अक्षर आकार:

देशिकोत्कर्षमञ्जरी

Deshikotkarshamanjari

देशिकोत्कर्षमञ्जरी

यद्वक्त्राब्जनिरीक्षणादनुपमः पापी भवेद्धार्मिको यद्वाचामृतसेचनादपि जडः स्यात्तत्त्वबोधे गुरुः । यत्सान्निध्यवलादियं वसुमती चाभूत्सतामास्पदं स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ १॥ यो बाल्ये विधिवद्विधूय कुतुकात्कर्माणि कर्मन्दिराट् भूत्वा द्राक्समतीतरन्नतजनान्संसारवारान्निधिम् । यस्यासीत्करुणा विशेषमनिशं प्राणिष्वशेषेष्विह स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ २॥ यः स्वानुग्रहकाङ्क्षया निजपदाम्भोजातयुग्मं मुदा संप्राप्तान्विविधार्तिपीडितजनान्प्रीत्याऽनुगृह्णन्स्थितः । यद्वक्त्रं नतकष्टबोधसमये शुष्कं भवेदञ्जसा स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ ३॥ भक्तिर्यस्य गुरौ नितान्तमभवद्यस्याः प्रभावात्सदा सन्तुष्टः स्वसमीपमागतवतस्तुष्टान्तरङ्गान्व्यधात् । यस्यासीच्च दृढा मतिः श्रुतिततौ तन्मार्गसंरक्षणे स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ ४॥ कीर्तिर्यस्य दिगङ्गनाप्रियसखी मूर्तिश्च हेमाकृतिः स्फूर्तिर्देवगुरुं सदोपहसतीवार्तिं नतानां जवात् । पूर्तिश्चापि दयारसस्य हरते सूक्तिः सुधास्यन्दिनी स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ ५॥ तुङ्गातीरलसत्तपोवनभुवि स्वैरं चरन्नन्वहं गङ्गावारिलसज्जटाविलसितं चित्ते मुदा भावयन् । तुङ्गानन्दविधायकः प्रणमतां श‍ृङ्गाद्रिवासप्रियः स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ ६॥ यस्यास्तिक्यमभूदशेषजनताविस्मापकं भूतले यत्कर्माचरणप्रवृत्तिरभवन्मुख्यं प्रमाणं नृणाम् । यत्क्षान्त्या वसुधा मुमोच तरसा सर्वंसहत्वप्रथां स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ ७॥ आत्मानात्मविवेचनेऽतिचतुरो मिथ्यात्वमापादय- न्द्वैतस्यात्मनि सत्यतामतिदृढं सम्पादयन् शास्त्रतः । यस्तत्त्वं मनसा विचिन्त्य नितरां लेभेऽनुभूतिं निजां स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ ८॥ शास्त्रार्थान्बहुधा विचार्य विबुधैः साकं विनेयानलं सम्बोध्य श्रुतिभिस्तदङ्गनिचयैस्तर्कैस्तदन्तर्गतैः । निश्चित्य स्वयमात्मतत्त्वमखिलांश्चक्रे सुबोधान्सुखं स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ ९॥ उत्पद्यात्मविदग्रजन्मभवने गर्भाष्टमे संस्कृतो यः पूर्वाजितपुण्यपुञ्जविभवैः संप्राप्ततुर्याश्रमः । वैराग्यादिभिरद्भुतैर्गुणगणैः श्रीशङ्करार्योऽपरः स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ १०॥ यः कल्याणपुरे विशालमतुलं निर्माप्य कञ्चिन्मठं सद्विद्याप्रचयाय तत्र विदुषः साकं महाध्येतृभिः । संस्थाप्याशनवस्त्रवासनिलयान्दत्वाऽऽत्मविद्यामपात् स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ ११॥ शुद्धाद्वैतमतप्रचारणकृते वादेन जित्वा तु यां श‍ृङ्गाद्रौ वरचक्रराजनिलयां चक्रे जगद्देशिकः । यस्तस्यै निरमापयत् दृढतरं कान्तं शिलामन्दिरं स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ १२॥ यः श्रीशङ्करदेशिकेन्द्रजननस्थानं विदित्वा चिरात् कृत्वा चात्मवशं मुदा धनचयैर्निर्माप्य सन्मन्दिरम् । तत्र स्थापयतिस्म शङ्करगुरोर्देव्याश्च मूर्तिं गिरां स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ १३॥ सत्यं वाचि दया नतेषु पटुता धर्माध्वसंरक्षणे सौजन्यं सुजने भृशं विमुखता दुष्टेषु यस्याभवत् । रक्तिर्ब्रह्मणि निन्दितेषु विषयेष्वासीद्विरक्तिर्दृढा स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ १४॥ यस्यासीत् दृढभावना पथि कृतास्वेधोमृदश्मादिभि- र्देवानां प्रतिमासु दृष्टिविषयं यातास्वकस्मादपि । पूजास्तोत्रजपादिकर्मसु दृढा तादात्म्यधीरञ्जसा स स्वामी मम देशिकस्तदितरो नाम्नाऽपि नाम्नायते ॥ १४॥ पापौघं ध्वंसयित्वा बहुजनिरचितं किं च पुण्यालिमारा- त्सम्पाद्यास्तिक्यबुद्धिं श्रुतिगुरुवचनेष्वादरं भक्तिदार्ढ्यम् । देवाचार्यद्विजातिष्वपि मनुनिवहे तावकीने नितान्तं विद्यां शुद्धां च बुद्धिं कमलजदयिते सत्वरं देहि मह्यम् ॥ १५॥ इति श्रीजगद्रुरु श्रीश‍ृङ्गेरीपीठाधिप श्रीचन्द्रशेखरभारती श्रीपादैः विरचिता श्रीदेशिकोत्कर्षमञ्जरी समाप्ता ।