अक्षर आकार:

श्रीदयानन्ददशकम्

Shri Dayananda Dashakam

श्रीदयानन्ददशकम्

A floral offering at the ADHISHTANAM of Pujya Swamiji in Rishikesh ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ श्रीदयानन्ददशकम् । परमाद्वैततत्त्वज्ञं ज्ञानानन्दप्रकाशनम् । गीतोपनिषदासारं दयानन्दं नमाम्यहम् ॥ १॥ लघुप्रवाहतत्त्वार्थं श्रोत्रानन्दश्रुतिस्रवम् । घनस्वनप्रसत्तिं च वन्देहं तं दयार्णवम् ॥ २॥ स्पष्टवागर्थसद्बोधं वागर्थयुक्तजीवनम् । सत्त्वगुण्यप्रकाशं तं भजेहं भक्तिपूरणम् ॥ ३॥ श्लोकसङ्गीतसामोदं श्लोकितापारसद्गुणम् । शोकापोहनसुज्ञानं वन्देहं गीतकारकम् ॥ ४॥ योगसारोपदेशं च ज्ञानयोगोपदेशकम् । रागद्वेषविवर्जं तं वन्देहं तत्त्वबोधकम् ॥ ५॥ अद्वैततत्त्ववाक्यार्थं अद्वितीयसुबोधनम् । अद्वितीयैकसानन्दं तं वन्दे सत्यदर्शनम् ॥ ६॥ ब्रह्मज्ञानप्रकाशं च ब्रह्मैक्यतत्त्वबोधनम् । ब्रह्मानन्दप्रसादं तं वन्देहं सत्त्वभाषिणम् ॥ ७॥ तर्कशास्त्रप्रवीणं च तत्वव्याख्यातृतल्लजम् । दयानन्दगुरुं वन्दे दयानन्दसुरूपकम् ॥ ८॥ दशमस्कन्दनाथोपदेशप्रमाणजीवनम् । दशश्लोकनुतिप्रीतं तं वन्दे श्लोकसन्निधिम् ॥ ९॥ गङ्गाक्षेत्रसमाधिं तं गङ्गादर्शनविग्रहम् । गङ्गालयमहापुण्यं दयानन्दं नमाम्यहम् ॥ १०॥ त्यागब्रह्मगुरुस्वामिशिष्यापुष्पाकृतार्पणम् । दयानन्दगुरुस्तोत्रं परमार्थं शुभप्रदम् ॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीदयानन्ददशकं गुरौ समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan