अक्षर आकार:

श्रीधर्मशास्तुः पञ्चरत्नम्

Shri Dharmashastu Pancharatna

श्रीधर्मशास्तुः पञ्चरत्नम्

लोकवीरं महापूज्यं सर्वरक्षाकरं विभुम् । पार्वती हृदयानन्दं शास्तारं प्रणमाम्यहम् ॥ १॥ विप्रपूज्यं विश्ववन्द्यं विष्णुशम्भोः प्रियं सुतम् । क्षिप्रप्रसादनिरतं शास्तारं प्रणमाम्यहम् ॥ २॥ मत्तमातङ्गगमनं कारुण्यामृतपूरितम् । सर्वविघ्नहरं देवं शास्तारं प्रणमाम्यहम् ॥ ३॥ अस्मत्कुलेश्वरं देवमस्मच्छत्रु विनाशनम् । अस्मदिष्टप्रदातारं शास्तारं प्रणमाम्यहम् ॥ ४॥ पाण्ड्येशवंशतिलकं केरले केलिविग्रहम् । आर्तत्राणपरं देवं शास्तारं प्रणमाम्यहम् ॥ ५॥ पञ्चरत्नाख्यमेतद्यो नित्यं शुद्धः पठेन्नरः । तस्य प्रसन्नो भगवान् शास्ता वसति मानसे ॥ ॥ इति श्री धर्मशास्तुःपञ्चरत्नं समाप्तम् ॥