अक्षर आकार:

श्रीदत्तात्रेय योग शास्त्र

shrIDattatreya Yogashastra

श्रीदत्तात्रेय योग शास्त्र

नृसिंहरूपिणे चिदात्मने सुखस्वरूपिणे । पदैः त्रिभिः तदादिभिः निरूपिताय वै नमः ॥ १॥ सांकृतिः मुनिवर्यो असौ भूतये योगलिप्सया । भुवं सर्वां परिभ्रान्यन्नैमिषारण्यमाप्तवान् ॥ २॥ सुगन्धिनानाकुसुमैः स्वादुसत्फलसंयुतैः । शाखिभिः सहितं पुण्यं जलकासारमण्डितम् ॥ ३॥ सः मुनिः विचरस्तत्र ददर्शाम्रतरोः अधः । वेदिकायां समासीनं दत्तात्रेयं महामुनिम् ॥ ४॥ बद्धपद्मासनासीनं नासाग्रार्पितया दृशा । ऊरुमध्यगतोत्तानपाणियुग्मेन शोभितम् ॥ ५॥ ततः प्रणम्याखिलं दत्तात्रेयं महामुनिम् । तत् शिष्यैः सह तत्रैव सम्मुखश्चोपविष्टवान् ॥ ६॥ तदैव सः मुनिः योगात् विरम्य स्वपुरः स्थितम् । उवाच सांकृतिं प्रितिपूर्वकं स्वागतं वचः ॥ ७॥ सांकृते कथय त्वं मां किमुद्दिश्येहागतः । इति पृष्टस्तु सः प्राह योगं ज्ञातुमिहागतः ॥ ८॥ योगो हि बहुधा ब्रह्मन्तत्सर्वं कतयामि ते । मन्त्रयोगो लयश्चैव हठयोगस्तथैव च । रजयोगश्चतुर्थः स्यात्योगानामुत्तमस्तु सः ॥ ९॥ आरम्भश्च घटश्चैव तथा परिचयः स्मृतः । निष्पत्तिश्चेत्यवस्था च चतुर्थी परिकल्पिता । एतेषां विस्तरं वक्ष्ये यदि त्वं श्रोतुमिच्छसि ॥ १०॥ अङ्गेषु मातृका पूर्वं मन्त्रं जपन् सुधीः । य कचनाभिसिद्धयै स्यात् मन्त्रयोगः स कथ्यते ॥ ११॥ मृदुः तस्याधिकारी स्याद्द्वादशाब्दैः तु साधनात् । प्रायेण लभते ज्ञानं सिद्धिश्चैवाणिमादिकाः ॥ १२॥ अल्पबुद्धिः इमं योगं सेवते साधकाधमः । मन्त्रयोगो ह्ययं प्रोक्तो योगानामधमस्तु सः ॥ १३॥ लययोगश्चित्तलयः संकेतैः तु प्रजायते । आदिनाथेन संकेता अष्टकोटि प्रकीर्त्तिताः ॥ १४॥ सांकृतिरुवाच -- भगवन्नादिनाथः सः किं रूपः कः सः उच्यताम् । दत्तात्रेय उवाच -- महादेवस्य नामान्यादिनाथादिकान्यपि । शिवेश्वरश्च देवोऽसौ लीलया व्यचरत्प्रभुः ॥ १५॥ श्रीकण्ठपर्वते गौर्या सह प्रमथनायकान् । हिमाक्षपर्वते चैवकदलीवनगोचरे ॥ १६॥ गिरिकूटे चित्रकूटे सुपादपयुते गिरौ । कृपयैकैकसंकेतं शंकरः प्राह तत्र तान् ॥ १७॥ तानि सर्वाणि वक्तुं तु न हि शक्नोमि विस्तरात् । कानिचित्कथयिष्यामि सहजाभ्यासवत्सुखम् ॥ १८॥ तिष्ठन् गच्छन्स्वपन्भुञ्जन्ध्यायन्शून्यमहर्निशम् । अयमेको हि संकेतः आदिनाथेन भाषितः ॥ १९॥ नासाग्रदृष्टिमात्रेण ह्यपरः परिकीर्तितः । शिरस्पश्चाच्च भागस्य ध्यानं मृत्युं जयेत् परम् ॥ २०॥ भ्रूमध्यदृष्टिमात्रेण परः संकेतः उच्यते । ललाते भ्रूतले यश्चोत्तमः सः प्रकीत्तितः ॥ २१॥ सव्यदक्षिणपादस्याङ्गुष्टे लयमुत्तमम् । उत्तानशववत्भूमौ शयनं चोक्तमुतमम् ॥ २२॥ शिथिलो निर्जने देशे कुर्याच्चेत्सिद्धिमाप्नुयात् । एवं च बहु संकेतान् कथयामास शङ्करः ॥ २३॥ संकेतैः बहुभिश्चान्यैः यस्य चित्तलयो भवेत् । स एव लययोगः स्यात् कर्मयोगं ततः श‍ृणुः ॥ २४॥ यमश्च नियमश्चैवासनं च ततः परम् । प्राणायामश्चतुथः स्यात् प्रत्याहारस्तु पञ्चमः । ततस्तु धारणा प्रोक्ता ध्यानं सप्तममुच्यते ॥ २५॥ समाधिः अष्टमः प्रोक्तः सर्वपुण्यप्रदः । एवमष्टाङ्गयोगं च याज्ञवल्क्यादयो विदुः ॥ २६॥ कपिलाद्यास्तु शिष्याश्च हठं कुयुस्ततो यथा । तद्यथा च महामुद्रा महाबन्धस्तथैव च ॥ २७॥ ततः स्यात्खेचरीमुद्र बन्धो जालन्धरः तथा । उड्डियाणं मूलबन्धो विपरीतकरणी तथा ॥ २८॥ वज्रोलिः अमरोलिश्च सहजोलिस्त्रिधा मता । एतेषां लक्षणं वक्ष्ये कर्त्ताव्यं च विशेषतः ॥ २९॥ यमाः ये दशः सम्प्रोक्ताः ऋषिभिः तत्त्वदर्शिभिः । लघ्वाहारस्तु तेष्वेको मुख्यो भवति नापरे । अहिंसा नियमेष्वेका मुख्या भवति नापरे ॥ ३०॥ चतुरशीतिलक्षेष्वासनेष्वुत्तमं श‍ृणु । आदिनाथेन सम्प्रोक्तं यदासनमिहोच्यते ॥ ३१॥ उत्तानौ चरणौ कृत्वोरूसंस्थौ प्रयलतः । उरू मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥ ३२॥ नासाग्रे विन्यसेद्राजद्दन्तमूलं च जिह्वया । उत्तभ्य चिबुकं वक्षः संस्थाप्य पवनं शनैः ॥ ३३॥ यथाशक्ति समाकृष्य पूरयेदुदरं शनैः । यथाशक्त्येव पश्चात्तु रेचयेत्पवनं शनैः ॥ ३४॥ इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धिमता लभ्यते भुवि ॥ ३५॥ सांस्कृते श‍ृणु सत्त्वस्थो योगाभ्यासक्रमं यथा । वक्ष्यमाणं प्रयत्नेन योगिनां सर्वलक्षणैः ॥ ३६॥ युव अवस्थोऽपि वृद्धो वा व्याधितो वा शनैः शनैः । अभ्यासात्सिद्धिमाप्नोति योगे सर्वोऽप्यतन्द्रितः ॥ ३७॥ ब्राह्मणः श्रमणो वा बौद्धो वाप्यार्हतोऽथवा । कापालिको वा चार्वाकः श्रद्धया सहितः सुधीः । योगाभ्यासोऽतो नित्यं सर्वसिद्धिमवाप्नुयात् ॥ ३८॥ क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्रपाठमात्रेण काचित्सिद्धिः प्रजायते ॥ ३९॥ मुण्डितो दण्डधारी वा काषायवसनोऽपि वा । नारायणवदो वापि जटिलो मस्मलेपनः ॥ ४०॥ नमः शिवायवाची वा बाह्यार्चा पूजकोऽपि वा । द्वादशस्थानपूजो वा बह्यवत्सलभाषितम् । क्रियाहीनोऽथवा कूरः कथं सिद्धिमवाप्नुयात् ॥ ४१॥ न वेषधारणं सिद्धेः कारणं न च तत्तथा । कृपैव कारणं सिद्धेः सत्यमेव तु सांकृते ॥ ४२॥ शिश्नोदरार्थं योगस्य कथया वेषधारिणः । अनुष्ठानविहीनाः तु वङ्चयन्ति जनान् किल ॥ ४३॥ उच्चावचैः विप्रलंभैः यतन्ते कुशलाः नराः । योगिनो वयमित्येवं मूढाः भोगपरायणाः ॥ ४४॥ शनैर्तथाविधान् ज्ञात्वा योगाभ्यासविवर्जिताम् । कृतार्थान्वचनैरेव वर्जयेद्वेषधारिणः ॥ ४५॥ एते तु विघ्नभूत्तास्ते योगाभ्यासस्य सर्वदा । वर्जयेत्तान् प्रयत्नेनेदृशी सिद्ध्दा क्रिया ॥ ४६॥ प्रथमाभ्यासकाले तु प्रवेशस्तु महामुने । आलस्यं प्रथमे विघ्नः द्वितीयस्तु प्रकत्थनम् । पूर्वोक्तधूर्त्तगोष्ठी च तृतीयो मन्त्रसाधनम् ॥ ४७॥ चतुर्थो धातुवादः स्यात्पङ्चमः खाद्यवादकम् । एवं च बहवो दृष्टाः मृगतृष्णाः समाः मुनेः ॥ ४८॥ स्थिरासनस्य जायन्ते तां तु ज्ञात्वा सुधीः त्यजेत् । प्राणायामं ततस्कुर्यात्पद्मासनगतः स्वयम् ॥ ४९॥ सुशोभनं मठं कुर्यात्सूक्ष्मद्वारं तु निर्घुणम् । सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः ॥ ५०॥ मत्कुणैः मशकैः भूतैः वर्जितं च प्रयत्नतः । दिने दिने सुसम्मृष्टं सम्मार्जन्या ह्यतन्द्रितः । वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः ॥ ५१॥ मलमूत्रादिभिः वर्गैऋअष्टादशभिरेव च । वर्जितं द्वारसम्पन्नम् ॥। ॥ ५२॥ ॥। वस्त्रं वाजिनमेव वा । नान्यत्रस्तरणासीनः परसंसर्गवर्जितः ॥ ५३॥ तस्मिन् स तु समास्तीर्यासनं विस्तृतांशकम् । तत्रोपविश्य मेधावी पद्मासनमन्वितः ॥ ५४॥ समकायःप्राञ्जलिश्च प्रणम्य स्वेष्टदेवताम् । ततो दक्षिणहस्तस्याङ्गुष्ठेनैव पिङ्गलाम् ॥ ५५॥ निरुध्य पूरयेद्वायुमिड्या च शनैः शनैः । यथाशक्तिनिरोधेन ततस्कुर्यात्तु कुम्भकम् ॥ ५६॥ ततस्त्यजेत्पिङ्गलया शनैः पवनवेगतः । पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः । यथा त्यजेत्तथा तेन पूरयेदनिरोधतः ॥ ५७॥ एवं प्रातः समासीनस्कुर्याद्विंशतिकुम्भकान् । कुम्भकः सहितो नाम सर्वग्रहविवर्जितः ॥ ५८॥ एवं मध्याह्नसमये कुर्यात् विंशतिकुम्भकान् । एवं सायं प्रकुर्वीत पुनः विंशतिकुम्भकान् । एवमेवार्धरात्रे अपि कुर्यात् विंशतिकुम्भकान् ॥ ५९॥ कुर्वीत रेचपूराभ्यां सहितान् प्रतिवासरम् । सहितो रेचपूराभ्यां तस्मात्सहितकुम्भकः ॥ ६०॥ कुर्यादेवं चतुर्वारमनालस्यो दिने दिने । एवं मासत्रयं कुर्यान्नाडीशुद्धिस्ततो भवेत् ॥ ६१॥ यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः । जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः ॥ ६२॥ शरीरलघुता दीप्तिः जठराग्निविवर्धनम् । कृशत्वं च शरीरस्य तदा जायेत्तु निश्वतम् ॥ ६३॥ तदा वर्ज्यानि वक्ष्यामि योगविघ्नकराणि तु । लवणं सर्षपं चाम्लमुष्णं रूक्षं च तीक्ष्णकम् ॥ ६४॥ अतीव भोजनम् त्याज्यं स्त्रीसङ्गमनमेव च । अग्निसेवा तु सन्त्याज्या धूर्त्तगोष्टिश्च सन्त्यजेत् ॥ ६५॥ उपायं च प्रवक्ष्यामि क्षिप्रं योगस्य सिद्धये । घृतं क्षीरं च मिष्ठान्नं मिताहरश्च शस्यते ॥ ६६॥ पूर्वोक्तकाले कुर्वीत पवनाभ्यासमेव च । ततः परं यथेष्टं तु शक्तिः स्याद्वायुधारणे । यथेष्टं धारणाद्वायोः सिद्धेत्केवलकुम्भकम् ॥ ६७॥ केवले कुम्भके सिद्धे रेचपूरकवर्जिते । न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते ॥ ६८॥ प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् । ततोऽप्तिधारणाद्वायोः क्रमेणैव शनैः शनैः ॥ ६९॥ कम्पो भवति देहस्यासनस्थस्य देहिनः । ततोऽधिरतराभ्यासाद्दर्दुरी जायते ध्रुवम् ॥ ७०॥ यथा तु दर्दुरो गच्छेदुत्प्लुत्योत्प्लुत्य भूतले । पद्मासनस्थितो योगी तथा गच्छति भूतले ॥ ७१॥ ततोऽधिकतराभ्यासाद्भूमित्यगश्च जायते । पद्मासनस्थ एवासौ भूमिमुत्सृज्य वर्त्तते ॥ ७२॥ निराधारोऽपि चित्रं हि तदा सामर्थ्यमुद्भवेत् । स्वल्पं वा बहु वा भुक्त्वा योगी न व्यथते तदा ॥ ७३॥ अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते । क्रिमयो दूषिका लाला स्वेदो दुर्गन्धिता तनोः । एतानि सर्वदा तस्य न जायन्ते ततः परम् ॥ ७४॥ ततोऽधिकतराभासाद्बलमुत्पद्यते भृशम् । येन भूचरसिद्धिः स्याद्भूचराणां जये क्षमः ॥ ७५॥ व्याघ्रो लुलायो वन्यो वा गवयो गज एव वा । सिंहो वा योगिना तेन म्रियन्ते हस्तताडनात् । कन्दर्पस्य यथारूपं तथा तस्यापि योगिनः ॥ ७६॥ तस्मिन् काले महाविघ्नो योगिनः स्यात्प्रमादतः । तद्रूपवशगाः नार्यः कङ्क्षन्ते तस्य सङ्गमम् ॥ ७७॥ यदि सङ्गं करोत्येष बिन्दुस्तस्य विनश्यति । आयुः क्षयो बिन्दुनाशादसामर्थ्यं च जायते ॥ ७८॥ तस्मात्सर्वप्रयत्नेन बिन्दुराक्ष्यो हि योगिना । ततो रहस्युपाविष्टः प्रणवं प्लुतमात्रया ॥ ७९॥ जपेत्पूर्वाः जितानां च पापानां च नाशहेतवे । सर्वविघ्नहरश्चायं प्रणवः सर्वदोषहा ॥ ८०॥ एवमभ्यासयोगेन सिद्धिः आरम्भसम्भवा । ततो भवेद्घटावस्था पवनाभ्यासिनः सदा ॥ ८१॥ प्राणापानौ मनोवयू जीवत्मपरमात्मनौ । अन्योन्यस्याविरोधेनैकतां घटतो कानिचित् ॥ ८२॥ तदा घटाद्वयावस्था प्रसिद्ध योगिनां स्मृता । ततश्चिह्नानि यानि स्युः तानि वक्ष्यामि कानिचित् ॥ ८३॥ पूर्वं यः कथितोऽभ्यासश्चतुर्धा तं परित्यजेत् । दिवा वा यदि वा रात्रौ याममात्रं समभ्यसेत् ॥ ८४॥ एकबारं प्रतिदिनं कुर्यात्केवलकुम्भकम् । प्रत्याहारो हि एवं स्यादेवं कर्तुः हि योगिनः ॥ ८५॥ इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरति स्फुटम् । योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते ॥ ८६॥ यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मनि भावयेत् । यद्यज्जिघ्रति नासाभ्यां तत्तदात्मनि भावयेत् ॥ ८७॥ एवं ज्ञानेन्द्रियाणां हि तत्संख्या सन्धरयेत् । याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः ॥ ८८॥ तदा विचित्रसामर्थ्यं योगिनां जायते ध्रुवम् । दूरश्रुतिः दूरदृष्टिः क्षणाद्दूरगमस्तथा ॥ ८९॥ वाक्सिद्धिः कामचारित्वमदृश्यकरणं तथा । मलमूत्रप्रलेपेन लोहादीनां सुवर्णता । खेचरत्वं तथान्यत्तु सतताभ्यासयोगिनः ॥ ९०॥ तदा बुद्धिमता भाव्य योगिना योगसिद्धये । एते विहताः महासिद्धेः न रमेत्तेषु बुद्धिमान् ॥ ९१॥ न दर्शयेच्च कस्मैचित्स्वसामर्थ्य हि सर्वदा । कदाचिद्दशयेत्प्रीत्या भक्तियुक्ताय वा पुनः ॥ ९२॥ यथा मूर्खो यथा मूढो यथा बधिर एव वा । तथा वर्तेत लोकेषु स्वसामर्थ्यस्य गुप्तये ॥ ९३॥ नोचेच्छिष्याः हि बहवो भवन्ति स्व न संशयः । तत्कर्मकरणव्यग्रः स्वाभ्यासे विस्मृतो भवेत् । अभ्यासेन विहीनस्तु ततो लौकिकतां व्रजेत् ॥ ९४॥ अविस्मृत्य गुरोः वक्यमभ्यसेत्तदहर्निशम् । एवं भवेद्घटावस्था सदाभ्यासस्य योगिनः ॥ ९५॥ अनभ्यासेन योगस्य वृथा गोष्ठ्या न सिध्यति । तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत् ॥ ९६॥ ततः परिचयावस्था जयते अभ्यासयोगतः । वायुः सम्प्रेरितो यत्नादग्निना सह कुण्डलीम् ॥ ९७॥ बोधयित्वा सुषुम्नायां प्रविशेदविरोधतः । वायुना सह चित्तं तु प्रविशेच्च महापथम् ॥ ९८॥ महापथं श्मशानं च सुषुम्नापि वेत्यसौ । यस्य चित्तं सपवनं सुषुम्नां प्रविशेदिह ॥ ९९॥ भाव्यानर्थान् सः विज्ञाय योगि रहसि यत्नतः । पञ्चधा धारण कुर्यात्तत्तद्भूतभयाफहम् ॥ १००॥ पृथिवी धारणं वक्ष्ये पार्थिवेभ्य्प् भयापहम् । नाभेः अधः गुदस्योध्वं घटिकाः पञ्च धारयेत् ॥ १०१॥ वायुं भवेत् ततो पृथ्वीधारणं तद्भयापहम् । पृथिवी सम्भवः तस्य न मृत्युः योगिनो भवेत् ॥ १०२॥ नाभिस्थाने ततो वायुं धारयेत् पञ्च नाडिकाः । ततो जलाद्भयं नास्ति जलमृत्युः न योगिनः ॥ १०३॥ नाभ्युर्ध्वमण्डले वायुं धारयेत्पञ्च नाडिकाः । अग्नेयधारणा सेयं न मृत्युः तस्य वह्निना ॥ १०४॥ सदा विचित्रसामर्थ्यं योगिनो जायते ध्रुवम् । न दह्यते शरीरं च प्रक्षिप्तो वह्नि कुण्डके ॥ १०५॥ नाभिभ्रुवोः हि मध्ये तु प्रदेशत्रयसंयुते । धारयेत् पञ्च घटिकाः वायुं साइषा हि वायवी । धारणान्न तु वायोस्तु योगिनो हि भयं भवेत् ॥ १०६॥ भ्रूमध्यादुपरिष्टात्तु धारयेत् पञ्च नाडिकाः । वायुं योऽसौ प्रयत्नेन सेयमाकाशधारणा ॥ १०७॥ आकाशधारणां कुर्वन्मृत्युं जयति तत्त्वतः । यत्र तत्र स्थितो वापिसुखमत्यन्तमश्नुते ॥ १०८॥ एवं च धारणाः पञ्च कुर्याद्योगी विचक्षणः । ततो दृढशरीरः स्यन्मृत्युर्तस्य न विद्यते ॥ १०९॥ इत्येवं पञ्चभूतानां धारणां यः समभ्यसेत् । ब्रह्मणः प्रलये वापि मृत्युः तस्य न विद्यते ॥ ११०॥ समभ्यसेत्तदा ध्यानं घटिकाः षष्टिमेव च । वायुं निरुध्य ध्यायेत्तु देवतामिष्टदायिनीम् ॥ १११॥ सगुणध्यानमेवं स्यादणिमादिगुणप्रदम् । निर्गुणं खमिव ध्यात्वा मोक्षमार्गं प्रपद्यते ॥ ११२॥ निर्गुणध्यानसम्पन्नः समाधिं च ततोऽभ्यसेत् । दिनद्वादशकेनैव समाधिं समवाप्नुयात् ॥ ११३॥ वायुं निरुध्य मेधवी जीवन्मुक्तो भवेद्ध्रुवम् । समाधिः समतावस्था जीवात्मपरमात्मनोः ॥ ११४॥ यदि स्याद्देहमुत्स्रष्टुमिच्छा चेदुत्सृजेत्स्वयम् । परब्रह्मणि लीयेत्त्यक्त्वा कर्मशुभाशुभम् ॥ ११५॥ अथ चेन्नो समुत्स्रष्टुं स्वशरीरं यदि प्रिअयम् । सर्व लोकेषु विचरेदणिमादिगुणान्वितः ॥ ११६॥ कदाचित्स्वेच्छया देवो भूत्वा स्वर्गयपि संचरेत् । मनुष्यो वापि यक्षो वा स्वेच्छया हि क्षणाद्भवेत् ॥ ११७॥ सिंहो व्याघ्रो गजो वा स्यादिच्छया जन्तुतां व्रजेत् । यथेष्टमेव वर्त्तेत योगी विद्वान्महेश्वरः ॥ ११८॥ कविमार्गोऽयमुक्तः ते सांकृते अष्टाङ्गयोगतः । सिद्धानां कपिलादीनां मतं वक्ष्ये ततः परम् ॥ ११९॥ अभासभेदतो भेदः फल तु सममेव हि । महामुद्रां प्रवक्ष्यामि भैरवेणोक्तमादरात् ॥ १२०॥ पार्ष्णिवामस्य पादस्य योनिस्थाने नियोजयेत् । प्रसार्य दक्षिणं पादं हस्ताभ्यां धारयेद्दृढम् ॥ १२१॥ चिबुकं हृदि विन्यस्य पूरयेत् वायुना पुनः । कुम्भकेन यथाशक्त्या धारयित्वा तु रेचयेत् । वामाङ्गेन समभ्यस्य दक्षिणाङ्गेन चाभ्यसेत् ॥ १२२॥ प्रसारितस्तु यः पादस्तमुरूपरि विन्यसेत् । अयमेव महाबन्धो मुद्रावच्चामुमभ्यसेत् ॥ १२३॥ महाबन्धस्थितो योगी स्फिचौ सन्ताडयेच्छनैः । अयमेव महाबन्धः सिद्धैः अभ्यस्यते नरैः ॥ १२४॥ अन्तः कपालकुहरे जिह्वां व्यावर्त्य बन्धयेत् । भ्रूमध्ये दृष्टिः अप्येषा मुद्रा भवति खेचरी ॥ १२५॥ कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढमिच्छया । जलन्धरो बन्ध एष अमृतद्रवपालकः ॥ १२६॥ नाभिस्थोऽग्निः कपालस्थसहस्रकमलच्युतम् । अमृतं सर्वदा तावदन्तर्ज्वलति देहिनाम् ॥ १२७॥ यथा चाग्निस्तदमृतं न पिबेत्तु पिबेत्स्वयम् । याति पश्चिममार्गेणैवमभ्यासतः सदा । अमृतं कुरुते देहं जलन्धरमतोऽभ्यसेत् ॥ १२८॥ उड्याणं तु सहजं गुणौघात्कथितं सदा । अभ्यसेदस्ततन्द्रस्तु वृद्धोऽपि तरुणो भवेत् ॥ १२९॥ नाभेः ऊर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः । षण्मासमभ्यसेन्मृत्युं जयेदेव न संशयः ॥ १३०॥ मूलबन्धं तु यो नित्यमभ्यसेत्स च योगवित् । गुदे पार्ष्णिं तु सम्पीड्य वायुमाकुञ्चयेद्बलात् । वारं वारं यथा चोर्ध्वं समायाति समीरणः ॥ १३१॥ प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् । गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः ॥ १३२॥ करणं विपरिताख्यं सर्वव्याधिविनाशनम् । नित्यमभ्यासयुक्तस्य जठराग्निः विवर्द्धते ॥ १३३॥ आहारो बहुलः तस्य सम्पाद्यः सांकृते ध्रुवम् । अल्पाहारो यदि भवेदग्निः दाहं करोति वै । ऊर्ध्वं भानुरधश्चन्द्रस्तद्यथा श‍ृणु सांकृते ॥ १३४॥ अधः शिरश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने । क्षणात्तु किंचिदधिकमभ्यसेन दिने दिने ॥ १३५॥ वलिश्च पलितश्चैव षण्मासोर्ध्वं न दृश्यते । याममात्रं तु यो नित्यमभ्यसेत्स तु ओगवित् ॥ १३६॥ वज्रोलिं कथयिष्यामि गोपितं सर्वयोगिभिः । अतीवैतद्रहस्यं तु न देयं यस्य कस्यचित् । स्वप्राणैस्तु समो यो स्यात्तसमै च कथयेद्ध्रुवम् ॥ १३७॥ स्वेच्छया वर्त्तमानोऽपि योगोक्तनियमैः विना । वज्रोलिं यो विजानति स योगी सिद्धिभाजनः ॥ १३८॥ तत्र वस्तु द्वयं वक्ष्ये दुर्लभं येन केनचित् । लभ्यते यदि तस्यैव योगसिद्धिकरं स्मृतम् ॥ १३९॥ क्षीरमाङ्गिरसं चेति द्वयोराद्यं तु लभते । द्वितीयं दुर्लभं पुंसां स्त्रीभ्यः साध्यमुपायतः । योगाभ्यासरता स्त्री च पुंसा यत्नेन साधयेत् ॥ १४०॥ पुमान् स्त्री वा यदन्योन्यं स्त्रीपुंस्त्वानपेक्षया । स्वप्रयोजनमात्रैकसाधनात्सिद्धिमाप्नुयात् ॥ १४१॥ चलितो यदि बिन्दुः तमुर्ध्वमाकृष्य रक्षयेत् । एवं च रक्षितो बिन्दुः मृतुं जयति तत्त्वतः ॥ १४२॥ मरणं बिन्दुपातेन जीवनं बिन्दुधारणत् । बिन्दुरक्षाप्रसादेन सर्वं सिध्यति योगिनः ॥ १४३॥ अमरोलिस्तद्यथा स्यात्सहजोलिस्ततो यथा । तदभ्यासक्रमः शस्यः सिद्धानां सम्प्रदायतः ॥ १४४॥ एतैः सैः वैस्तु कथितैरभ्यसेत् काललालतः । ततो भवेद्राजयोगो नान्तरा भवति ध्रुवम् । न दिङ्मात्रेण सिद्धिः स्यादभ्यसेनैव जायते ॥ १४५॥ राजयोगं वरं प्राण्य सर्वसत्त्ववशंकरम् । सर्वं कुर्यान्नवा कुर्याद्यथारुचिविचोष्टितम् ॥ १४६॥ यथान्तरा च योगेन निष्पन्ना योगिनः क्रिया । यथावस्था हि निष्पत्तिर्भुक्तिमुक्तिफलप्रदा ॥ १४७॥ सर्वं ते कथितं ब्रह्मन् सांस्कृते योगमाचर । इति तस्य वचः श्रुत्वा सांस्कृतिः योगमाप्तवान् । सर्वासिद्धीरवाप्यासौ दत्तात्रेयप्रसादतः ॥ १४८॥ य इदं पठते नित्यं साधुभ्यः श्रावयेदपि । तस्य योगः क्रमेणैव सिध्यत्येव न संशयः ॥ १४९॥ योगिनोऽभ्यासयुक्ताः ये ह्यरण्येषु गृहेषु वा । बहुकालं रमन्ते स्म बहुकालविवर्जिताः ॥ १५०॥ तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत् । योगाभ्यासो जन्मफलं विफला हि तथा क्रिया ॥ १५१॥ महामायाप्रसादेन सर्वेषामस्तु तत्सुखम् । एतत्सर्वं यथायुक्तं तामेवाराधयेत्ततः ॥ १५२॥ यः संस्मृत्या मुनीनामपि दुरितहरो योगसिद्धिप्रदश्च । कारूण्याद्यः प्रवक्ता सुखदुःखसुहृद्योगशास्त्रस्य नाथः ॥ १५३॥ तस्याहं भक्तिशुन्योऽप्यखिलजनगुरोः भक्तिचिन्तामणेः हि । दत्तत्रेयस्य विष्णोः पदनलिनयुगं नित्यमेव प्रपद्ये ॥ १५४॥