अक्षर आकार:

श्रीगुरु अष्टोत्तरशतनामावली

Guru Ashtottarashata Namavali

श्रीगुरु अष्टोत्तरशतनामावली

ॐ सद्गुरवे नमः । ॐ अज्ञाननाशकाय नमः । ॐ अदम्भिने नमः । ॐ अद्वैतप्रकाशकाय नमः । ॐ अनपेक्षाय नमः । ॐ अनसूयवे नमः । ॐ अनुपमाय नमः । ॐ अभयप्रदात्रे नमः । ॐ अमानिने नमः । ॐ अहिंसामूर्तये नमः । ॐ अहैतुक-दयासिन्धवे नमः । ॐ अहंकार-नाशकाय नमः । ॐ अहंकार-वर्जिताय नमः । ॐ आचार्येन्द्राय नमः । ॐ आत्मसन्तुष्टाय नमः । ॐ आनन्दमूर्तये नमः । ॐ आर्जवयुक्ताय नमः । ॐ उचितवाचे नमः । ॐ उत्साहिने नमः । ॐ उदासीनाय नमः । ॐ उपरताय नमः । ॐ ऐश्वर्ययुक्ताय नमः । ॐ कृतकृत्याय नमः । ॐ क्षमावते नमः । ॐ गुणातीताय नमः । ॐ चारुवाग्विलासाय नमः । ॐ चारुहासाय नमः । ॐ छिन्नसंशयाय नमः । ॐ ज्ञानदात्रे नमः । ॐ ज्ञानयज्ञतत्पराय नमः । ॐ तत्त्वदर्शिने नमः । ॐ तपस्विने नमः । ॐ तापहराय नमः । ॐ तुल्यनिन्दास्तुतये नमः । ॐ तुल्यप्रियाप्रियाय नमः । ॐ तुल्यमानापमानाय नमः । ॐ तेजस्विने नमः । ॐ त्यक्तसर्वपरिग्रहाय नमः । ॐ त्यागिने नमः । ॐ दक्षाय नमः । ॐ दान्ताय नमः । ॐ दृढव्रताय नमः । ॐ दोषवर्जिताय नमः । ॐ द्वन्द्वातीताय नमः । ॐ धीमते नमः । ॐ धीराय नमः । ॐ नित्यसन्तुष्टाय नमः । ॐ निरहंकाराय नमः । ॐ निराश्रयाय नमः । ॐ निर्भयाय नमः । ॐ निर्मदाय नमः । ॐ निर्ममाय नमः । ॐ निर्मलाय नमः । ॐ निर्मोहाय नमः । ॐ निर्योगक्षेमाय नमः । ॐ निर्लोभाय नमः । ॐ निष्कामाय नमः । ॐ निष्क्रोधाय नमः । ॐ निःसंगाय नमः । ॐ परमसुखदाय नमः । ॐ पण्डिताय नमः । ॐ पूर्णाय नमः । ॐ प्रमाणप्रवर्तकाय नमः । ॐ प्रियभाषिणे नमः । ॐ ब्रह्मकर्मसमाधये नमः । ॐ ब्रह्मात्मनिष्ठाय नमः । ॐ ब्रह्मात्मविदे नमः । ॐ भक्ताय नमः । ॐ भवरोगहराय नमः । ॐ भुक्तिमुक्तिप्रदात्रे नमः । ॐ मंगलकर्त्रे नमः । ॐ मधुरभाषिणे नमः । ॐ महात्मने नमः । ॐ महावाक्योपदेशकर्त्रे नमः । ॐ मितभाषिणे नमः । ॐ मुक्ताय नमः । ॐ मौनिने नमः । ॐ यतचित्ताय नमः । ॐ यतये नमः । ॐ यद्दृच्छालाभसन्तुष्टाय नमः । ॐ युक्ताय नमः । ॐ रागद्वेषवर्जिताय नमः । ॐ विदिताखिलशास्त्राय नमः । ॐ विद्याविनयसम्पन्नाय नमः । ॐ विमत्सराय नमः । ॐ विवेकिने नमः । ॐ विशालहृदयाय नमः । ॐ व्यवसायिने नमः । ॐ शरणागतवत्सलाय नमः । ॐ शान्ताय नमः । ॐ शुद्धमानसाय नमः । ॐ शिष्यप्रियाय नमः । ॐ श्रद्धावते नमः । ॐ श्रोत्रियाय नमः । ॐ सत्यवाचे नमः । ॐ सदामुदितवदनाय नमः । ॐ समचित्ताय नमः । ॐ समाधिक-वर्जिताय नमः । ॐ समाहितचित्ताय नमः । ॐ सर्वभूतहिताय नमः । ॐ सिद्धाय नमः । ॐ सुलभाय नमः । ॐ सुशीलाय नमः । ॐ सुहृदे नमः । ॐ सूक्ष्मबुद्धये नमः । ॐ संकल्पवर्जिताय नमः । ॐ सम्प्रदायविदे नमः । ॐ स्वतन्त्राय नमः । इति श्रीगुरु अष्टोत्तरशतनामावलिः समाप्ता ।