अक्षर आकार:

श्रीदयानन्दाष्टकम्

Shri Dayananda Ashtakam

श्रीदयानन्दाष्टकम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ श्रीदयानन्दाष्टकम् । सरस्वतीकृपापात्रं दयानन्दसरस्वतीम् । यतिश्रेष्ठगुरुं वन्दे दयार्द्राक्षं स्मिताननम् ॥ १॥ वेदान्तसारसद्बोधं लोकसेवनसुव्रतम् । दयानन्दगुरुं वन्दे दयार्द्राक्षकृपाकरम् ॥ २॥ गीतासारोपदेशं च गीतसत्कविताप्रियम् । दयानन्दगुरुं वन्दे दयाङ्कितसुभाषितम् ॥ ३॥ अद्वैतबोधकं वन्दे विशिष्टाद्वैतबोधकम् । दयानन्दगुरुं वन्दे दयार्द्राननसान्त्वनम् ॥ ४॥ दयाकूटं तपस्कूटं विद्याकूटविराजकम् । दयानन्दगुरुं वन्दे दयादिसुगुणाश्रयम् ॥ ५॥ गङ्गातीरप्रबोधं च गङ्गापारतपस्स्थलम् । दयानन्दगुरुं वन्दे दयागङ्गास्रवास्रवम् ॥ ६॥ परमार्थगुरुं वन्दे तत्त्वबोधनतल्लजम् । श्रीदयानन्दशिष्यार्यं शान्तसत्त्वगुणास्पदम् ॥ ७॥ भारतश्रेष्ठरत्नं च सर्वलोकसुकीर्तितम् । दयानन्दगुरुं वन्दे अष्टकश्लोककीर्तितम् ॥ ८॥ गीतस्तोत्रप्रमोदाय ज्ञानाचार्याय मङ्गलम् । वेदशास्त्रप्रवीणाय दयानन्दाय मङ्गलम् ॥ त्यागराजगुरुस्वामिशिष्यापुष्पाभिलेखनम् । दयानन्दगुरुस्तोत्रं पठनीयं शुभप्रदम् ॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीदयानन्दाष्टकं गुरौ समर्पितम् । ॐ शुभमस्तु । Footnote Verse 4 विशिष्टाद्वैतबोधकम् The distinguished teacher of Advaita Copyright Pushpa Srivatsan