अक्षर आकार:

गरुडपञ्चाशत्स्तोत्रम्

Garudapanchashatstotram

गरुडपञ्चाशत्स्तोत्रम्

वेदान्तदेशिककृतम् । १। परव्यूहवर्णकः अङ्गेष्वानन्दमुख्यश्रुतिशिखरमिलद्दण्डकं गण्डपूर्वं प्रागेवाभ्यस्य षट्सु प्रतिदिशमनघं न्यस्य शुद्धास्त्रबन्धाः । पक्षि व्यत्यस्तपक्षिद्वितयमुखपुटप्रस्फुटोदारतारं मन्त्रं गारुत्मतं तं हुतवहदयिताशेखरं शीलयामः ॥ १॥ वेदः स्वार्थाधिरूढो बहिरबहिरभिव्यक्तिमभ्येति यस्यां सिद्धिः साङ्कर्षणी सा परिणमति यया सापवर्गत्रिवर्गा । प्राणस्य प्राणमन्ये प्रणिहितमनसो यत्र निर्धारयन्ति प्राची सा ब्रह्मविद्या परिचितगहना पातु गारुत्मती नः ॥ २॥ नेत्रं गायत्रमूचे त्रिवृदिति च शिरो नामधेयं यजूंषि छन्दांस्यङ्गानि धिष्ण्यात्मभिरजनि शफैर्विग्रहो वामदेव्यम् । यस्य स्तोमात्मनोऽसौ बृहदितरगरुत्तादृशाम्नायपुच्छः स्वाच्छन्द्यं नः प्रसूतां श्रुतिशतशिखराभिष्टुतात्मा गरुत्मान् ॥ ३॥ यो यं धत्ते स्वनिष्ठं वहनमपि वरः स्पर्शितो येन यस्मै यस्माद्यस्याहवश्रीर्विदधति भजनं यत्र यत्रेति सन्तः । प्रायो देवः स इत्थं हरिगरुडभिदाकल्पितारोह वाह- स्वाभाव्यः स्वात्मभव्यः प्रदिशतु शकुनिर्ब्रह्मसब्रह्मतां नः ॥ ४॥ एको विष्णोर्द्वितीयस्त्रिचतुरविदितं पञ्चवर्णीरहस्यं षाड्गुण्यं स्मेरसप्तस्वरगतिरणिमाद्यष्टसम्पन्नवात्मा । देवो दर्वीकरारिर्दशशतनयनाराति साहस्रलक्षैः विक्रीडत्पक्षकोटिर्विघटयतु भयं वीतसङ्ख्योदयो नः ॥ ५॥ सत्याद्यैः सात्वतादि प्रथितमहिमभिः पञ्चभिर्व्यूहभेदैः पञ्चाभिख्यो निरुन्धन् भवगरलभवं प्राणिनां पञ्चभावम् । प्राणापानादि भेदात्प्रतितनु मरुतो दैवतं पञ्चवृत्तेः पञ्चात्मा पञ्चधाऽसौ पुरुष उपनिषद्घोषितस्तोषयेन्नः ॥ ६॥ श्लिष्यद्भोगीन्द्रभोगे श्रुतिनिकरनिधौ मूर्तिभेदे स्वकीये वर्णव्यक्तीर्विचित्राः परिकलयति यो वक्त्रबाहूरुपादैः । प्राणः सर्वस्य जन्तोः प्रकटितपरमब्रह्मभावः स इत्थं क्लेशं छिन्दन् खगेशः सपदि विपदि नः सन्निधिः सन्निधत्ताम् ॥ ७॥ अग्रे तिष्ठन्नुदग्रो मणिमुकुर इवानन्यदृष्टेर्मुरारेः पायान्मायाभुजङ्गीविषमविषभयाद्गाढमस्मान् गरुत्मान् । क्षुभ्यत्क्षीराब्धिपाथः सहभवगरलस्पर्शशङ्की स शङ्के छायां धत्ते यदीयां हृदि हरिहृदयारोहधन्यो मणीन्द्रः ॥ ८॥ २। अमृतहरणवर्णकः । आहर्तारं सुधाया दुरधिगममहाचक्रदुर्गस्थितायाः जेतारं वज्रपाणेः सह विबुधगणैराहवे बाहुवेगात् । विष्णौ सम्प्रीयमाणे वरविनिमयतो विश्वविख्यातकीर्तिं देवं याऽसूत साऽसौ दिशतु भगवती शर्म दाक्षायणी नः ॥ ९॥ वित्रासाद्वीतिहोत्रं प्रथममधिगतैरन्तके मन्दधाम्ना भूयस्तेनैव सार्धं भयभरतरलैर्वन्दितो देववृन्दैः । कल्पान्तक्षोभदक्षं कथमपि कृपया सङ्क्षिपन् धाम चण्डं भित्त्वाऽण्डं निर्जिहानो भवभयमिह नः खण्डयत्वण्डजेन्द्रः ॥ १०॥ क्षुण्णक्षोणीधराणि क्षुभितचतुरकूपारतिम्यद्गरुन्ति त्रुट्यत्तारासराणि स्थपुटितविबुधस्थानकानि क्षिपेयुः । पातालब्रह्मसौधावधिविहितमुधावर्तनान्यस्मदार्तिं ब्रह्माण्डस्यान्तराले बृहति खगपतेरर्भकक्रीडितानि ॥ ११॥ संविच्छस्त्रं दिशन्त्या सह विजयचमूराशिषः प्रेषयन्त्या सम्बध्नन्त्या तनुत्रं सुचरितमशनं पक्कणं निर्दिशन्त्या । एनोऽस्मद्वैनतेयो नुदतु विनतया क्लृप्तरक्षाविशेषः कद्रूसङ्केतदास्यक्षपणपणसुधालक्षभैक्षं जिघृक्षुः ॥ १२॥ विक्षेपैः पक्षतीनामनिभृतगतिभिर्वादितव्योमतूर्यो वाचालाम्भोधिवीचीवलयविरचितालोकशब्दानुबन्धः । दिक्कन्या कीर्यमाणक्षरदुडुनिकरव्याजलाजाभिषेको नाकोन्माथाय गच्छन् नरकमपि समये नागहन्ता निहन्तु ॥ १३॥ ऋक्षाक्षक्षेपदक्षो मिहिरहिमकरोत्तालतालाभिघाती वेला वाः केलि लोलो विविधघनघटाकन्दुकाघातशीलाः । पायान्नः पातकेभ्यः पतगकुलपतेः पक्षविक्षेपजातो वातः पातालहेलापटहपटरवारम्भसंरम्भधीरः ॥ १४॥ किं निर्घातः किमर्कः परिपतति दिवः किं समिद्धोऽयमौर्वः किंस्वत्कार्तस्वराद्रिर्ननु विदितमिदं व्योमवर्त्मा गरुत्मान् । आसीदत्याजिहीर्षत्यभिपतति हरत्यत्ति हा तात हाम्बे- त्यालापोद्युक्तभिल्लाकुलजठरपुटः पातु नः पत्रिनाथः ॥ १५॥ आसृक्वाक्तैरसृग्भिर्दुरुपरमतृषा शातनी शातदंष्ट्रा- कोटी लोटत्करोटी विकटकटकटारावघोरावतारा । भिन्द्यात्सार्धं पुलिन्द्या सपदि परिहृतब्रह्मगा जिह्मगारेः उद्वेल्लद्भिल्लपल्लीनिगरणकरणापारणाकारणां नः ॥ १६॥ स्वच्छन्दस्वर्गिवृन्दप्रथमतममहोत्पातनिर्घातघोरः स्वान्तध्वान्तं निरुन्ध्याद्धुतधरणिपयोराशिराशीविषारेः । प्रत्युद्यद्भिल्लपल्लीभटरुधिरसरिल्लोलकल्लोलमाला- हाला निर्वेशहेला हलहलबहुलो हर्षकोलाहलो नः ॥ १७॥ सान्द्रक्रोधानुबन्धात्सरसि नखमुखे पादपे गण्डशैले तुण्डाग्रे कण्ठरन्ध्रे तदनु च जठरे निर्विशेषं युयुत्सू । अव्यादस्मानभव्यादविदितनखरश्रेणिदंष्ट्रानिवेशौ जीवग्राहं गृहीत्वा कमठकरटिनौ भक्षयन् पक्षिमल्लः ॥ १८॥ अल्पः कल्पान्तलीलानटमकुटसुधासूतिखण्डो बहूनां निःसारस्त्वद्भुजाद्रेरनुभवतु मुदा मन्थनं त्वेष सिन्धुः । राकाचन्द्रस्तु राहोः स्वमिति कथयतः प्रेक्ष्य कद्रूकुमारान् सान्तर्हासं खगेन्द्रः सपदि हृतसुधस्त्रायतामायतान्नः ॥ १९॥ आरादभ्युत्थितैरावतममितजवोदञ्चदुच्चैःश्रवस्कं जातक्षोभं निमथ्नन् दिशि दिशि दिविषद्वाहिनीशं क्षणेन । भ्राम्यन्सव्यापसव्यं सुमहति मिषति स्वर्गिसार्थे सुधार्थं प्रेङ्खन्नेत्रः श्रियं नः प्रकटयतु चिरं पक्षवान्मन्थशैलः ॥ २०॥ अस्थानेषु ग्रहाणामनियतविहितानन्तवक्रातिचारा विश्वोपाधिव्यवस्था विगमविलुलितप्रागवागादिभेदाः । द्वित्राः सुत्रामभक्तग्रहकलहविधावण्डजेन्द्रस्य चण्डाः पक्षोत्क्षेपा विपक्षक्षपणसरभसाः शर्म मे निर्मिमीरन् ॥ २१॥ तत्तत्प्रत्यर्थि सारावधि विहितमृषा रोषगन्धो रुषान्धैः एकः क्रीडन्ननेकैः सुरपतिसुभटैरक्षतो रक्षतान्नः । अन्योन्याबद्धलक्षापहरणविहितामन्दमात्सर्यतुङ्गैः अङ्गैरेव स्वकीयैरहमहमिकया मानितो वैनतेयः ॥ २२॥ अस्तव्योमान्तमन्तर्हितनिखिलहरिन्मण्डलं चण्डभानोः लुण्टाकैर्यैरकाण्डे जगदखिलमिदं शर्वरी वर्वरीति । प्रेङ्खोलत्स्वर्गगोलस्खलदुडुनिकरस्कन्धबन्धान् निरुन्धन् रंहोभिस्तैर्मदम्हो हरतु तरलितब्रह्मसद्मा गरुत्मान् ॥ २३॥ यः स्वाङ्गे सङ्गरान्तर्गरुदनिलवस्तम्भिते जम्भशत्रौ कुण्ठास्त्रे सन्नकण्ठं प्रणयति पवये पक्षलेशं दिदेश । सोऽस्माकं संविधत्तां सुरपतिपृतनाद्वन्द्वयुद्धैकमल्लो माङ्गल्यं वालखिल्यद्विजवरतपसां कोऽपि मूर्तो विवर्तः ॥ २४॥ रुद्रान् विद्राव्य सेन्द्रान् हुतवहसहितं गन्धवाहं गृहीत्वा कालं निष्काल्य धूत्वा निरृतिधनपतीपाशिनं क्लेशयित्वा । सर्पाणां छाद्मिकानाममृतमयपणप्रापणप्राप्तदर्पो निर्बाधं क्वापि सर्पन्नपहरतु हरेरौपवाह्यो मदंहः ॥ २५॥ ३। नागदमनवर्णकः भुग्नभ्रूर्भ्रुकुटीभृद्भ्रमदमितगरुत्क्षोभितक्ष्मान्तरिक्षः चक्राक्षो वक्रतुण्डः खरतरनखरः क्रूरदंष्ट्राकरालः । पायादस्मानपायाद्भयभरविगलद्दन्दशूकेन्द्रशूकः शौरेः सङ्क्रन्दनादि प्रतिभटपृतनाक्रन्दनः स्यन्दनेन्द्रः ॥ २६॥ अर्यम्णा धुर्ययोक्त्रग्रहणभयभृता सान्त्वितोऽनूरुबन्धात् कोदण्डज्यां जिघृक्षेदिति चकितधिया शङ्कितः शङ्करेण । तल्पे कल्पेत मा ते मतिरिति हरिणाऽप्यादरेणानुनीतः पक्षीन्द्रस्त्रायतां नः फणधरमहिषीपत्रभङ्गापहारी ॥ २७॥ छायातार्क्ष्यानहीनां फणमणिमुकुरश्रेणिविस्पष्टबिम्बान् त्राणापेक्षाधृतस्वप्रतिकृतिमनसा वीक्ष्य जातानुकम्पः । तेषां दृष्ट्वाऽथ चेष्टाः प्रतिगरुडगणाशङ्कया तुङ्गरोषः सर्पन् दर्पोद्धतो नः शमयतु दुरितं सर्पसन्तानहन्ता ॥ २८॥ उच्छ्वासाकृष्टतारागणघटितमृषा मौक्तिकाकल्पशिल्पः पक्षव्याधूतपाथोनिधिकुहरगुहागर्भदत्तावकाशः । दृष्टिं दंष्ट्राङ्ग्रदूतीं पृथुषु फणभृतां प्रेषयन्नुत्तमाङ्गे- ष्वङ्गैरङ्गानि रुन्धन्नवतु पिपतिषुः पत्रिणामग्रणीर्नः ॥ २९॥ आ वेधः सौधश‍ृङ्गादनुपरतगतेरा भुजङ्गेन्द्रलोकात् श्रेणीबन्धं वितन्वन् क्षणपरिणमितालातपातप्रकारः । पायान्नः पुण्यपापप्रचयमयपुनर्गर्भकुम्भीनिपातात् पातालस्यान्तराले बृहति खगपतेर्निर्विघातो निपातः ॥ ३०॥ प्रत्यग्राकीर्णतत्तत्फणमणिनिकरं शङ्कुला कोटिवक्रं तुण्डाग्रं सङ्क्ष्णुवानः कुलगिरिकठिने कर्परे कूर्मभर्तुः । पातालक्षेत्रपक्वद्विरसनपृतनाशालि विच्छेदशाली शैलीं नः सप्तशैली लघिमदरभसः सौतु साध्वीं सुपर्णः ॥ ३१॥ पर्यस्यत्पन्नगीनां युगपदसमयानर्भकान् गर्भकोशाद्- ब्रह्मस्तम्बप्रकम्पव्यतिषजदखिलोदन्वदुन्निद्रघोषम् । चक्षुश्चक्षुः श्रुतीनां सपदि बधिरयत् पातु पत्रीश्वरस्य क्षिप्रक्षिप्तक्षमाभृत्क्षणघटितनभः स्फोटमास्फोटितं नः ॥ ३२॥ तोयस्कन्धो न सिन्धोः समघटत मिथः पक्षविक्षेपभिन्नः पातालं न प्रविष्टं पृथुनि च विवरे रश्मिभिस्तिग्मरश्मेः । तावद्ग्रस्ताहिवक्त्रक्षरितविषमषीपङ्ककस्तूरिकाङ्कः प्रत्यायातः स्वयूथ्यैः स्थित इति विदितः पातु पत्रीश्वरो नः ॥ ३३॥ बद्धस्पर्धैरिव स्वैर्बहुभिरभिमुखैरेककण्ठं स्तुवाने तत्तद्विश्वोपकारप्रणयिसुरगणप्रार्थितप्राणरक्षे । पायान्नः प्रत्यहं ते कमपि विषधरं प्रेषयामीति भीते सन्धित्सौ सर्पराजे सकरुणमरुणानन्तरं धाम दिव्यम् ॥ ३४॥ क्वाप्यस्थ्ना शर्कराढ्यं क्वचन घनतरासृक्छटा शीधु दिग्धं निर्मोकैः क्वापि कीर्णं विषयमपरतो मण्डितं रत्नखण्डैः । अध्यारूढैः स्ववारेष्वहमहमिकया वध्यवेषं दधानैः काले खेलन् भुजङ्गैः कलयतु कुशलं काद्रवेयान्तको नः ॥ ३५॥ ४। परिष्कारवर्णकः । वामे वैकुण्ठशय्या फणिपतिकटको वासुकिब्रह्मसूत्रो रक्षेन्नस्तक्षकेन ग्रथितकटितटश्चारुकार्कोटहारः । पद्मं कर्णेऽपसव्ये प्रथिमवति महापद्ममन्यत्र बिभ्रत् चूडायां शङ्खपालं गुलिकमपि भुजे दक्षिणे पक्षिमल्लः ॥ ३६॥ वर्त्याभ स्वस्तिकाग्रस्फुरदरुणशिखादीप्ररत्नप्रदीपैः बध्नद्भिस्तापमन्तर्बहुलविषमषीगन्धतैलाभिपूर्णैः । नित्यं नीराजनार्थैर्निजफणफलकैर्घूर्णमानानि तूर्णं भोगैरापूरयेयुर्भुजगकुलरिपोर्भूषणानीषणां नः ॥ ३७॥ अङ्गप्रत्यङ्गलीनामृतरसविसरस्पर्शलोभादिवान्तः- त्रासाद्घ्रासानुबन्धादिव सहजमिथो वैरशङ्कोत्तरङ्गात् । रुद्रागाढोपगूढोच्छ्वसननिबिडितस्थानयोगादिवास्मद्- भद्राय स्युर्भजन्तो भगवति गरुडे गाढतां गूढपादः ॥ ३८॥ कोटीरे रत्नकोटिप्रतिफलिततया नैकधा भिन्नमूर्तिः वल्मीकस्थान् स्वयूथ्यानभित इव निजैर्वेष्टनैः क्लृप्तरक्षः । क्षेमं नः सौतु हेमाचलविधृतशरन्मेघलेखानुकारी रोचिश्चूडालचूडामणिरुरगरिपोरेष चूडाभुजङ्गः ॥ ३९॥ द्राघीयः कर्णपाशद्युति परिभवनव्रीलयेव स्वभोगं सङ्क्षिप्याश्नन् समीरं दरविनतमुखो निःश्वसन् मन्दमन्दम् । आसीदद्गण्डभित्तिप्रतिफलनमिषात् क्वापि गूढं विविक्षुः क्षिप्रं दोषान् क्षिपेन्नः खगपति कुहनाकुण्डलः कुण्डलीन्द्रः ॥ ४०॥ वालाग्रग्रन्थिबन्धग्रथितपृथुशिरोरत्नसन्दर्शनीयो मुक्ता शुभ्रोदराभो हरिमणिशकलश्रेणिदृश्येतरांशः । विष्वग्दम्भोलिधाराव्रणकिणविषमोत्तम्भनस्तब्धवृत्तिः व्यालाहारस्य हृद्यो हरतु स मदघं हारदर्वीकरेन्द्रः ॥ ४१॥ वैकक्ष्यस्रग्विशेषच्छुरणपरिणमच्छस्त्रबन्धानुबन्धो वक्षः पीठाधिरूढो भुजगदमयितुर्ब्रह्मसूत्रायमाणः । अश्रान्तस्वैरनिद्राविरचितविविधोच्छ्वासनिश्वासवेग- क्षामोच्छूनाकृतिर्नः क्षपयतु दुरितं कोऽपि कद्रूकुमारः ॥ ४२॥ श्लिष्यद्रुद्रासुकीर्तिस्तनतटघुसृणालेपसङ्क्रान्तसार- स्फारामोदाभिलाषोन्नमितपृथुफणाचक्रवालाभिरामः । प्रायः प्रेयः पटीरद्रुमविटपधिया श्लिष्टपक्षीन्द्रबाहुः व्याहन्यादस्मदीयं वृजिनभरमसौ वृन्दशो दन्दशूकः ॥ ४३॥ ग्रस्तानन्तर्निविष्टान् फणिन इव शुचा गाढमाश्लिष्य दुःख्यन् क्षुण्णानेकः स्वबन्धून् क्षुधमिव कुपितः पीडयन् वेष्टनेन । व्यालस्तार्क्ष्र्योदरस्थो विपुलगळगुहावाहि फूत्कारवात्या- पौनःपुन्येन हन्यात्पुनरुदरगुहागेहवास्तव्यतां नः ॥ ४४॥ गाढासक्तो गरुत्मत्कटितटनिकटे रक्तचण्डातकाङ्के फक्कत्काञ्चीमहिम्ना फणिमणिमहसा लोहिताङ्गो भुजङ्गः । सत्तासांसिद्धिकं नः सपदि बहुविधं कर्मबन्धं निरुन्ध्याद्- विन्ध्याद्र्यालीनसन्ध्या घनघटिततटित्कान्तचातुर्यधुर्यः ॥ ४५॥ ५। अद्भुतवर्णकः । वेगोत्तानं वितानं व्यजनमनुगुणं वैजयन्ती जयन्ती मित्रं नित्याभ्यमित्रं युधि विजयरथो युग्ययोगानपेक्षः । दासो निष्पर्युदासो दनुतनयभिदो निःसहायः सहायो दोधूयेतास्मदीयं दुरितमधरितारातिपक्षः स्वपक्षैः ॥ ४६॥ उक्षा दक्षान्तकस्य स्खलति वलजितः कुञ्जरः खञ्जरीतिः क्लान्तो धातुः शकुन्तोऽनुग इति दयया सामिरुद्धस्यदोऽपि । ग्राहग्रस्तद्विपेन्द्रक्षतिभयचकिताकुण्ठवैकुण्ठचिन्ता- नासीरोदारमूर्तिर्नरकविहतये स्याद्विहङ्गेश्वरो नः ॥ ४७॥ वेगोद्वेलः सुवेलः किमिदमिति मिथो मन्त्रतो वानरेन्द्रैः मायामानुष्यलीलामभिनयति हरौ लब्धसेवाविशेषः । वैदेहीकर्णपूरस्तबकसुरभिणा यः समाश्लेषि दोष्णा तृष्णा पारिप्लवानां स भवतु गरुडो दुःखवारिप्लवो नः ॥ ४८॥ दुग्धोदन्वत्प्रभूतः स्वकमहिमपृथुर्विष्णुना कृष्णनाम्ना पिञ्छाकल्पानुकल्पः समघटि सुदृढो यत्प्रदिष्टः किरीटः । वीरो वैरोचनास्त्रव्रणकिणगुणितोदग्रनिर्घातवातः सङ्घातं सर्वघाती स हरतु महतामस्मदत्याहितानाम् ॥ ४९॥ रुन्ध्यात्संवर्तसन्न्ध्याघनपटलकनत्पक्षविक्षेपहेला- वातूलास्फालतूलाञ्चलनिचयतुलाधेयदैतेयलोकः । आस्माकैः कर्मपाकैरभिगतमहितानीकमप्रत्यनीकैः दीव्यन् दिव्यापदानैर्दनुजविजयिनो वैजयन्ती शकुन्तः ॥ ५०॥ यत्पक्षस्था त्रिवेदी त्रिगुणजलनिधिर्लङ्घ्यते यद्गुणज्ञैः वर्गस्त्रैवर्गिकाणां गतिमिह लभते नाथवद्यत्सनाथः । त्रैकाल्योपस्थितात् स त्रियुगनिधिरघादायतात् त्रायतां नः त्रातानेकस्त्रिधाम्नस्त्रिदशरिपुचमूमोहनो वाहनेन्द्रः ॥ ५१॥ सैकां पञ्चाशतं यामतनुत विनतानन्दनं नन्दयिष्यन् कृत्वा मौलौ तदाज्ञां कविकथकघटाकेसरी वेङ्कटेशः । तामेतां शीलयन्तः शमितविषधरव्याधि दैवाधिपीडाः काङ्क्षा पौरस्त्यलाभाः कृतमितरफलैस्तार्क्ष्यकल्पा भवन्ति ॥ ५२॥ इति वेदान्तदेशिककृतं गरुडपञ्चाशत्स्तोत्रं सम्पूर्णम् ।