अक्षर आकार:

श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रम्

shrI dharmashAstuH aShTottarashatanAmastotraM

श्रीधर्मशास्तुः अष्टोत्तरशतनामस्तोत्रम्

श्री पूर्णापुष्कलाम्बासमेत श्री हरिहरपुत्रस्वामिने नमः ॥ ध्यानम् ॥ कल्हारोज्वल नीलकुन्तलभरं कालांबुद श्यामलं कर्पूराकलिताभिराम वपुषं कान्तेन्दुबिम्बाननं । श्री दण्डाङ्कुश-पाश-शूल विलसत्पाणिं मदान्त- द्विपारूढं शत्रुविमर्दनं हृदि महा शास्तारं आद्यं भजे ॥ महाशास्ता महादेवो महादेवसुतोऽव्ययः । लोककर्ता लोकभर्ता लोकहर्तापरात्परः ॥ १ त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः । मन्त्रवेदी महावेदी मारुतो जगदीश्वरः ॥ २ लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः । सिम्हारूढो गजारूढो हयारूढो महेश्वरः ॥ ३ नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः । नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥ ४ भूतेशो भूतितो भृत्यो भुजङ्गाभरणोज्वलः । इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥ ५ मायादेवीसुतो मान्यो महनीयो महागुणः । महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥ ६ विघ्नेशो वीरभद्रेशो भैरवो षण्मुखप्रियः । मेरुश‍ृङ्गसमासीनो मुनिसंघनिषेवितः ॥ ७ वेदो भद्रो जगन्नाथो गणनाथो गणेश्वरः । महायोगी महामायी महाज्ञानी महास्थिरः ॥ ८ वेदशास्ता भूतशास्ता भीमहासपराक्रमः । नागहारो नागकेशो व्योमकेशः सनातनः ॥ ९ सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः । लोकाश्रयो गणाधीशश्चतुषष्टिकलामयः ॥ १० ऋग्यजुःसामथर्वात्मा मल्लकासुरभञ्जनः । त्रिमूर्ति दैत्यमथनः प्रकृतिः पुरुषोत्तमः ॥ ११ कालज्ञानी महाज्ञानी कामदः कमलेक्षणः । कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥ १२ संसारतापविच्छेत्ता पशुलोकभयङ्करः । रोगहन्ता प्राणदाता परगर्वविभञ्जनः ॥ १३ सर्वशास्त्रार्थ तत्वज्ञो नीतिमान् पापभञ्जनः । पुष्कलापूर्णासंयुक्तः परमात्मा सतांगतिः ॥ १४ अनन्तादित्यसङ्काशः सुब्रह्मण्यानुजो बली । भक्तानुकंपी देवेशो भगवान् भक्तवत्सलः ॥ इति श्री धर्मशास्तुः अष्टोत्तरशतनामस्तोत्रं सम्पूर्णं ॥