अक्षर आकार:

श्रीगुरुभजनस्तोत्रम्

Shri Gurubhajana Stotram

श्रीगुरुभजनस्तोत्रम्

कलाभिः कल्पिताशेष-भुवनानन्दभोजनम् । क्रीडन्तं त्रिपुरे नित्यं परसंविद्गुरुं भजे ॥ १॥ हर्याकारं हराकारं ह्रीङ्कारं वाम्बिकातनुम् । हृदयेऽद्वैतमात्मानं द्योतयं गुरुं भजे ॥ २॥ शिवप्रियञ्च रुद्राक्षं गले भाले त्रिपुण्ड्र-कम् । करे संविन्मयीं मुद्रां धारयन्तं गुरुं भजे ॥ ३॥ काषायवसनोपेतं करुणार्द्रविलोचनम् । कामारिसेवनासक्तं कल्मषघ्नं गुरुं भजे ॥ ४॥ श्रितार्तिभेदनोद्युक्तं शर्मदं शमशोभितम् । श्रुत्यन्तवाक्यमनिशं श्रावयन्तगुरुं भजे ॥ ५॥ संशयोच्छेदने दक्षं रक्षिताचार्यसनिअतिम् । स्वनाथ-करपाथोज-सञ्जातं सद्गुरुं भजे ॥ ६॥ दीक्षितं शिष्यमोक्षार्थे साक्षात्कृतमहत्पदम् । दक्षिणामुखदेवांशं ब्रह्मनिष्ठं गुरुं भजे ॥ ७॥ ग्रन्थिं भित्त्वा विनिर्यान्तं वर्षन्तं गगनेऽमृतम् । कोटिविद्युत्प्रतीकाशं शक्तिपुञ्जं गुरुं भजे ॥ ८॥ जनयित्वा निजानन्दे रक्षित्वा मां क्षणे क्षणे । पाययन्तं भक्तिरसं मातृभूतं गुरुं भजे ॥ ९॥ अनन्यभावनगम्यं अभयं ज्योतिरान्तरम् । इच्छाज्ञानक्रियामूलं आत्मरूपं गुरुं भजे ॥ १०॥ देशिकेश्वरपश्वादि-भेदशून्यं चिदम्बरम् । देशकालानवच्छिन्नं निर्विकल्पं गुरुं भजे ॥ ११॥ मज्जन्मजन्मसाफल्यमहो जातमयत्नतः । यदङ्घ्रिरेणुसंस्पर्शात् तमानन्दं गुरुं भजे ॥ १२॥ श्रीगुरुद्वादशात्मानं ध्यात्वा स्तोत्रमिमं पठेत् । साधकोत्तमः संविद्-दृष्टिसौष्ठवहेतवे । इति श्रीगुरुभजनस्तोत्रं सम्पूर्णम् ।