अक्षर आकार:

श्रीगोरक्षसहस्रनामस्तोत्रम्

GorakShasahasranamastotram

श्रीगोरक्षसहस्रनामस्तोत्रम्

श्रीगोरक्ष विधि विधान ॐ श्री गणेशाय नमः ॥ ॐ गोरक्षनाथाय नमः ॥ योगीन्द्रं योगगम्यं यतिपतिममलं सच्चिदानन्दरूपं शून्याधारं निरीहं जगदुदयलयस्थैर्यंहेतुं मुनीन्द्रम् । स्वात्मारामाभिरामं भवभय हरणं भुक्तिमुक्त्योर्निदानं पुण्यं वन्दारुवन्द्यं सुविदितयशसं नौमि गोरक्षनाथम् ॥ श्रीकृष्ण उवाच - गोरक्षनाथः को देवः को मन्त्रस्तस्य पूजने । सेव्यते केन विधिना तन्मे ब्रूहि महामुने ॥ १॥ गर्ग उवाच - देवाश्च मुनयः सर्वे प्रपच्छुर्धर्मवादिनः । देवदेवं महादेवं गोरक्षस्य च कीर्तनम् ॥ २॥ देवाः उवाच - काऽसौ गोरक्षनाथो वै तपस्वी जटिलाभिधः । कथं जातो महाबुद्धिरेतद् ब्रूहि सविस्तरम् ॥ ३॥ श्रीमहादेव उवाच - स्वयं ज्योतिस्वरूपोऽयं शून्याधारो निरञ्जनः । समुद्भूतो दक्षिणास्यां दिशि गोरक्षसंज्ञकः ॥ ४॥ माता शून्यमयी तस्य व्यवहारमयः पिता । निरञ्जनो महायोगी गोरक्षो जगतो गुरुः ॥ ५॥ अहमेवास्मि गोरक्षो मद्रूपं तन्निबोधत । योगमार्गप्रचाराय मया रूपमिदं धृतम् ॥ ६॥ गोरक्षनाथमन्त्रे तु गृहिते विधिपूर्वकम् । तस्याऽनुष्ठानमात्रेण भवेत् सिद्धिर्ध्रुवं नृणाम् ॥ ७॥ देवाः उवाच - देवदेव महादेव गोरक्षस्य च पूजने । को मन्त्रः को विधिश्चास्य तत्सर्वं कथयस्व नः ॥ ८॥ महादेव उवाच्च - देवाः ! श‍ृणुत वै सर्वे गोरक्षस्य विधिक्रियाः । गोरक्षा मनसि ध्यात्वा योगीन्द्रो भविता नरः ॥ ९॥ विना गोरक्षमन्त्रेण योगसिद्धिर्न जायते । गोरक्षस्य प्रसादेन सर्वसिद्धिर्न संशयः ॥ १०॥ श्रीकृष्ण उवाच - धन्योऽसि मुनिशार्दूल गोरक्षस्य विधिक्रियाः । याःप्रोक्ता भवता श्रोतुं परं कौतूहलं हि मे ॥ ११॥ गर्ग उवाच - श‍ृणु त्वं राधिकानाथ विधिपूर्वकजां क्रियाम् । गुह्यातिगृह्यमन्त्रस्य वेदस्यागमनं विधिः ॥ १२॥ गुह्यातिगुह्याः परमाः गोरक्षस्य विधिक्रियाः । वदामि भवतामग्रे श‍ृण्वन्तु खलु तत्त्वतः ॥ १३॥ अङ्गन्यासं करन्यासं दिङ्न्यासं मन्त्रमेव च । ध्यानं नाम्नां सहस्रं च सर्वं व्याख्यायते मया ॥ १४॥ सङ्कल्पं प्रथमं कुर्यात् तत्तो न्यासं समाचरेत् । आदौ न्यासविधिं कृत्वा पश्चात् पूजां समाचरेत् ॥ १५॥ प्रथमं तु अङ्गन्यासं करन्यासं मथापरम् । तृतीयं तु दिशान्यासं ततो ध्यानमुदीरयेत् ॥ १६॥ अथ सङ्कल्पः । ॐ अस्य श्रीगोरक्ष सहस्रनामस्तोत्रमन्त्रस्य बृहदारण्यक ऋषिः । अनुष्टुप् छन्दः । श्रीगोरक्षनाथो देवता । गोम् बीजम् । विमलेति शक्तिः । हँसेति निरञ्जनात्मकम् कीलकम् । अभीष्टसिद्ध्यर्थे जपे विनियोगः ॥ एवं सङ्कल्पं विधायासनशुद्धिं कुर्यात् । तदनन्तरश्च अङ्गन्यासं कुर्यात् । अथ अङ्गन्यासः । ॐ ह्रीं श्रीं गों गोरक्षनाथ हृदयाय नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ शिरसे स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ शिखायै वषट् । ॐ ह्रीं श्रीं गों गोरक्षनाथ कवचाय हुँ । ॐ ह्रीं श्रीं गों गोरक्षनाथ नेत्रत्रयाय वौषट् । ॐ ह्रीं श्रीं गों गोरक्षनाथ अस्त्राय फट् । ॐ ह्रीं श्रीं गों गोरक्षनाथसर्वविद्यापतये तुभ्यं नमः ॥ अथ करन्यासः । ॐ ह्रीं श्रीं गों गोरक्षनाथ अनुष्ठाभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ तर्जनीभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ मध्यमाभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ अनामिकाभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ कनिष्ठिकाभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ पञ्चाङ्गुलिनखाभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ मूलाभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ मणिबन्धकन्धराभ्यां नमः ॐ ह्रीं श्रीं गों गोरक्षनाथ चिबुकजानुभ्यां नमः । ॐ ह्रीं श्रीं गों गोरक्षनाथ बाहुकवचाभ्यां नमः । ॐ ह्रीं श्री गों गोरक्षनाथ करतलकरपृष्ठाभ्यां नमः इति करन्यासः ॥ अथ दिग्बन्ध - ॐ ह्रीं श्रीं गो गोरक्षनाथ पुर्वदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ आग्नेय दिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ दक्षिणदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ नैऋत्यदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ पश्चिमदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ वायव्यदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ उत्तरदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ ईशानदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्री गों गोरक्षनाथ अधोदिक्पालमारभ्य हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनाथ ऊर्ध्वदिक्पालमारभ्य हुँ फट् स्वाहा ॥ अथ ध्यानम् । जटिलं निर्गुणं शान्तं ब्रह्मविष्णुशिवात्मकं कमण्डलुधरं देवं कुण्डलालङ्कृतं गुरुम् । शून्यात्मकं निराकारं योगिध्येयं निरञ्जनं विश्वाराध्यमहं वन्दे नाथं गोरक्षनामकम् ॥ वन्दे गोरक्षनाथं सकलगुरुवर योगिभिर्ध्यानगम्यं विश्वाधारं निरीहं निखिलगुणगणालङ्कृतं विश्वरूपम् । योगाभ्यासे विलग्नं मुनिवरभयं चिन्मयं शून्यरूपं आनन्दैकाब्धिमगनं समधिगतशिवं ध्यानगम्यं शुभाङ्गम् ॥ गोरक्षं गुणसागरं यतिपतिं योगीश्वरं गोपतिं शून्याभारमनन्तमव्ययमजं देवदेवाधिदेवं गुरुम् । ब्रह्मारुद्रमहेन्द्र वन्दितपदं भक्तार्तिविद्रावणं योगाभ्यासरतं मृगाजिनधरं वन्दे वदान्यं वरम् ॥ हे गोरक्षगुरो ! दयार्णव विभो ! योगीश दिव्याम्बरम् ! भक्तानामभयप्रद ! प्रभुवर ! हे निर्विकारात्मज ! । वन्दे त्वां भगवन् ! कृपां कुरुमयि त्वत्पादपाथोरुहा मन्दानन्दरसैकतत्पर मतौ भृङ्गे भवत्प्रेयसि ॥ इति ध्यानम् । एवं ध्यात्वा जपेत् सिद्धिर्गोरक्षस्य प्रसादतः । नियमेन मनुष्याणां भविष्यति न संशय ॥ १७॥ अथ मन्त्र । अत्र मन्त्र प्रवक्ष्यामि श‍ृणु तवं यदुनन्दन । श्री कल्पद्रुमतन्त्रे तु ये मन्त्राः कथिताः पुरा ॥ १८॥ जपन्ति साधका धीरास्तान् मन्त्रान् श्रद्धयान्विताः । शीघ्रं भवति संसिद्धिः साधकानां शिवाज्ञया ॥ १९॥ गोरक्षनाथमन्त्राणां प्रभावो वर्णितः पुरा । कल्पद्रुमादितन्त्रेषु बहुभिर्मुनिभिः कलौः ॥ २०॥ गोरक्ष गायत्री । ॐ ह्रीं श्रीं गों गोरक्षनाथाय विद्महे, शून्यपुत्राय धीमहि । तन्नो गोरक्षनिरञ्जनः प्रचोदयात । गोरक्ष मन्त्र । ॐ ह्रीं श्रीं गों हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्ष हुँ फट् स्वाहा । ॐ ह्रीं श्रीं गों गोरक्षनिरञ्जनात्मने हुँ फट् स्वाहा । शतलक्षमितं जप्त्वा साधकः शुद्ध मानसः । साधयेत् सर्वकार्याणि नात्र कार्या विचारणा ॥ २१॥ यो धारयेन्नरो नित्यं मन्त्रराजं विशेषतः । स योगसिद्धिमाप्नोति गोरक्षस्य प्रसादतः ॥ २२॥ अथ नाम्नां सहस्रञ्च गोरक्षस्य वदाम्यहम् । स्नेहाद् गुह्यतमं कृष्ण ! महापातकनाशनम् ॥ २३॥ ॥ सत्यं शिवं सुन्दरम् ॥ अथ गोरक्षसहस्रनामप्रारम्भः । गोसेवी गोरक्षनाथो गायत्रीधरसम्भवः । योगीन्द्रः सिद्धिदो गोप्ता योगिनाथो युगेश्वरः ॥ १॥ यतिश्च धार्मिको धीरो लङ्कानाथो दिगम्बरः । योगानन्दो योगचरो योगवेत्ता यतिप्रियः ॥ २॥ योगराशिर्योगगम्यो योगिराट् योगवित्तमः । योगमार्गयुतो याता ब्रह्मचारी बृहत्तपाः ॥ ३॥ शङ्करैकस्वरूपश्च शङ्करध्यानतत्परः ॥ ४॥ योगानन्दो योगधारी योगमायाप्रसेवकः । योगयुक्तो योगधीरो योगज्ञानसमन्वितः ॥ ५॥ योगचारो योगविद्यो युक्ताहारसमन्वितः । नागहारी नागरूपो नागमालो नगेश्वरः ॥ ६॥ नागधारी नागरूपी नानावर्णविभूषितः । नानावेषो नराकारो नानारूपो निरञ्जनः ॥ ७॥ आदिनाथो सोमनाथो सिद्धिनाथो महेश्वरः । नाथनाथो महानाथो सर्वनाथो नरेश्वरः ॥ ८॥ क्षेत्रनाथोऽजपानाथो बालनाथो गिराम्पतिः । गङ्गाधरः पात्रधरो भस्मभूषितविग्रह ॥ ९॥ मृगाजिनधरो मृगयो मृगाक्षो मृगवेषधृक् । मेघनादो मेघवर्णो महासत्त्वो महामनाः ॥ १०॥ दिगीश्वरो दयाकारी दिव्याभरणभूषितः । दिगम्बरो दूरदर्शी दिव्यो दिव्यतमो दमः ॥ ११॥ जलनाथो जगन्नाथो गङ्गानाथो जनाधिपः । भूतनाथो विपन्नाथो कुनाथो भुवनेश्वरः ॥ १२॥ ज्ञपतिर्गोपिकाकान्तो गोपी गोपारिमर्दनः । गुप्तो गुरुर्गिरां नाथो प्राणायामपरायणः ॥ १३॥ यज्ञनाथो यज्ञरूपो नित्यानन्दो महायतिः । नियतात्मा महावीर्योद्युतिमान् धृतिमान् वशी ॥ १४॥ सिद्धनाथो वृद्धनाथो वृद्धो वृद्धगतिप्रियः । खेचरः खेचराध्यक्षो विद्यानन्दो गणाधिपः ॥ १५॥ विद्यापतिर्मन्त्रनाथो ध्याननाथो धनाधिपः । सर्वाराध्यः पूर्णनाथो द्युतिनाथो द्युतिप्रियः ॥ १६॥ सृष्टिकर्ता सृष्टिधर्ता जगत्प्रलयकारकः । भैरवो भैरवाकारो भयहर्ता भवापहा ॥ १७॥ सृष्टिनाथः स्थितेर्नाथो विश्वाराध्यो महामतिः । दिव्यनादो दिशानाथो दिव्यभोगसमन्वितः ॥ १८॥ अव्यक्तो वासुदेवश्च शतमूर्तिः सनातनः । पूर्णनाथः कान्तिनाथो सर्वेशं हृदयस्थितः ॥ १९॥ अङ्गनाथो रङ्गनाथो मङ्गलो मङ्गलेश्वरः । अम्बासेवी धैर्यनाथो वपुर्गोप्ता गुहाशयः ॥ २०॥ अकारोऽनिधनोऽमर्त्यो साधुरात्मपरायणः । इकारस्त्विन्द्रनाथश्च यतिर्धन्यो धनेश्वरः ॥ २१॥ उकार ऊकारो नित्यो मायानाथो महातपाः । एकारस्त्वेक ऐकार एकमूर्तिस्त्रिलोचनः ॥ २२॥ ऋकारो लाकृतिर्लोकनाथो ॠसुतमर्दनः । ऌकारो ॡसुतो लाभो ललोप्ता लकरो ललः ॥ २३॥ खवर्णंः खर्वहस्तश्च खखनाथः खगेश्वरः । गौरीनाथो गिरांनाथो गर्गपूज्यो गणेश्वरः ॥ २४॥ गंनाथो गणनाथश्च गङ्गासेवी गुरुप्रियः । चकारश्चपतिश्चन्द्रश्चं चं शब्दश्चकृच्चरः ॥ २५॥ चोरनाथो दण्डनाथो देवनाथः शिवाकृतिः । चम्पानाथः सोमनाथो वृद्धिनाथो विभावसुः ॥ २६॥ चिरनाथः चारुरूपः कवीशः कवितापतिः । ऋद्धिनाथो विभानाथो विश्वव्यापी चराचरः ॥ २७॥ चारुश‍ृङ्गश्चारुनाथश्चित्रनाथश्चिरन्तपाः । शक्तिनाथो बुद्धिनाथश्छेत्ता सर्वगुणाश्रयः ॥ २८॥ जयाधीशो जयाधारो जयादाता सदाजयः । जपाधीशो जपाधारो जपदाता सदाजपः ॥ २९॥ शङ्खनाथः शङ्खनादः शङ्खरूपो जनेश्वरः । सोऽहं रूपश्च संसारी सुस्वरूपः सदासुखी ॥ ३०॥ ओङ्कार इन्द्रनाथश्च इन्द्ररूपः शुभः सुधीः । जकारो जञ्जपकश्च झाकारो मृत्युजिन्मुनिः ॥ ३१॥ टङ्कारः टण्टनाथश्च टोकारो टोपतिष्टरः । ठकारो ठण्ठनाथश्च ठन्नाथः ठमयश्च ठ ॥ ३२॥ डमयो ढमयो नित्यो डवाद्यो डमरुप्रियः । वदप्रदाऽभयो भोगो भवो भीमो भयानकः ॥ ३३॥ दण्डधारी दण्डरूपो दण्डसिद्धो गुणाश्रयः । दण्डो दण्डमयो दम्यो दरूपो दमनो दमः ॥ ३४॥ णकारो नन्दनाथश्च बुधनाथो निरापदः । नन्दीभक्तो नमस्कारो सर्वलोकप्रियो नरः ३५॥ थकारो थकारः स्तुत्यो जुता जिष्णुर्जितो गतिः । थसेवी थन्थशब्दश्च थवासी जित्वरो जयः ॥ ३६॥ दानदो दानसिद्धो दः दयोः दीनप्रियोऽदमः । अदीनो दिव्यरूपश्च दिव्यो दिव्यासनो द्यूतिः ॥ ३७॥ दयालुर्दयितो दान्तोऽदूरो दूरेक्षणो दिनम् । दिव्यमाल्यो दिव्यभोगो दिव्यवस्त्रो दिवापतिः ॥ ३८॥ धकारो धनदाता च धनदो धर्मदोऽधनः । धनी धर्मधरो धीरो धराधीशो धराधरः ॥ ३९॥ धीमान् श्रीमान् धरधरो ध्वान्तनाथोऽधमोद्धरः । धर्मिष्ठो धार्मिको धुर्योधीरो धीरोगनाशनः ॥ ४०॥ सिद्धान्तकृतच्छुद्धमतिः शुद्ध शुद्धैकरः कृती । अन्धकारहरो हर्षो हर्षवान् हर्षितप्रजः ॥ ४१॥ पाण्डुनाथः पीतवर्णः पाण्डुहा पन्नगासनः । प्रसन्नास्य प्रपन्नार्तिहरः परमपावनः ॥ ४२॥ फङ्कारः फूकारः पाता फणीन्द्रः फलसंस्थितः । फणीराजः फलाध्यक्षो फलदाता फली फलः ॥ ४३॥ बं बं प्रियो बकारश्च बामनो बारुणो वरः । वरदस्तु वराधिशो बालो बालप्रियो बलः ॥ ४४॥ वराहो वारुणीनाथो विद्वान् विद्वत्प्रियो बली । भवानीपूजको भौमो भद्राकारो भवान्तकः ॥ ४५॥ भद्रप्रियोऽर्भकानन्दो भवानीपतिसेवकः । भवप्रियो भवाधीशो भवो भव्यो भयापहा ॥ ४६॥ महादेवप्रियो मान्यो मननीयो महाशयः । महायोगी महाधीरो महासिद्धो महाश्रयः ॥ ४७॥ मनोगम्यो मनस्वी च महामोदमयो महः । मार्गप्रियो मार्गसेवी महात्मा मुदितोऽमलः ॥ ४८॥ मध्यनाथो महाकारो मकारो मखपूजितः । मखो मखकरो मोहो मोहनाशो मरुत्प्रियः ॥ ४९॥ यकारो यज्ञकर्ता च यमो यागो यमप्रियः । यशोधरो यशस्वी च यशोदाता यशःप्रियः ॥ ५०॥ नमस्कारप्रियोनाथो नरनाथो निरामयः । नित्ययोगरतो नित्यो नन्दिनाथो नरोत्तमः ॥ ५१॥ रमणो रामनाथश्च रामभद्रो रमापतिः । रांरांरवो रामरामो रामराधनतत्परः ॥ ५२॥ राजीवलोचनो रम्यो रागवेत्ता रतीश्वरः । राजधर्मप्रियो राजनीतितत्त्वविशारदः ॥ ५३॥ रञ्जको रणमूर्तिश्च राज्यभोगप्रदः प्रभुः । रमाप्रियो रमादाता रमाभाग्यविवर्धनः ॥ ५४॥ रक्तचन्दनलिप्ताङ्गो रक्तगन्घानुलेपनः । रक्तवस्त्रविलासी च रक्तभक्तफलप्रदः ॥ ५५॥ अतीन्द्रियो विश्वयोनिरमेयात्मा पुनर्वसुः । सत्यधर्मो बृहद्रूपो नैकरूपो महीधरः ॥ ५६॥ अदृश्योऽव्यक्तरूपश्च विश्वबाहुः प्रतिष्ठितः । अतुलो वरदस्तार परर्द्धिस्तु शुभेक्षणः ॥ ५७॥ हिरण्यगर्भः प्रणयो धर्मो धर्मविदुत्तमः । वत्सलो वीरहा सिंहः स्ववशो भूरिदक्षिणः ॥ ५८॥ गङ्गाधर गुरुर्गेयो गतरागो गतस्मयः । सिद्धगीतः सिद्धकथो गुणपात्रो गुणाकरः ॥ ५९॥ दृष्टः श्रुतो भवद्भूतः समबुद्धिः समप्रभः । महावायुर्महावीरो महाभूतस्तनुस्थितः ॥ ६०॥ नक्षत्रेशः सुधानाथो धवः कल्पान्त भैरवः । सुधन्वा सर्वदृग् द्रष्टा वाचस्पतिरयोनिजः ॥ ६१॥ शुभाङ्ग श्रीकरः श्रेयः सत्कीर्तिः शाश्वतः स्थिरः । विशोकः शोकहा शान्तः कामपालः कलानिधिः ॥ ६२॥ विशुद्धात्मा महायज्ञा ब्रह्मज्ञो ब्राह्मणप्रियः । पूर्णः पूर्णकरः स्तोता स्तुतिः स्तव्यो मनोजवः ॥ ६३॥ ब्रह्मण्यो ब्राह्मणो ब्रह्म सद्भूतिः सत्पराक्रमः । प्रकृतिः पुरुषो भोक्ता सुखदः शिशिरः शमः ॥ ६४॥ सत्त्वं रजस्तमः सोमो सोमपाः सौम्यदर्शनः । त्रिगुणस्त्रिगुणातीतो त्रयीरूपस्त्रिलोकपः ॥ ६५॥ दक्षिणः पेशलः स्वास्यो दुर्गो दुःस्वप्ननाशनः । जितमन्युर्गम्भीरात्मा प्राणभृत् व्यादिशो दिशः ॥ ६६॥ मुकुटी कुण्डली दण्डी कटकी कनकाङ्गदी । अहः संवत्सरः कालः ज्ञापको व्यापकः कविः ॥ ६७॥ भूर्भुवः स्वः स्वरूपश्च आश्रमः श्रमणः क्षमो । क्षमायुक्तो क्षयः क्षान्तः कृशः स्थूलो निरन्तरः ॥ ६८॥ सर्वगः सर्ववित् सर्वः सुरेशश्च सुरोत्तमः । समात्मा संमितः सत्यः सुपर्वा शुचिरच्युतः ॥ ६९॥ सर्वादिः शर्मकृच्छान्तो शरण्यः यशरणार्तिहा । शुभलक्षणयुक्ताङ्गः शुभाङ्गः शुभदर्शनः ॥ ७०॥ पावकः पावनो पूतो महाकालो महापहा । लिङ्गमूर्तिरलिङ्गात्मा लिङ्गालिङ्गात्मविग्रहः ॥ ७१॥ कपालमालाभरणः कपाली विष्णुवल्लभः । कालाधीशः कालकर्ता दुष्टावग्रहकारकः ॥ ७२॥ नाट्यकर्ता नटवरो नाट्यशास्त्रविशारदः । अतिरागो रागहेतुर्वीतरागो विरागवित् ॥ ७३॥ वसन्तकृद् वसन्तात्मा वसन्तेशो वसन्तदः । जीवाध्यक्षो जीवरूपो जीवो जीवप्रदः सदा ॥ ७४॥ जीवबन्धहरो जीवजीवनम् जीव संश्रयः । वज्रात्मावज्रहस्तश्च सुपर्णः सुप्रतापवान् ॥ ७५॥ रुद्राक्षमालाभरणो भुजङ्गाभरणप्रियः । रुद्राक्षवक्षा रुद्राक्षशिरः रुद्राक्षभक्षकः ॥ ७६॥ भुजङ्गेन्द्रलसत्कण्ठो भुजङ्गवलयावृतः । भुजङ्गेन्द्रलसत्कर्णो भुजङ्गकृतभूषणः ॥ ७७॥ उग्रोऽनुग्रो भीमकर्मा भोगी भीमपराक्रमः । मेध्मोऽवध्योऽमोधशक्तिर्निर्द्वन्दोऽमोधविक्रमः ॥ ७८॥ कल्प्योऽकल्प्यो निराकल्पो विकल्पः कल्पनाशनः । कल्पाकृतिः कल्पकर्ता कल्पान्तः कल्परक्षकः ॥ ७९॥ सुलभोऽसुलभो लभ्योऽलभ्यो लाभप्रवर्धकः । लाभात्मा लाभदो लाभो लोकबन्धुस्त्रयीतनुः ॥ ८०॥ भूशयोऽन्नमयो भूकृन्कमनीयो महीतनुः । विज्ञानमय आनन्दमयः प्राणमयोऽन्नदः ॥ ८१॥ दयासुधार्द्रनयनो निराशीरपरिग्रहः । पदार्थवृत्ति राशास्यो मायावी मूकनाशनः ॥ ८२॥ हितैषी हितकृत् युग्यो परार्थैकप्रयोजनः । कर्पूरगौर परदो जटा मण्डलमण्डितः ॥ ८३॥ निष्प्रपञ्ची निराधारो सत्वेशो सत्त्ववित् सदः । समस्तजगदाधारो स्मस्तानन्दकारणः ॥ ८४॥ मुनिवन्द्यो वीरभद्रो मुनिवृन्दनिशेवितः । मुनिहृत्पुण्डरीकस्थो मुनिसङ्घैकजीवनः ॥ ८५॥ उच्चैर्घोषो घोषरूपः पत्तीशः पापमोचनः । ओषधीशो गिरिशयः कृत्स्नवीतः शुचिस्मितः ॥ ८६॥ अरण्येशो परिचरो मन्त्रात्मा मन्त्रवित्तमः । प्रलयानलकृत् पुष्टः सोमसूर्याग्निलोचनः ॥ ८७॥ अक्षोभ्यः क्षोभरहितो भस्मोद्धूलितविग्रहः । शार्दूलचर्मवसनः सामगः सामगप्रियः ॥ ८८॥ कैलाशशिखरावासो स्वर्णकेश सुवर्णदृक । स्वतन्त्र सर्वतन्त्रात्मा प्रणतार्तिपभञ्जनः ॥ ८९॥ निकटस्थोऽतिदूरस्थो महोत्साहो महोदयः । ब्रह्मचारी दृढाचारी सदाचारी सनातनः ॥ ९०॥ अपधृष्यः पिङ्गलाक्ष्यः सर्वधर्मफलप्रदः । अविद्या रहितो विद्यासंश्रयः क्षेत्रपालकः ॥ ९१॥ गजारिः करुणासिन्धुः शत्रुघ्नः शत्रुपातनः । कमठो भार्गवः कल्कि ऋर्षभः कपिलो भवः ॥ ९२॥ शून्य शून्यमयः शून्यजन्मा शून्यलयोऽलयः । शून्याकारः शून्यदेवो प्रकाशात्मा निरीश्वरः ॥ ९३॥ गोराजो गोगणोपेतो गोदेवो गोपतिप्रियः । गवीश्वरो गवा दाता गोरक्षकारको गिरिः ॥ ९४॥ चेतनश्चेतनाध्यक्षो महाकाशो निरापदः । जडो जडगतो जाड्यनाशनो जडतापहा ॥ ९५॥ रामप्रियो लक्ष्मणाढ्यो वितस्तानन्ददायकः । काशीवासप्रियो रङ्गो लोकरञ्जनकारकः ॥ ९६॥ निर्वेदकारी निर्विण्णो महनीयो महाधनः । योगिनीवल्लभो भर्ता भक्तकल्पतरूर्ग्रहीः ॥ ९७॥ ऋषभो गौतमः स्त्रग्वी बुद्धो बुद्धिमत्तां गुरुः । नीरूपो निर्ममोऽक्रूरो निराग्रहः ॥ ९८॥ निर्दम्भो नीरसो नीलो नायको नायकोत्तमः । निर्वाणनायको नित्यस्थितो निर्णयकारकः ॥ ९९॥ भाविको भावुको भावो भवात्मा भवमोचनः । भव्यदाता भवत्राता भगवान् भूतिमान भवः ॥ १००॥ प्रेमी प्रियः प्रेमकरः प्रेमात्माः प्रेमवित्तमः । फुल्लारविन्दनयनो नयात्मा नीतिमान् नयी ॥ १०१॥ परंतेजः परंधाम परमेष्ठी पुरातनः । पुष्करः पुष्कराध्यक्षः पुष्करक्षेत्रसंस्थितः ॥ १०२॥ प्रत्यगात्माऽप्रतर्क्यस्तु राजमान्यो जगत्पतिः । पुण्यात्मा पुण्यकृत पुण्यप्रियः पुण्यवदाश्रितः ॥ १०३॥ वायुदो वायुसेवी च वाताहारो विमत्सरः । बिल्वप्रियो बिल्वधारी बिल्वमाल्यो लयाश्रयः ॥ १०४॥ बिल्वभक्तो बिल्वनाथो बिल्वभक्तिप्रियो वशी । शम्भुमन्त्रधरः शम्भुयोगः शम्भुप्रियो हरः ॥ १०५ ॥ स्कन्दप्रियो निरास्कन्दो सुखयोगः सुखासनः । क्षमाप्रियः क्षमादाता क्षमाशीलो निरक्षमः ॥ १०६॥ ज्ञानज्ञो ज्ञानदो ज्ञानो ज्ञानगम्यः क्षमापतिः । क्षमाचारस्तत्त्वदर्शी तन्त्रज्ञस्तन्त्रकारकः ॥ १०७॥ तन्त्रसाधन तत्त्वज्ञस्तन्त्रमार्गप्रवर्तकः । तन्त्रात्मा बालतन्त्रज्ञो यन्त्रमन्त्रफलप्रदः ॥ १०८॥ गोरसो गोरसाधीशो गोसिद्धा गोमतीप्रियः । गोरक्षकारको गोमी गोराङ्गोपपिर्गुरुः ॥ १०९॥ सम्पूर्णकामः सर्वेष्ठ दाता सर्वात्मकः शमी । शुद्धोऽरुद्धोऽविरुद्धश्च प्रबुद्धः सिद्धसेवितः ॥ ११०॥ धर्मो धर्मविदां श्रेष्ठो धर्मज्ञो धर्मधारकः । धर्मसेतुर्धर्मराजो धर्ममार्गप्रवर्तकः ॥ १११॥ धर्माचार्यो धर्मकर्ता धर्म्यो धर्मविदग्रणीः । धर्मात्मा धर्ममर्मज्ञो धर्मशास्त्रविशारदः ॥ ११२॥ कर्ता धर्ता जगद्भर्ताऽपहर्तासुर रक्षसाम् । वेत्ता छेत्ता भवापत्तेर्भेंता पापस्य पुण्यकृत् ॥ ११३॥ गुणवान् गुणस्मपन्नो गुण्यो गण्यो गुणप्रियः । गुणज्ञो गुणसम्पूज्यो गुणानन्दितमानसः ॥ ११४॥ गुणाधारो गुणाधीशो गुणिगीतो गुणिप्रियः । गुणाकारो गुणश्रेष्ठो गुणदाता गुणोज्वलः ॥ ११५॥ गर्गप्रियो गर्गदेवो गर्गदेवनमस्कृतः । गर्गनन्दकरो गर्ग गीतो गर्गवरप्रदः ॥ ११६॥ वेदवेद्यो वेदविदो वेदवन्द्यो विदाम्पतिः । वेदान्तवेद्यो वेदान्तकर्ता वेदान्तपारगः ॥ ११७॥ हिरण्यरेता हुतभुक् हिमवर्णो हिमालयः । हृतभुक् हयग्रीवो हिरण्यस्त्रक् हयनाथो हिरण्यमयः ॥ ११८॥ शक्तिमान् शक्तिदाता च शक्तिनाथः सुशक्तिकः । शक्तिऽशक्तः शक्तिसाध्य शक्तिहृत् शक्तिकारणम् ॥ ११९॥ सर्वाशास्यगुणोपेतः सर्व सौभाग्यदायकः । त्रिपुण्ड्रधारी संन्यासी गजचर्मपरिवृतः ॥ १२०॥ गजासुरविमर्दी च भूतवैतालशोभितः । श्मशानारण्यसंवासी कर्परालङ्कृतः शिवः ॥ १२१॥ कर्मसाक्षी कर्मकर्ता कर्मा कर्मफलप्रदः । कर्मण्यः कर्मदः कर्मी कर्महा कर्मकृद् गुरुः ॥ १२२॥ गोसङ्कष्टसन्त्राता गोसन्तापनिवर्तकः । गोवर्धनो गवांदाता गोसौभाग्यविवर्धनः ॥ १२३॥ गर्ग उवाच - इदं गोरक्षनाथस्य स्तोत्रमुक्तम् मया प्रभो । नाम्नां सहस्रमेतद्धि गुह्याद्गुह्यतमं परम् ॥ १२४॥ एतस्य पठनं नित्यं सर्वाभीष्टप्रदं नृणाम् । विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ॥ १२५॥ पुत्रार्थी लभते पुत्रान् मोक्षार्थी मुक्तिमाप्नुयात् । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ १२६॥ राज्यार्थी लभते राज्यं योगार्थी योगवान् भवेत् । भोगार्थी लभते भोगान् गोरक्षस्य प्रसादतः ॥ १२७॥ अरण्ये विषमे घेरे शत्रुभिः परिवेष्टितः । सहस्रनाम पठनान्नरो मुच्येत् तत्क्षणम् ॥ १२८॥ राजद्वारे महामारी रोगे च भयदे नृणाम् । सर्वेष्वपि च रोगेषु गोरक्ष स्मरणं हितम् ॥ १२९॥ नाम्नां सहस्रं यत्रस्याद् गृहे गृहवतां शुभम् । धनधान्यादिकं तत्र पुत्रपौत्रादिकं तथा ॥ १३० ॥। आरोग्यं पशुवृद्धिश्च शुभकर्माणि भूरिशः । न भयं तत्र रोगाणां सत्यं सत्यं वदाम्यहम् ॥ १३१॥ सहस्रनाम श्रवणात् पठनाच्च भवेद् ध्रुवम् । कन्यादान सहस्रस्य वाजपेय शतस्य च ॥ १३२॥ गवां कोटि प्रदानस्य ज्योतिष्टोमस्य यत् फलम् । दशाश्वमेध यज्ञस्य फलं प्राप्नोति मानवः ॥ १३३॥ सहस्रनामस्तोत्रस्य पुस्तकानि ददाति तः । ब्राह्मणेभ्यस्तु सम्पूज्य तस्य लक्ष्मी स्थिरो भवेत् ॥ १३४॥ लभते राजसम्मानं व्यापारस्य फलं लभेत् । राजसन्मानं प्राप्नुयाच्च गतां लक्ष्मी सर्वज्ञविजयी भवेत् ॥ १३५॥ चतुर्दश्यां प्रदोषे च शिवं गोरक्ष संज्ञितम् । पूजयेद्विविधाचारैर्गन्धपूष्पादिभिर्नरः ॥ १३६॥ संस्थाप्य पार्थिवं लिङ्गं गोरक्ष जगद्गुरोः । भक्तया समर्चयेन् नित्यं साधकः शुद्ध मानसः ॥ १३७॥ स्तोत्रपाठं प्रकुर्वीत कारयेद् ब्राह्मणैस्तथा । सर्वसिद्धिमवाप्नोति नात्र कार्या विचारणा ॥ १३८॥ ध्यायेदन्ते महेशानं पूजयित्वा यथाविधि । ब्राह्मणान् पूजयेत्तत्र धनवस्त्रादिभिः शुभैः ॥ १३९॥ ध्यानम् - यस्मादुद्भवती दमद्भ त तमं येनैव तत्पाल्यते यस्मिन् विश्वमिदं चराचरमयं संलोयते सर्वथा । ब्रह्माविष्णुशिवादयोऽपि न पर पारं गता यस्य ते गोरक्षप्रभवं परात्परतरं शून्यं परं धीमहि ॥ १४०॥ ॥ इति श्रीकल्पद्रुमतन्त्रे महासिद्धिसारे महर्षि गर्गप्रोक्तं निरञ्जनात्मकं श्रीगोरक्षसहस्रनामस्तोत्रं सम्पूर्णम् ॥