अक्षर आकार:

श्रीगरुडसहस्रनामस्तोत्रम्

garuDasahasranamastotram

श्रीगरुडसहस्रनामस्तोत्रम्

श्रीकृष्णभट्टाचार्यप्रणीतम् । सर्ववेदबृहन्नीडसमारूढाय साक्षिणे । सामवेदस्वरूपाय गरुडाय नमो नमः ॥ अस्य श्री गरुडसहस्रनामस्तोत्र महामन्त्रस्य वासिष्ठ ऋषिः, मात्राश्छन्दांसि, सर्वाभीष्टप्रदायी भगवान्पक्षिराजो गरुडो देवता । var मोक्षराजो गरुडो देवता हलो बीजानि, स्वराश्शक्तयः, बिन्दवः कीलकानि, गरूडरूपिमहाविष्णुप्रीत्यर्थे जपे विनियोगः । गरुडात्मने अङ्गुष्ठाभ्यां नमः । वैनतेयाय तर्जनीभ्यां नमः । तार्क्ष्याय मध्यमाभ्यां नमः । खगोत्तमाय अनामिकाभ्यां नमः । कपिलाक्षाय कनिष्ठिकाभ्यां नमः । नागाभरणालङ्कृतशरीराय करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः ॥ ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् ॥ स्वर्णाभजानुं हिमतुल्यसक्थिमाकण्ठरक्तं परिनीलकेशं । नीलाग्रनासं हरिताम्बराढ्यं सुपर्णमीडेऽमृतकुम्भहस्तम् ॥ अथ स्तोत्रम् । सुमुखः सुवहः सुखकृत्सुमुखाभिधपन्नगेड्भूषः । सुरसङ्घसेविताङ्घ्रिः सुतदायी पातु नः सूरिः ॥ १॥ सुजनपरित्राता नः सुचरितसेव्यः सुपर्णोऽव्यात् । पन्नगभूषः पतगः पाता प्राणाधिपः पक्षी ॥ २॥ पद्मादिनागवैरी पद्माप्रियदास्यकृत् पायात् । पतगेन्द्रः परभेदी परिहृतपाकारिदर्पकूटो नः ॥ ३॥ नागारिर्नगतुल्यो नाकौकस्स्तूयमानचरितोऽव्यात् । नरकदकर्मनिहन्ता नरपूज्यो नाशिताहिविषकूटः ॥ ४॥ नतरक्षी निखिलेड्यो निर्वाणात्मा निरस्तदुरितौघः । सिद्धध्येयः सकलः सूक्ष्मोऽव्यात् सूर्यकोटि सङ्काशः ॥ ५॥ सुखरूपी स्वर्णनिभः स्तम्बेरमभोजनः सुधाहारी । सुमनाः सुकीर्तिनाथो गरुडो गम्भीरघोषोऽव्यात् ॥ ६॥ गालवमित्रं गेयो गीतिज्ञः पातु गतिमतां श्रेष्ठः । गन्धर्वार्च्यो गुह्यो गुणसिन्धुर्गोत्रभिन्मान्यः ॥ ७॥ रविसारथिसहजोऽव्याद्रत्नाभरणान्वितो रसज्ञो नः । रुद्राकान्तो रुक्मोज्जलजानू रजतनिभसक्थिः ॥ ८॥ रक्तप्रभकण्ठोऽव्याद्रयिमान् राजा रथाङ्गपाणिरथः । तार्क्ष्यस्तटिन्निभो नस्तनुमध्यस्तोषितात्मजननीकः ॥ ९॥ तारात्मा महनीयो मतिमान्मुख्यो मुनीन्द्रेड्यः । माधववाहो रक्षेत् त्रिवृदात्मस्तोमशीर्षो नः ॥ १०॥ त्रिनयनपूज्यस्त्रियुगस्त्रिषवणमज्जन्महात्महृन्नीडः । त्रसरेण्वादिमनिखिलज्ञाता पायात्त्रिवर्गफलदायी ॥ ११॥ त्र्यक्षस्त्रासितदैत्यस्त्रय्यन्तेड्यस्त्रयीरूपः । वृत्रारिमानहारी वृषदायी दिशतु भद्रं नः ॥ १२॥ वृष्णिवराद्ध्युषितांसो वृश्चिकलूतादिविषदाही । वृकदंशजन्यरोगध्वंसी नः पातु विहगराड्वीरः ॥ १३॥ विषहृद्विनतातनुजो वीर्याढ्यः पातु तेजसां राशिः । तुर्याश्रमिजप्यमनुस्तृप्तस्तृष्णाविहीनो नः ॥ १४॥ तुलनाहीनस्तर्क्यस्तक्षकवैरी तटिद्गौरः । तारादिमपञ्चार्णरतन्द्रीरहितो धनं दद्यात् ॥ १५॥ शितनासाग्रः शान्तः शतमखवैरिप्रभञ्जनः शास्ता । शात्रववीरुद्दात्रं शमिताघौघः शरण्योऽव्यात् ॥ १६॥ शतदशलोचनसहजः पायाच्छकुनः शकुन्ताग्र्यः । रत्नालङ्कृतमूर्ती रसिको राजीवचारुचरणयुगः ॥ १७॥ रङ्गेशचारुमित्रं रोचिष्मान्पातु राजदुरुपक्षः । रुचिनिर्जितकनकाद्री रघुपत्यहिपाशबन्धविच्छेत्ता ॥ १८॥ रञ्जितखगनिवहोऽव्याद्रम्याकारो गतक्रोधः । गीष्पतिनुतो गरुत्मान्गीर्वाणेशो गिरां नाथः ॥ १९॥ गुप्तस्वभक्तनिवहो गुञ्जाक्षो गोप्रियो गूढः । गानप्रिवो यतात्मा यमिनम्यो यक्षसेव्योऽव्यात् ॥ २०॥ यज्ञप्रियो यशस्वी यज्ञात्मा यूथपो योगी । यन्त्राराध्यो यागप्रभवो भद्रं सदा कुर्यात् ॥ २१॥ त्रिजगन्नाथस्त्रस्यत्पन्नगबृन्दस्त्रिलोकपरिरक्षी । तृषिताच्युततृष्णापहतटिनीजनको भृशं रक्षेत् ॥ २२॥ त्रिवलीरञ्जितजठरस्त्रियुगगुणाढ्यस्त्रिमूर्तिसमतेजाः । तपनधुतिमकुटोऽव्यात्तरवारिभ्राजमानकटिदेशः ॥ २३॥ ताम्रास्यश्चक्रधरश्चीराम्बरमानसावासः । चूर्णितपुलिन्दबृन्दश्चारुगतिश्चोरभयहाऽव्यात् ॥ २४॥ चञ्चूपुटभिन्नाहिश्चर्वितकमठश्चलच्चेलः । चित्रितपक्षः पायाच्चम्पकमालाविराजदुरुवक्षाः ॥ २५॥ क्षुभ्यन्नीरधिवेगः क्षान्तिः क्षीराब्धिवासनिरतोऽव्यात् । क्षुद्रग्रहमर्दी नः क्षत्रियपूज्यः क्षयादिरोगहरः ॥ २६॥ क्षिप्रशुभोत्करदायी क्षीणारातिः क्षितिक्षमाशाली । क्षितितलवासी क्षेमं सोमप्रियदर्शनो दिशतु ॥ २७॥ सर्वेशस्सहजबलस्सर्वात्मा सर्वदृक् पातु । तर्जितरक्षस्सङ्घस्ताराधीशद्युतिस्तुष्टः ॥ २८॥ तपनीयकान्तिरव्यात्तत्वज्ञानप्रदः सततम् । मान्यो मञ्जुलभाषी महितात्मा मर्त्यधर्मरहितो नः ॥ २९॥ मोचितविनतादास्यो मुक्तात्मा मुक्तये भवतु । महदञ्चितचरणाब्जो मुनिपुत्रो मौक्तिकोज्जलद्धारः ॥ ३०॥ मङ्गलकार्यानन्दो ह्यात्माऽऽत्मक्रीड आत्मरतिरव्यात् । आकण्ठकुङ्कुमाभः आकेशान्तात्सितेतरश्चार्यः ॥ ३१॥ आहृतपीयूषोऽव्यादाशाकृच्चाशुगमनो नः । आकाशगतिस्तरुणस्तर्कज्ञेयस्तमोहन्ता ॥ ३२॥ तिमिरादिरोगहारी तूर्णगतिमन्त्रकृत् पायात् । मन्त्री मन्त्राराध्यो मणिहारो मन्दराद्रिनिभमूर्तिः ॥ ३३॥ सर्वातीतः सर्वः सर्वाधारः सनातनः स्वङ्गः । सुभगः सुलभः सुबलः सुन्दरबाहुः सुखं दद्यात् ॥ ३४॥ सामात्मा मखरक्षी मखिपूज्यो मौलिलग्नमकुटोऽव्यात् । मञ्जीरोज्ज्वलचरणो मर्यादाकृन्महातेजाः ॥ ३५॥ मायातीतो मानी मङ्गलरूपी महात्माऽव्यात् । तेजोधिक्कृतमिहिरस्तत्वात्मा तत्वनिष्णातः ॥ ३६॥ तापसहितकारी नस्तापध्वंसी तपोरूपः । ततपक्षस्तथ्यवचास्तरुकोटरवास निरतोऽव्यात् ॥ ३७॥ तिलकोज्ज्वल निटिलो नस्तुङ्गोऽव्यात्त्रिदशभीतिपरिमोषी । तापिञ्छहरितवासास्तालध्वजसोदरो ज्वलत्केतुः ॥ ३८॥ तनुजितरुक्मस्तारस्तारध्वानस्तृणीकृतारातिः । तिग्मनखः शङ्कुर्यात्तन्त्रीस्वानो नृदेव शुभदायी ॥ ३९॥ निगमोदितविभवोऽव्यान्नीडस्थो निर्जरो नित्यः । निनदहताशुभनिवहो निर्माता निष्कलो नयोपेतः ॥ ४०॥ नूतनविद्रुमकण्ठो विष्णुसमो वीर्यजितलोकः । विरजा विततसुकीर्तिर्विद्यानाथो विषं दहेद्वीशः ॥ ४१॥ विज्ञानात्मा विजयो वरदो वासाधिकारविधिपूज्यः । मधुरोक्तिर्मृदुभाषी मल्लीदामोज्जलत्तनुः पायात् ॥ ४२॥ महिलाजनशुभकृन्नो मृत्युहरो मलयवासिमुनिपूज्यः । मृगनाभिलिप्तनिटिलो मरकतमयकिङ्किणीकोऽव्यात् ॥ ४३॥ मन्देतरगतिरव्यान्मेधावी दीनजनगोप्ता । दीप्ताग्रनासिकास्यो दारिद्र्यध्वंसनो दयासिन्धुः ॥ ४४॥ दान्तप्रियकृद्दान्तो दमनकधारी भृशं दयताम् । दण्डितसाधुविपक्षो दैन्यहरो दानधर्मनिरतो नः ॥ ४५॥ वन्दारुबृन्दशुभकृद्वल्मीकौकोऽभयङ्करो विनुतः । विहितो वज्रनखाग्रो यततामिष्टप्रदो यन्ता ॥ ४६॥ युगबाहुर्यवनासो यवनारिर्यातनां नुदतु । बह्मण्यो ब्रह्मरतो ब्रह्मात्मा ब्रह्मगुप्तो नः ॥ ४७॥ ब्राह्मणपूजितमूर्तिर्ब्रह्मध्यायी बृहत्पक्षः । ब्रह्मसमो ब्रह्मांशो ब्रह्मज्ञो हरितवर्णचेलोऽव्यात् ॥ ४८॥ हरिकैङ्कर्यरतोऽव्याद्धरिदासो हरिकथासक्तः । हरिपूजननियतात्मा हरिभक्तध्यातदिव्यशुभरूपः ॥ ४९॥ हरिपादन्यस्तात्मात्मीयभरो हरिकृपापात्रम् । हरिपादवहनसक्तो हरिमन्दिरचिह्नमूर्तिरवतान्नः ॥ ५०॥ दमितपविगर्वकूटो दरनाशी दरधरो दक्षः । दानवदर्पहरो नो रदनद्युतिरञ्जिताशोऽव्यात् ॥ ५१॥ रीतिज्ञो रिपुहन्ता रोगध्वंसी रुजाहीनः । धर्मिष्ठो धर्मात्मा धर्मज्ञः पातु धर्मिजनसेव्यः ॥ ५२॥ धर्माराध्यो धनदो धीमान् धीरो धवो धियं दद्यात् । धिक्कृतसुरासुरास्त्रस्त्रेताहोमप्रभावसञ्जातः ॥ ५३॥ तटिनीतीरनिर्वासी तनयार्थ्यर्च्यस्तनुत्राणः । तुष्यज्जनार्दनोऽव्यात् तुरीयपुरुषार्थदस्तपस्वीन्द्रः ॥ ५४॥ तरलस्तोयचरारिस्तुरगमुखप्रीतिकृत् पातु । रणशूरो रयशाली रतिमान् राजविहारभृद्रसदः ॥ ५५॥ रक्षस्सङ्गविनाशी रथिकवरार्च्योऽवताद्रणद्भूषः । रभसगती रहितार्तिः पूतः पुण्यः पुरातनः पूर्णः ॥ ५६॥ पद्मार्च्यः पवनगतिः पतितत्राणः परात्परः पायात् । पीनांसः पृथुकीर्तिः क्षतजाक्षः क्ष्माधरः क्षणः क्षणदः ॥ ५७॥ क्षेपिष्ठः क्षयरहितः क्षुण्णक्ष्माभृत् क्षुरान्तनासोऽव्यात् । क्षिपवर्णघटितमन्त्रः क्षितिसुरनम्यो ययातीड्यः ॥ ५८॥ याज्यो युक्तो योगो युक्ताहारो यमार्चितो युगकृत् । याचितफलप्रदायी यत्नार्च्यः पातु यातनाहन्ता ॥ ५९॥ ज्ञानी ज्ञप्तिशरीरो ज्ञाताऽव्यात् ज्ञानदो ज्ञेयः । ज्ञानादिमगुणपूर्णो ज्ञप्तिहताविद्यको ज्ञमणिः ॥ ६०॥ ज्ञात्यहिमर्दनदक्षो ज्ञानिप्रियकृद्यशोरोशिः । युवतिजनेप्सितदो नो युवपूज्योऽव्याद्युवा च यूथस्थः ॥ ६१॥ यामाराध्यो यमभयहारी युद्धप्रियो योद्धा । योगज्ञज्ञातोऽयात् ज्ञातृज्ञेयात्मको ज्ञप्तिः ॥ ६२॥ ज्ञानहताशुभनिवहो ज्ञानघनो ज्ञाननिधिरव्यात् । ज्ञातिजभयहारी नो ज्ञानप्रतिबन्धकर्मविच्छेदी ॥ ६३॥ ज्ञानेनहताज्ञानध्वान्तो ज्ञानीशवन्द्यचरणोऽव्यात् । यज्वप्रियकृद्याजकसेव्यो यजनादिषट्कनिरतार्च्यः ॥ ६४॥ यायावरशुभकृन्नस्तनुतां भद्रं यशोदायी । यमयुतयोगिप्रेक्ष्यो यादवहितकृद्यतीश्वरप्रणयी ॥ ६५॥ योजनसहस्रगामी यततां नो मङ्गले यथार्थज्ञः । पोषितभक्तः प्रार्थ्यः पृथुतरबाहुः पुराणवित्प्राज्ञः ॥ ६६॥ पैशाचभयनिहन्ता प्रबलः प्रथितः प्रसन्नवदनयुतः । पत्ररथो नः पायाच्छायानश्यद्भुजङ्गौघः ॥ ६७॥ छर्दितविप्रश्छिन्नारातिश्छन्दोमयः सततम् । छन्दोविच्छन्दोङ्गश्छन्दश्शास्त्रार्थवित् पातु ॥ ६८॥ छान्दसशुभङ्करोऽव्याच्छन्दोगध्यातशुभमूर्तिः । छलमुखदोषविहीनाराध्यश्छूनायतोज्जलद्बाहुः ॥ ६९॥ छन्दोनिरतश्छात्रोत्करसेव्यश्छत्रभृन्महितः । छन्दोवेद्यश्छन्दः प्रतिपादितैभवः पायात् ॥ ७०॥ छागवपाहुतितृप्तश्छायापुत्रोद्भवार्तिविच्छेदी । छविनिर्जितखर्जूरश्छादित दिविषत् प्रभावोऽव्यात् ॥ ७१॥ दुःस्वप्ननाशनो नो दमनो देवाग्रणीर्दाता । दुर्धर्षो दुष्कृतहः दीप्तास्यः पातु दुस्सहो देवः ॥ ७२॥ दीक्षितवरदः सरसः सर्वेड्यः संशयच्छेत्ता । सर्वज्ञः सत्योऽव्याद्योगाचार्यो यथार्थवित्प्रियकृत् ॥ ७३॥ योगप्रमाणवेत्ता युञ्जानो योगफलदायी । गानासक्तो गहनो रक्षेद्ग्रहचारपीडनध्वंसी ॥ ७४॥ ग्रहभयहा गदहारी गुरुपक्षो गोरसादी नः । गव्यप्रियो गकारादिमनामा पातु गेयवरकीर्तिः ॥ ७५॥ नीतिज्ञो निरवद्यो निर्मलचित्तो नरप्रियो नम्यः । नारदगेयो नन्दिस्तुतकीर्तिर्निर्णयात्मको रक्षेत् ॥ ७६॥ निर्लेपो निर्द्वन्द्वो धीधिष्ण्यो धिक्कृतारातिः । धृष्टो धनञ्जयार्चिश्शमनोऽव्याद्धान्यदो धनिकः ॥ ७७॥ धन्यीड्यो धनदार्च्यो धूतार्तिप्रापको धुरीणो नः । षण्मुखनुतचरितोव्याद्षड्गुणपूर्णः षडर्धनयनसमः ॥ ७८॥ नादात्मा निर्दोषो नवनिधिसेव्यो निरञ्जनो नव्यः । यतिमुक्तिरूपफलदो यतिपूज्यो हापयेद्दुरितम् ॥ ७९॥ शतमूर्तिः शिशिरात्मा शास्त्रज्ञः पातु शासकृत् श्रीलः । शशधरकीर्तिः शश्वत्प्रियदो नः शाश्वतः शमिध्यातः ॥ ८०॥ शुभकृत्फल्गुनसेव्यः फलदः फालोज्ज्वलत्पुण्ड्रः । फलरूपी फणिकटकः फणिकटिसूत्रः फलोद्वहः पातु ॥ ८१॥ फलभुक् फलमूलाशि ध्येयः फणियज्ञसूत्रधारी नः । योषिदभीप्सितफलदो युतरुद्रोऽव्याद्यजुर्नामा ॥ ८२॥ यजुरुपपादितमहिमा युतरतिकेलिर्युवाग्रणीर्यमनः । यागचिताग्निसमानो यज्ञेशो योजितापदरिरव्यात् ॥ ८३॥ जितसुरसन्धो जैत्रो ज्योतीरूपो जितामित्रः । जवनिर्जित पवनोऽव्याज्जयदो जीवोत्करस्तुत्यः ॥ ८४॥ जनिधन्यकश्यपो नो जगदात्मा जडिमविध्यंसी । षिद्गानर्च्यः षण्डीकृतसुरतेजाः षडध्वनिरतोऽव्यात् ॥ ८५॥ षट्कर्मनिरतहितदः षोडशविधविग्रहाराध्यः । षाष्टिकचरुप्रियोऽव्यात् षडूर्म्यसंस्पृष्टदिव्यात्मा ॥ ८६॥ षोडशियागसुतृप्तः षण्णवतिश्राद्धकृद्धितकृत् । षड्वर्गगन्धरहितो नारायणनित्यवहनोऽव्यात् ॥ ८७॥ नामार्चकवरदायी नानाविधतापविध्वंसी । नवनीरदकेशोऽव्यान्नानार्थप्रापको नताराध्यः ॥ ८८॥ नयविन्नवग्रहार्च्यो नखयोधी पातु निश्चलात्मा नः । मलयजलिप्तो मदहा मल्लीसूनार्चितो महावीरः ॥ ८९॥ मरुदर्चितो महीयान्मञ्जुध्वानोऽवतान्मुरार्यंशः । मायाकूटविनाशी मुदितात्मा सुखितनिजभक्तः ॥ ९०॥ सकलप्रदः समर्थः सर्वाराध्यः सवप्रियः सारः । सकलेशः समरहितः सुकृती नः पातु सूदितारातिः ॥ ९१॥ परिधृतहरितसुवासाः पाणिप्रोद्यत्सुधाकुम्भः । प्रवरः पावककान्तिः पटुनिनदः पातु पञ्जरावासी ॥ ९२॥ पण्डितपूज्यः पीनः पायात्पातालपतितवसुरक्षी । पङ्केरुहार्चिताङ्घ्रिः नेत्रानन्दो नुतिप्रियो नेयः ॥ ९३॥ नवचम्पकमालाभृन्नाकौका नाकिहितकृन्नः । निस्तीर्णसंविदव्यान्निष्कामो निर्ममो निरुद्वेगः ॥ ९४॥ सिद्धिः सिद्धप्रियकृत्साध्याराध्यः सुखोद्वहः स्वामी । सागरतीरविहारी सौम्यः पायात्सुखी साधुः ॥ ९५॥ स्वादुफलाशी गिरिजाराध्यो गिरिसन्निभो गमयेत् । गात्रद्युतिजितरुक्मो गुण्यो गुहवन्दितो गोप्ता ॥ ९६॥ गगनाभो गतिदायी गीर्णाहिर्गोनसारातिः । रमणकनिलयो रूपी रसविद्रक्षाकरो रक्षेत् ॥ ९७॥ रुचिरो रागविहीनो रक्तो रामो रतिप्रियो रवकृत् । तत्वप्रियस्तनुत्रालङ्कृतमूर्तिस्तुरङ्गगतिरव्यात् ॥ ९८॥ तुलितहरिर्नस्तुम्बुरुगेयो माली महर्धिमान्मौनी । मृगनाथविक्रमोऽव्यान्मुषितार्तिर्दीनभक्तजनरक्षी ॥ ९९॥ दोधूयमानभुवनो दोषविहीनो दिनेश्वराराध्यः । दुरितविनाशी दयितो दयतां दासीकृतत्रिदशः ॥ १००॥ दन्तद्युतिजितकुन्दो दण्डधरो दुर्गतिध्वंसी । वन्दिप्रियो वरेण्यो वीर्योद्रिक्तो वदान्यवरदोऽव्यात् ॥ १०१॥ वाल्मीकिगेयकीर्तिर्वर्धिष्णुर्वारिताघकूटो नः । वसुदो वसुप्रियोऽव्याद्वसुपूज्यो गर्भवासविच्छेदी ॥ १०२॥ गोदाननिरतसुखकृद्गोकुलरक्षी गवां नाथः । गोवर्धनो गभीरो गोलेशः पातु गौतमाराध्यः ॥ १०३॥ गतिमान्गर्गनुतो नश्चरितादिमपूजनाध्वगप्रियकृत् । चामीकरप्रदायी चारुपदोऽव्याच्चराचरस्वामी ॥ १०४॥ चन्दनचर्चितदेहश्चन्दनरसशीतलापाङ्गः । चरितपवित्रितभुवनश्चादूक्तिः पातु चोरविध्वंसी ॥ १०५॥ चञ्चद्गुणनिकरो नः सुभरः सूक्ष्माम्बरः सुभद्रोऽव्यात् । सूदितखलः सुभानुः सुन्दरमूर्तिः सुखास्पदः सुमतिः ॥ १०६॥ सुनयः सोमरसादिप्रियकृत्पायाद्विरक्तेड्यः । वैदिककर्मसुतृप्तो वैखानसपूजितो वियच्चारी ॥ १०७॥ व्यक्तो वृषप्रियोऽव्याद्वृषदो विद्यानिधिविराड् विदितः । परिपालितविहगकुलः पुष्टः पूर्णाशयः पुराणेड्यः ॥ १०८॥ पीरधृतपन्नगशेलः पार्थिववन्द्यः पदाहृतद्विरदः । परिनिष्ठितकार्योऽव्यात्परार्ध्यहारः परात्मा नः ॥ १०९॥ तन्वीड्यस्तुङ्गांसस्त्यागी तूर्यादिवाद्यसन्तुष्टः । तप्तद्रुतकनकाङ्गदधारी दद्याद्धनं तृप्तिः ॥ ११०॥ तृष्णापाशच्छेदी त्रिभुवनमहितस्त्रयीधरस्तर्कः । त्रिगुणातीतस्तामसगुणनाशी तर्क्यतां तपस्सिन्धुः ॥ १११॥ तीर्थस्त्रिसमयपूज्यस्तुहिनोरुस्तीर्थकृत्तटस्थो नः । तुरगपतिसेवितोऽव्यात्त्रिपुरारिश्लाघितः प्रांशुः ॥ ११२॥ पाषाण्डतूलदहनः प्रेमरसार्द्रः पराक्रमी पूर्वः । प्रेङ्खत्कुण्डलगण्डः प्रचलद्धारः प्रकृष्टमतिरव्यात् ॥ ११३॥ प्रचुरयशाः प्रभुनम्यो रसदो रूपाधरीकृतस्वर्णः । रसनानृत्यद्विद्यो रम्भादिस्तुत्यचारुचरितोऽव्यात् ॥ ११४॥ रंहस्समूहरूपी रोषहरो रिक्तसाधुधनदायी । राजद्रत्नसुभूषो रहिताघौघो रिरंसुरव्यान्नः ॥ ११५॥ षट्कालपूजनीयः षड्गुणरत्नाकरः षडङ्गज्ञः । षड्रसवेदी षण्डावेद्यः षड्दर्शनीप्रदः पायात् ॥ ११६॥ षड्विंशति तत्वज्ञः षड्रसभोजी षडङ्गवित्पूज्यः । षड्जादिस्वरवेदी युगवेदी यज्ञभुग्योग्यः ॥ ११७॥ यात्रोद्युक्तशुभं युर्युक्तिज्ञो यौवनाश्वसम्पूज्यः । युयुधानो युद्धज्ञो युक्ताराध्यो यशोधनः पायात् ॥ ११८॥ विद्युन्निभो विवृद्धो वक्ता वन्द्यो वयःप्रदो वाच्यः । वर्चस्वी विश्वेशो विधिकृत् पायाद्विधानज्ञः ॥ ११९॥ दीधितिमालाधारी दशदिग्गामि दृढोज्ज्वलत्पक्षः । दंष्ट्रारुचिरमुखोऽव्याद्दवनाशोऽस्मान्महोदयो मुदितः ॥ १२०॥ मूदितकषायो मृग्यो मनोजवो हेतिभृद्वन्द्यः । हैयङ्गवीनभोक्ता हयमेधप्रीतमानसः पायात् ॥ १२१॥ हेमाब्जहारधारी हेली हेतीश्वरप्रणयी । हठयोगकृत्सुसेव्यो हरिभक्तः पातु हरिपुरःस्थायी ॥ १२२॥ हितदः सुपृष्ठराजद्धरिरव्यात्सौम्यवृत्तो नः । स्वात्युद्भवः सुरम्यः सौधीभूतश्रुतिः सुहृद्वन्द्यः ॥ १२३॥ सगरस्यालः सत्पथचारी सन्तानवृद्धिकृत्सुयशाः । विजयी विद्वत्प्रवरो वर्ण्योऽव्याद्वीतरागभवनाशी ॥ १२४॥ वैकुण्ठलोकवासी वैश्वानरसन्निभो विदग्धो नः । वीणागानसुरक्तो वैदिकपूज्यो विशुद्धोऽव्यात् ॥ १२५॥ नर्मप्रियो नतेड्यो निर्भीको नन्दनो निरातङ्कः । नन्दनवनचार्यव्यान्नगाग्रनिलयो नमस्कार्यः ॥ १२६॥ निरुपद्रवो नियन्ता प्रयतः पर्णाशिभावितः पातु । पुण्यप्रदः पवित्रः पुण्यश्लोकः प्रियंवदः प्राज्ञः ॥ १२७॥ परयन्त्रतन्त्रभेदी परनुन्नग्रहभवार्तिविच्छेदी । परनुन्नग्रहदाही क्षामक्षोभप्रणाशनः पायात् ॥ १२८॥ क्षेमीक्षेमकरो नः क्षौद्ररसाशी क्षमाभूषः । क्षान्ताश्रितापराधः क्षुधितजनान्नप्रदः पायात् ॥ १२९॥ क्षौमाम्बरशाली नः क्षवथुहरः क्षीरभुक्पातु । यन्त्रस्थितश्च यागोद्युक्तस्वर्णप्रदो युतानन्दः ॥ १३०॥ यतिवन्दितचरणाब्जो यतिसंसृतिदाहको युगेशानः । याचकजनहितकारी युगादिरव्याद्युयुत्सुर्नः ॥ १३१॥ यागफलरूपवेत्ता धृतिमान धैर्योदधिर्ध्येयः । धीधिक्कृतकुमतोऽव्याद्धर्मोद्युक्तप्रियो धराग्रस्थः ॥ १३२॥ धीनिर्जितधिषणोऽस्मान्धीमत्प्रवरार्थितो धरः पातु । धृतवैकुण्ठेशानो मतिमद् ध्येयो महाकुलोद्भूतः ॥ १३३॥ मण्डलगतिर्मनोज्ञो मन्दारप्रसवधारी नः । मार्जारदंशनोद्भवरोगध्वंसी महोद्यमः पातु ॥ १३४॥ मूषिकविषदाही नो माता मेयो हितोद्युक्तः । हीरोज्ज्वलभूषोऽव्याद्धृद्रोगप्रशमनो हद्यः ॥ १३५॥ हत्पुण्डरीकनिलयो होराशास्रार्थविद्धोता । होमप्रियो हतार्तिर्हुतवहजायावसानमन्त्रोऽव्यात् ॥ १३६॥ तन्त्री तन्त्राराध्यस्तान्त्रिकजनसेवितस्तत्वम् । तत्वप्रकाशकोऽव्यात् तपनीयभ्राजमानपक्षो नः ॥ १३७॥ त्वग्भवरोगविमर्दी तापत्रयहा त्वरान्यितः पातु । तलताडननिहतारिर्नीवारान्नप्रियो नीतिः ॥ १३८॥ नीरन्ध्रो निष्णातो नीरोगो निर्ज्वरो नेता । निर्धार्यो निर्मोहो नैयायिकसौख्यदाय्यव्यात् ॥ १३९॥ गौरवभृद्गणपूज्यो गर्विष्ठाहिप्रभञ्जनश्च गुरुः । गुरुभक्तो गुल्महरो गुरुदायी गुत्सभृत्पातु ॥ १४०॥ गण्यो गरिष्ठमूर्ती रजोहरो राङ्कवास्तरणः । रशनारञ्जितमध्यो रोगहरः पातु रुक्मसूनार्च्यः ॥ १४१॥ रल्लकसंव्यानोऽव्याद्रोचिष्णू रोचनाग्रनिलयो नः । रङ्गेड्यो रयसचिवो डोलायितनिगमशायी च ॥ १४२॥ ढक्कानादसुतृप्तो डिम्भप्रियकृच्च डुण्डुभारातिः । डहुरसमिश्रान्नादी डिण्डिमरवतृप्तमानसः पायात् ॥ १४३॥ डम्भादिदोषहीनो डमरहरो डमरुनादसन्तुष्टः । डाकिन्यादि क्ष्रुद्रग्रहमर्दी पाञ्चरात्रपूज्योऽव्यात् ॥ १४४॥ प्रद्युम्नः प्रवरगुणः प्रसरत्कीर्तिः प्रचण्डदोर्दण्डः । पत्री पणितगुणौघः प्राप्ताभीष्टः परः प्रसिद्धोऽव्यात् ॥ १४५॥ चिद्रूपी चित्तज्ञश्चेतनपूज्यश्च चोदनार्थज्ञः । चिकुरधृतहल्लकोऽव्याच्चिरजीवी चिद्धनश्चित्रः ॥ १४६॥ चित्रकरश्चिन्निलयो द्विजवर्यो दारितेतिरव्यान्नः । दीप्तो दस्युप्राणप्रहरो दुष्कृत्यनाशकृद्दिव्यः ॥ १४७॥ दुर्बोधहरो दण्डितदुर्जनसङ्घो दुरात्मदूरस्थः । दानप्रियो यमीशो यन्त्रार्चककाम्यदः पातु ॥ १४८॥ योगपरो युतहेतिर्योगाराध्यो युगावर्तः । यज्ञाङ्गो यज्वेड्यो यज्ञोद्भूतो यथार्थोऽव्यात् ॥ १४९॥ श्रीमान्नितान्तरक्षी वाणीशसमो दिशेत्साधुः । यज्ञस्वामी मञ्जुर्गरुडो लम्बोरुहारभूत् कुशलम् ॥ १५०॥ पञ्चाशदुत्तरशतश्लोकार्यास्तुतिरियं खगेन्द्रस्य । श्रीकृष्णभट्टरचिता पठतां कुर्यादभीप्सितं सकलम् ॥ १५१॥ सुपर्णोसीत्यादिश्रुतिघटकवर्णैः खगपते तथागायत्र्यर्णैर्घटितमुखवर्णा स्तुतिरियम् । चतुस्तन्त्र श्रीमद्विबुधवरकृष्णार्यरचिता सहस्रढ्या नाम्नां जगति विहगेन्द्रस्य जयतु ॥ १५२॥ ॥ इति श्रीगरुडसहस्रनामस्तोत्रं सम्पूर्णम् ॥ (सुपर्णोऽसि-तै।सं। ४-४२ गायत्री तै। आ। १०।१) (श्रीवासुदेवभट्टाचार्यकरुणासंवर्धितात्मतत्त्वावबोधस्य श्रीकृष्णभट्टाचार्यस्य कृतिः ।)