अक्षर आकार:

श्रीधर्मशास्ताष्टोत्तरशतनामावली

shrI dharmashAstAShTottarashatanAmAvaliH

श्रीधर्मशास्ताष्टोत्तरशतनामावली

ध्यानम् ॥ कल्हारोज्वल नीलकुन्तलभरं कालांबुद श्यामलं कर्पूराकलिताभिराम वपुषं कान्तेन्दुबिम्बाननम् । श्री दण्डाङ्कुश-पाश-शूल विलसत्पाणिं मदान्त- द्विपारूढं शत्रुविमर्दनं हृदि महा शास्तारं आद्यं भजे ॥ ॐ महाशास्त्रे नमः । ॐ महादेवाय नमः । ॐ महादेवसुताय नमः । ॐ अव्याय नमः । ॐ लोककर्त्रे नमः । ॐ लोकभर्त्रे नमः । ॐ लोकहर्त्रे नमः । ॐ परात्पराय नमः । ॐ त्रिलोकरक्षकाय नमः । ॐ धन्विने नमः । ॐ तपस्विने नमः । ॐ भूतसैनिकाय नमः । ॐ मन्त्रवेदिने नमः । ॐ महावेदिने नमः । ॐ मारुताय नमः । ॐ जगदीश्वराय नमः । ॐ लोकाध्यक्षाय नमः । ॐ अग्रण्ये नमः । ॐ श्रीमते नमः । ॐ अप्रमेयपराक्रमाय नमः । २० ॐ सिंहारूढाय नमः । ॐ गजारूढाय नमः । ॐ हयारूढाय नमः । ॐ महेश्वराय नमः । ॐ नानाशस्त्रधराय नमः । ॐ अनर्घाय नमः । ॐ नानाविद्या विशारदाय नमः । ॐ नानारूपधराय नमः । ॐ वीराय नमः । ॐ नानाप्राणिनिवेषिताय नमः । ३० ॐ भूतेशाय नमः । ॐ भूतिदाय नमः । ॐ भृत्याय नमः । ॐ भुजङ्गाभरणोज्वलाय नमः । ॐ इक्षुधन्विने नमः । ॐ पुष्पबाणाय नमः । ॐ महारूपाय नमः । ॐ महाप्रभवे नमः । ॐ मायादेवीसुताय नमः । ॐ मान्याय नमः । ४० ॐ महनीयाय नमः । ॐ महागुणाय नमः । ॐ महाशैवाय नमः । ॐ महारुद्राय नमः । ॐ वैष्णवाय नमः । ॐ विष्णुपूजकाय नमः । ॐ विघ्नेशाय नमः । ॐ वीरभद्रेशाय नमः । ॐ भैरवाय नमः । ॐ षण्मुखप्रियाय नमः । ५० ॐ मेरुश‍ृङ्गसमासीनाय नमः । ॐ मुनिसङ्घनिषेविताय नमः । ॐ देवाय नमः । ॐ भद्राय नमः । ॐ जगन्नाथाय नमः । ॐ गणनाथाय नाम्ः । ॐ गणेश्वराय नमः । ॐ महायोगिने नमः । ॐ महामायिने नमः । ॐ महाज्ञानिने नमः । ६० ॐ महास्थिराय नमः । ॐ देवशास्त्रे नमः । ॐ भूतशास्त्रे नमः । ॐ भीमहासपराक्रमाय नमः । ॐ नागहाराय नमः । ॐ नागकेशाय नमः । ॐ व्योमकेशाय नमः । ॐ सनातनाय नमः । ॐ सगुणाय नमः । ॐ निर्गुणाय नमः । ७० ॐ नित्याय नमः । ॐ नित्यतृप्ताय नमः । ॐ निराश्रयाय नमः । ॐ लोकाश्रयाय नमः । ॐ गणाधीशाय नमः । ॐ चतुःषष्टिकलामयाय नमः । ॐ ऋग्यजुःसामाथर्वात्मने नमः । ॐ मल्लकासुरभञ्जनाय नमः । ॐ त्रिमूर्तये नमः । ॐ दैत्यमथनाय नमः । ८० ॐ प्रकृतये नमः । ॐ पुरुषोत्तमाय नमः । ॐ कालज्ञानिने नमः । ॐ महाज्ञानिने नमः । ॐ कामदाय नमः । ॐ कमलेक्षणाय नमः । ॐ कल्पवृक्षाय नमः । ॐ महावृक्षाय नमः । ॐ विद्यावृक्षाय नमः । ॐ विभूतिदाय नमः । ९० ॐ संसारतापविच्छेत्रे नमः । ॐ पशुलोकभयङ्कराय नमः । ॐ रोगहन्त्रे नमः । ॐ प्राणदात्रे नमः । ॐ परगर्वविभञ्जनाय नमः । ॐ सर्वशास्त्रार्थ तत्वज्ञाय नमः । ॐ नीतिमते नमः । ॐ पापभञ्जनाय नमः । ॐ पुष्कलापूर्णासंयुक्ताय नमः । ॐ परमात्मने नमः । १०० ॐ सतांगतये नमः । ॐ अनन्तादित्यसङ्काशाय नमः । ॐ सुब्रह्मण्यानुजाय नमः । ॐ बलिने नमः । ॐ भक्तानुकंपिने नमः । ॐ देवेशाय नमः । ॐ भगवते नमः । ॐ भक्तवत्सलाय नमः ॥ १०८ इति श्री धर्मशास्ताष्टोत्तरशतनामावलिः सम्पूर्णम् ॥