अक्षर आकार:

गुरुकवचं कङ्कालमालिनीतन्त्रे

Gurukavacham from KakalamAlinitantra

गुरुकवचं कङ्कालमालिनीतन्त्रे

॥ अथ गुरुकवचं कङ्कालमालिनीतन्त्रे ॥ देव्युवाच ॥ भूतनाथ ! महादेव ! कवचं तस्य मे वद । गुरुदेवस्य देवेश ! साक्षाद्ब्रह्मस्वरूपिणः ॥ १॥ ईश्वर उवाच ॥ अथा ते कथयामीशे ! कवचं मोक्षदायकम् । यस्य ज्ञानं विना देवि ! न सिद्धिर्न च सद्गतिः ॥ २॥ ब्रह्मादयोऽपि गिरिजे ! सर्वत्र जयिनः स्मृताः । अस्य प्रसादात् सकला वेदागमपुरःसराः ॥ ३॥ कवचस्यास्य देवेशि ! ऋषिर्विष्णुरुदाहृतः । छन्दो विराड् देवता च गुरुदेवः स्वयं शिवः ॥ ४॥ छतुर्वर्गे ज्ञानमार्गे विनियोगः प्रकीर्त्तितः । सहस्रारे महापद्मे कर्पूरधवलो गुरुः ॥ ५॥ वामोरुस्थितशक्तिर्यः सर्वत्र परिरक्षतु । परमाख्यो गुरुः पातु शिरसं मम वल्लभे ! ॥ ६॥ परापराख्यो नासां मे परमेष्ठी मुखं सदा । कण्ठं मम सदा पातु प्रह्लादानन्दनाथकः ॥ ७॥ बाहू द्वौ सनकानन्दः कुमारानन्द एव च । वशिष्ठानन्दनाथश्च हृदयं पातु सर्वदा ॥ ८॥ क्रोधानन्दः कटिं पातु सुखानन्दः पदं मम । ध्यानानन्दश्च सर्वाङ्गं बोधानन्दश्च कानने ॥ ९॥ सर्वत्र गुरवः पान्तु सर्वे ईश्वररूपिणः । इति ते कथितं भद्रे ! कवचं परमं शिवे ! ॥ १०॥ भक्तिहीने दुराचारे दत्त्वैतन्मृत्युमाप्नुयात् ॥ अस्यैव पठनाद्देवि ! धारणात्छ्रवणात् प्रिये ! ॥ ११॥ जायते मन्त्रसिद्धिश्च किमन्यत् कथयामि ते । कण्ठे वा दक्षिणे बाहौ शिखायां वीरवन्दिते ! ॥ १२॥ धारणान्नाशयेत् पापं गङ्गायां कल्मषं यथा । इदं कवचमज्ञात्वा यदि मन्त्रं जपेत् प्रिये ! ॥ १३॥ तत् सर्वं निष्फलं कृत्वा गुरुर्याति सुनिश्चितम् । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ १४॥ ॥ इति कङ्कालमालिनीतन्त्रे गुरुकवचं समाप्तम् ॥ http://muktalib5.org