अक्षर आकार:

श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रम्

Shri Gauranga Ashtottarashatanamastotram

श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रम्

One Hundred and Eight Names of Lord ShrI Caitanya Mahaprabhu आमस्कृत्य प्रवक्ष्यामि देवदेवं जगद्गुरुम् । नाम्नामष्टोत्तरशतं चैतन्यस्य महात्मनाः ॥ १॥ विश्वम्भरो जितक्रोधो मायामानुषविग्रहः । अमायी मायिनां श्रेष्ठो वरदेशो द्विजोत्तमः ॥ २॥ जगन्नाथप्रियसुतः पितृभक्तो महामनाः । लक्ष्मीकान्तः शचीपुत्रः प्रेमदो भक्तवत्सलः ॥ ३॥ द्विजप्रियो द्विजवरो वैष्णवप्राणनायकः । द्विजातिपूजकः शान्तः श्रीवासप्रिय ईश्वरः ॥ ४॥ तप्तकाञ्चनगौराङ्गः सिंहग्रीवो महाभुजः । पीतवासा रक्तपट्टः षड्भुजोऽथ चतुर्भुजः ॥ ५॥ द्विभुजश्च गदापाणिः चक्री पद्मधरोऽमलः । पाञ्चजन्यधरः शार्ङ्गी वेणुपाणिः सुरोत्तमः ॥ ६॥ कमलाक्षेश्वरः प्रीतो गोपलीलाधरो युवा । नीलरत्नधरो रुप्यहारी कौस्तुभभूषणः ॥ ७॥ श्रीवत्सलाञ्छनो भास्वान् मणिधृक्कञ्जलोचनः । ताटङ्कनीलश्रीः रुद्र लीलाकारी गुरुप्रियाः ॥ ८॥ स्वनामगुणवक्ता च नामोपदेशदायकः । आचाण्डालप्रियाः शुद्धः सर्वप्राणिहिते रतः ॥ ९॥ विश्वरूपानुजः सन्ध्यावतारः शीतलाशयः । निःसीमकरुणो गुप्त आत्मभक्तिप्रवर्तकः ॥ १०॥ महानन्दो नटो नृत्यगीतनामप्रियः कविः । आर्तिप्रियः शुचिः शुद्धो भावदो भगवत्प्रियाः ॥ ११॥ इन्द्रादिसर्वलोकेशवन्दितश्रीपदाम्बुजः । न्यासिचूडामणिः कृष्णः संन्यासआश्रमपावनः ॥ १२॥ चैतन्यः कृष्णचैतन्यो दण्डधृङ्न्यस्तदण्डकः । अवधूतप्रियो नित्यानन्दषड्भुजदर्शकः ॥ १३॥ मुकुन्दसिद्धिदो दीनो वासुदेवामृतप्रदः । गदाधरप्राणनाथ आर्तिहा शरणप्रदः ॥ १४॥ अकिञ्चनप्रियः प्राणो गुणग्राही जितेन्द्रियः । अदोषदर्शी सुमुखो मधुरः प्रियदर्शनः ॥ १५॥ प्रतापरुद्रसन्त्राता रामानन्दप्रियो गुरुः । अनन्तगुणसम्पन्नः सर्वतीर्थैकपावनः ॥ १६॥ वैकुण्ठनाथो लोकेशो भक्ताभिमतरूपधृक् । नारायणो महायोगी ज्ञानभक्तिप्रदः प्रभुः ॥ १७॥ पीयूषवचनः पृथ्वी पावनः सत्यवाक्सहः । ओडदेशजनानन्दी सन्दोहामृतरूपधृक् ॥ १८॥ यः पठेत्प्रातरुत्थाय चैतन्यस्य महात्मनः । श्रद्धया परयोपेतः स्तोत्रं सर्वाघनाशनम् । प्रेमभक्तिर्हरौ तस्य जायते नात्र संशयः ॥ १९॥ असाध्यरोगयुक्तोऽपि मुच्यते रोगसङ्कटात् । सर्वापराधयुक्तोऽपि सोऽपराधात्प्रमुच्यते ॥ २०॥ फाल्गुनीपौर्णमास्यां तु चैतन्यजन्मवासरे । श्रद्धया परया भक्त्या महास्तोत्रं जपन्पुरः । यद्यत् प्रकुरुते कामं तत्तदेवाचिराल्लभेत् ॥ २१॥ अपुत्रो वैष्णवं पुत्रं लभते नात्र संशयः । अन्ते चैतन्यदेवस्य स्मृतिर्भवति शाश्वती ॥ २२॥ इति सार्वभौम भट्टाचार्यविरचितं श्रीगौराङ्गाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।