-क्ष-म-ल-व-र-यीं शक्तिःहंसः सोऽहं कीलकं समस्तश्रीगुरुमण्डलप्रीत्यर्थे जपे विनियोगः । ऋष्यादिन्यासः -- श्रीपरमब्रह्मर्षये नमः शिरसि । सर्ववेदानुज्ञदेवदेव श्री आदिशिवदेवतायै नमः हृदि । नमः हसौं हंसः ह-स-क्ष-म-ल-व-र-यूं सोऽहं हंसः बीजाय नमः गुह्ये । स-ह-क्ष-म-ल-व-र-यीं शक्तये नमः नाभौ । हंसः सोऽहं कीलकाय नमः पादयोः । समस्तश्रीगुरुमण्डलप्रीत्यर्थे जपे विनियोगाय नमः अञ्जलौ । अथ षडङ्गन्यासः । ॐ हसाम् । ॐ हसीम् । ॐ हसूम् । ॐ हसैम् । ॐ हसौम् । ॐ हसः । अथ करन्यासः । ॐ हसां अङ्गुष्ठाभ्यां नमः । ॐ हसीं तर्जनीभ्यां नमः । ॐ हसूं मध्यमाभ्यां नमः । ॐ हसैं अनामिकाभ्यां नमः । ॐ हसौं कनिष्ठाभ्यां नमः । ॐ हसः करतलकरपृष्ठाभ्यां नमः । अथ अङ्गन्यासः । ॐ हसां हृदयाय नमः । ॐ हसीं शिरसे स्वाहा । ॐ हसूं शिखायै वषट् । ॐ हसैं कवचाय हुं । ॐ हसौं नेत्रत्रयाय वौषट् । ॐ हसः अस्त्राय फट् । ध्यानम् -- श्रीसिद्धमानवमुखा गुरवः स्वरूपं संसारदाहशमनं द्विभुजं त्रिनेत्रम् । वामाङ्गशक्तिसकलाभरणैर्विभूषं ध्यायेज्जपेत् सकलसिद्धिफलप्रदं च ॥ मानसपूजन -- लं पृथिव्यात्मकं गन्धतन्मात्रप्रकृत्यात्मकं गन्धं सशक्तिकाय श्रीगुरवे समर्पयामि नमः । हं आकाशात्मकं शब्दतन्मात्रप्रकृत्यात्मकं पुष्पं सशक्तिकाय श्रीगुरवे समर्पयामि नमः । यं वाय्वात्मकं स्पर्शतन्मात्रप्रकृत्यात्मकं धूपं सशक्तिकाय श्रीगुरवे घ्रापयामि नमः । रं वह्न्यात्मकं रूपतन्मत्रप्रकृत्यात्मकं दीपं सशक्तिकाय श्रीगुरवे समर्पयामि नमः । वं अमृतात्मकं रसतन्मात्रप्रकृत्यात्मकं नैवेद्यं सशक्तिकाय श्रीगुरवे समर्पयामि नमः । सं सर्वात्मिकां ताम्बूलादिसर्वोपचारपूजां सशक्तिकाय श्रीगुरवे समर्पयामि नमः । ॥ कवचस्तोत्रम् ॥ ॐ नमः प्रकाशानन्दनाथः तु शिखायां पातु मे सदा । परशिवानन्दनाथः शिरो मे रक्षयेत् सदा ॥ १॥ परशक्तिदिव्यानन्दनाथो भाले च रक्षतु । कामेश्वरानन्दनाथो मुखं रक्षतु सर्वधृक् ॥ २॥ दिव्यौघो मस्तकं देवि! पातु सर्वशिरः सदा । कण्ठादिनाभिपर्यन्तं सिद्धौघा गुरवः प्रिये ॥ ३॥ भोगानन्दनाथ गुरुः पातु दक्षिणबाहुकम् । समयानन्दनाथश्च सन्ततं हृदयेऽवतु ॥ ४॥ सहजानन्दनाथश्च कटिं नाभिं च रक्षतु । एष स्थानेषु सिद्धौघाः रक्षन्तु गुरवः सदा ॥ ५॥ अधरे मानवौघाश्च गुरवः कुलनायिके! गगनानन्दनाथश्च गुल्फयोः पातु सर्वदा ॥ ६॥ नीलौघानन्दनाथश्च रक्षयेत् पादपृष्ठतः । स्वात्मानन्दनाथगुरुः पादाङ्गुलीश्च रक्षतु ॥ ७॥ कन्दोलानन्दनाथश्च रक्षेत् पादतले सदा । इत्येवं मानवौघाश्च न्यसेन्नाभ्यादिपादयोः ॥ ८॥ गुरुर्मे रक्षयेदुर्व्यां सलिले परमो गुरुः । परापरगुरुर्वह्नौ रक्षयेत् शिववल्लभे ॥ ९॥ परमेष्ठीगुरुश्चैव रक्षयेत् वायुमण्डले । शिवादिगुरवः साक्षात् आकाशे रक्षयेत् सदा ॥ १०॥ इन्द्रो गुरुः पातु पूर्वे आग्नेयां गुरुरग्नयः । दक्षे यमो गुरुः पातु नैऋत्यां निऋतिर्गुरुः ॥ ११॥ वरुणो गुरुः पश्चिमे वायव्यां मारुतो गुरुः । उत्तरे धनदः पातु ऐशान्यामीश्वरो गुरुः ॥ १२॥ ऊर्ध्वं पातु गुरुर्ब्रह्मा अनन्तो गुरुरप्यधः । एवं दशदिशः पान्तु इन्द्रादिगुरवः क्रमात् ॥ १३॥ शिरसः पादपर्यन्तं पान्तु दिव्यौघसिद्धयः । मानवौघाश्च गुरवो व्यापकं पान्तु सर्वदा ॥ १४॥ सर्वत्र गुरुरूपेण संरक्षेत् साधकोत्तमम् । आत्मानं गुरुरूपं च ध्यायेन् मन्त्रं सदा बुधः ॥ १५॥ ॥ फलश्रुतिः ॥ इत्येवं गुरुकवचं ब्रह्मलोकेऽपि दुर्लभम् । तव प्रीत्या मया ख्यातं न कस्य कथितं प्रिये ॥ १॥ पूजाकाले पठेद् यस्तु जपकाले विशेषतः । त्रैलोक्यदुर्लभं देवि । भुक्तिमुक्तिफलप्रदम् ॥ २॥ सर्वमन्त्रफलं तस्य सर्वयन्त्रफलं तथा । सर्वतीर्थफलं देवि । यः पठेत् कवचं गुरोः ॥ ३॥ अष्टगन्धेन भूर्जे च लिख्यते चक्रसंयुतम् । कवचं गुरुपङ्क्तेस्तु भक्त्या च शुबवासरे ॥ ४॥ पूजयेत् धूपदीपाद्यैः सुधाभिः सितसंयुतैः । तर्पयेत् गुरुमन्त्रेण साधकः शुद्धचेतसा ॥ ५॥ धारयेत् कवचं देवि! इह भूतभयापहम् । पठेन्मन्त्री त्रिकालं हि स मुक्तो भवबन्धनात् । एवं कवचं परमं दिव्यसिद्धौघकलावान् ॥ ६॥ ॥ इति पुरश्चरणरसोल्लासे द्वितीयप्रश्ने दशमपटले ईश्वरदेवीसंवादे श्रीगुरुकवचं सम्पूर्णम् ॥