अक्षर आकार:

श्रीगौरन्गाष्टोत्तरशतनामावलिः

Shri Gauranga Ashtottarashatanamavalih

श्रीगौरन्गाष्टोत्तरशतनामावलिः

ॐ विश्वम्भराय नमः । ॐ जितक्रोधाय नमः । ॐ मायामनुषविग्रहाय नमः । ॐ अमायीने नमः । ॐ मायिनां श्रेष्ठाय नमः । ॐ वरदेशाय नमः । ॐ द्विजोत्तमाय नमः । ॐ जगन्नाथप्रियसुताय नमः । ॐ पितृभक्ताय नमः । ॐ महामनसे नमः । १० ॐ लक्ष्मीकान्ताय नमः । ॐ शचीपुत्राय नमः । ॐ प्रेमदाय नमः । ॐ भक्तवत्सलाय नमः । ॐ द्विजप्रियाय नमः । ॐ द्विजवराय नमः । ॐ वैष्णवप्राणनायकाय नमः । ॐ द्विजातिपूजकाय नमः । ॐ शान्ताय नमः । ॐ श्रीवासप्रियाय नमः । २० ॐ ईश्वराय नमः । ॐ तप्तकाञ्चनगौराङ्गाय नमः । ॐ सिंहग्रीवाय नमः । ॐ महाभुजाय नमः । ॐ पीतवाससे नमः । ॐ रक्तपट्टाय नमः । ॐ षड्भुजाय नमः । ॐ चतुर्भुजाय नमः । ॐ द्विभुजाय नमः । ॐ गदापाणये नमः । ३० ॐ चक्रिणे नमः । ॐ पद्मधराय नमः । ॐ अमलाय नमः । ॐ पाञ्चजन्यधराय नमः । ॐ शार्ङ्गिणे नमः । ॐ वेणुपाणये नमः । ॐ सुरोत्तमाय नमः । ॐ कमलाक्षेश्वराय नमः । ॐ प्रीताय नमः । ॐ गोपलीलाधराय नमः । ४० ॐ यूने नमः । ॐ नीलरत्नधराय नमः । ॐ रूप्यहारिणे नमः । ॐ कौस्तुभभूषणाय नमः । ॐ श्रीवत्सलाञ्छनाय नमः । ॐ भास्वन्मणिधृके नमः । ॐ कञ्जलोचनाय नमः । ॐ ताटङ्कनीलश्रीये नमः । ॐ रुद्रलीलाकारिणे नमः । ॐ गुरुप्रियाय नमः । ५० ॐ स्वनामगुणवक्त्रे नमः । ॐ नामोपदेशदायकाय नमः । ॐ आचण्डालप्रियाय नमः । ॐ शुद्धाय नमः । ॐ सर्वप्राणिहितेरताय नमः । ॐ विश्वरूपानुजाय नमः । ॐ सन्ध्यावताराय नमः । ॐ शीतलाशयाय नमः । ॐ निःसीमकरुणाय नमः । ॐ गुप्ताय नमः । ६० ॐ आत्मभक्तिप्रवर्तकाय नमः । ॐ महानन्दाय नमः । ॐ नटाय नमः । ॐ नृत्यगीतनामप्रियाय नमः । ॐ कवये नमः । ॐ आर्तिप्रियाय नमः । ॐ शुचये नमः । ॐ शुद्धाय नमः । ॐ भावदाय नमः । ॐ भागवतप्रियाय नमः । ७० ॐ इन्द्रादिसर्वलोकेशवन्दितश्रीपदाम्बुजाय नमः । ॐ न्यासिचूडामणये नमः । ॐ कृष्णाय नमः । ॐ संन्यासआश्रमपावनाय नमः । ॐ चैतन्याय नमः । ॐ कृष्णचैतन्याय नमः । ॐ दण्डधृगाय नमः । ॐ न्यस्तदण्डकाय नमः । ॐ अवधूतप्रियाय नमः । ॐ नित्यानन्दषड्भुजदर्शकाय नमः । ८० ॐ मुकुन्दसिद्धिदाय नमः । ॐ वासुदेवामृतप्रदाय नमः । ॐ गदाधरप्राणनाथाय नमः । ॐ आर्तिघ्ने नमः । ॐ शरणप्रदाय नमः । ॐ अकिञ्चनप्रियाय नमः । ॐ प्राणाय नमः । ॐ गुणग्राहिणे नमः । ॐ जितेन्द्रियाय नमः । ॐ अदोषदर्शिने नमः । ९० ॐ सुमुखाय नमः । ॐ मधुराय नमः । ॐ प्रियदर्शनाय नमः । ॐ प्रतापरुद्रसन्त्रात्रे नमः । ॐ रामानन्दप्रियाय नमः । ॐ गुरवे नमः । ॐ अनन्तगुणसम्पन्नाय नमः । ॐ सर्वतीर्थैकपावनाय नमः । ॐ वैकुण्ठनाथाय नमः । ॐ लोकेशाय नमः । १०० ॐ भक्ताभिमतरूपधृके नमः । ॐ नारायणाय नमः । ॐ महायोगिने नमः । ॐ ज्ञानभक्तिप्रदाय नमः । ॐ प्रभवे नमः । ॐ पीयूषवचनाय नमः । ॐ पृथ्वीपावनाय नमः । ॐ सत्यवाचे नमः । ॐ सहाय नमः । ॐ ओडदेशजनानन्दिने नमः । ॐ सन्दोहामृतरूपधृके नमः । १११ इति सार्वभौम भट्टाचार्यविरचिता श्रीगौरङ्गाष्टोत्तरशतनामावलिः समाप्ता ।