परमगुरु गौडपादाचार्याणां अष्टोत्तरशतनामावलिः
ॐ परमगुरवे नमः । अकार्पण्याय । अग्राह्यात्मने । अचलाय ।
अचिन्त्यात्मने । अजमनिद्रमस्वप्नरूपाय । अजायमानाय । अतिगम्भीराय ।
अदृश्यात्मने । अद्वैतज्ञानभास्कराय । अद्वितीयाय । अनन्तमात्राय ।
अनन्तराय । अनपराय । अनादिमायाविध्वंसिने । अनिर्वचनीयबोधात्मने ।
अनिर्वचनीयसुखरूपाय । अन्यथाग्रहणाग्रहणविलक्षणाय । अपूर्वाय ।
अबाह्याय । २०
ॐ अभयरूपिणे नमः । अमनीभावस्वरूपाय । अमात्राय । अमृतस्वरूपाय ।
अलक्षणात्मने । अलब्धावरणात्मने । अलान्तशान्त्याय । अवस्थात्रयातीताय ।
अव्यपदेशात्मने । अव्ययाय । अव्यवहार्यात्मने । असङ्गात्मने ।
अस्पर्शयोगात्मने । आत्मसत्यानुबोधाय । आदिमध्यान्तवर्जिताय ।
एकात्मप्रत्ययसाराय । एषणात्रयनिर्मुक्ताय । कामादिदोषरहिताय ।
कार्यकारणविलक्षणाय । ग्राहोत्सर्गवर्जिताय । ४०
ॐ ग्राह्यग्राहकविनिर्मुक्ताय नमः । चतुर्थाय । चतुष्कोटिनिषेधाय ।
चतुष्पादविवर्जिताय । चलाचलनिकेतनाय । जीवजगन्मिथ्यात्वज्ञात्रे ।
ज्ञातृज्ञेयज्ञानत्रिपुटीरहिताय । ज्ञानालोकाय । तत्त्वादप्रच्युताय ।
तत्त्वारामाय । तत्त्वीभूताय । तपस्विने । तायीने । तुरीयाय ।
तृप्तित्रयातीताय । धीराय । निर्मलाय । निर्वाणसन्दायिने । निर्वाणात्मने ।
निर्विकल्पाय नमः । ६०
ॐ परमतीर्थाय नमः । परमयतये । परमहंसाय । परमार्थाय ।
परमेश्वराय । पादत्रयातीताय । पूज्याभिपूज्याय । प्रज्ञानन्दस्वरूपिणे ।
प्रज्ञालोकाय । प्रणवस्वरूपाय । प्रपञ्चोपशमाय । ब्रह्मणे ।
भगवते । भोगत्रयातीताय । महाधीमते । माण्डूक्योपनिषत्कारिकाकर्त्रे ।
मुनये । यादृच्छिकाय । वाग्मिने । विदितोङ्काराय नमः । ८०
ॐ विशारदाय नमः । वीतरागभयाय । वेदपारगाय । वेदान्तविभूत्यै ।
वेदान्तसाराय । शान्ताय । शिवाय । श्रुतिस्मृतिन्यायशलाकारूपिणे ।
संशयविपर्ययरहिताय । सकृज्ज्योतिस्वरूपाय । सकृद्विभाताय ।
सङ्कल्पविकल्परहिताय । सच्चिदानन्दविग्रहाय । समदर्शिने ।
सर्वज्ञाय । सर्वप्रत्ययवर्जिताय । सर्वलक्षणसम्पन्नाय । सर्वविदे ।
सर्वसाक्षिणे । सर्वाभिनिवेशवर्जिताय नमः । १००
ॐ साक्षान्नारायणरूपभृते नमः । साम्यरूपाय । सुप्रशान्ताय ।
स्थानत्रयातीताय । स्वयम्प्रकाशस्वरूपिणे । स्वरूपावबोधाय ।
हेतुफलात्मविवर्जिताय । गौडपादाचार्यवर्याय नमः । १०८
इति स्वामी बोधात्मानन्दसरस्वतीविरचिता
गौडपादाचार्याष्टोत्तरशतनामावलिः समाप्ता ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):