अक्षर आकार:

दत्तवेदपादस्तुतिः

dattavedapAdastutiH

दत्तवेदपादस्तुतिः

श्रीदत्तात्रेयाय नमः ॥ अग्निमीले परं देवं यज्ञस्य त्वां त्र्यधीश्वरम् । स्तोमोऽयमग्रियोऽर्थ्यस्ते हृदिस्पृगस्तु शन्तमः ॥ १॥ अयं देवाय दूराय गिरां स्वाध्याय सात्वताम् । स्तोमोऽस्त्वनेन विन्देयं तद्विष्णोः परमं पदम् ॥ २॥ एता या लौकिकाः सन्तु हीना वाचोऽपि नः प्रियाः । बालस्येव पितुष्टे त्वं स नो मृल महाँअसि ॥ ३॥ अयं वां नात्मनोस्तत्त्वमवगम्यास्ति दुर्मनाः । हृद्रोगं मम सूर्य त्वं हरिमाणं च नाशय ॥ ४॥ प्रमन्महेऽस्मान्विद्धीति स्तोतारस्ते वयं नमः । भगवो देव ते स्तोममारे अस्मै च श‍ृण्वते ॥ ५॥ इन्द्रो मदाय यातीह सत्वरं सोमिनो यथा । स्तोतॄनेहि तथाऽस्माँस्ते माध्वीर्गावो भवन्तु नः ॥ ६॥ द्वे विरूपेऽत्र मायायाऽऽस्तेऽत्र मग्नोऽस्मि पीडितः । माभितः सन्तपन्तीह सपत्नीरिव पर्शवः ॥ ७॥ इदं श्रेष्ठमपि प्राप्य जन्म गन्ताध एव तत् । कुरु प्रसादं ज्ञात्वैतत्तेनार्ह भूरि चाकन ॥ ८॥ प्रवस्तुज्ञानाज्जहाति निष्कामश्चेन्मृतिं त्वहम् । न तादृशोऽतः कामादि सर्वं रक्षो निबर्हय ॥ ९॥ सुषुमामूर्धियः स्तोमैरागच्छैते वयं विभो । त्वदंशास्त्वं पतिर्नोऽसि देवो देवेषु मेधिरः ॥ १०॥ वसू रूपं रूपमिह प्रतिरूपोऽसि नो पृथक् । एतानि भूतानि विदुर्ब्राह्मणा ये मनीषिणः ॥ ११॥ तं नु त्वां किं ब्रुवेऽल्पज्ञो भगवन्तं क्षमस्व भोः । ओषमागहि मां त्वं चेत्सखा सन्नतिमन्यसे ॥ १२॥ ता वासना घ्नन्ति यथा वृश्चिकस्यारसं विषम् । अतो मां पाहि भूयिष्ठां नम उक्तिं विधेम ते ॥ १३॥ नि होता सीदसि विभो यत्त्वं यष्टुर्गृहे प्रिय । तं त्वा ह्वये ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पते ॥ १४॥ सेमामविड्ढि प्रभृतिमीशिषे योऽव मानिशम् । त्वं विश्वेषां यदीशानो ब्रह्मणा वेषि मे हवम् ॥ १५॥ मन्दः स्वकोऽयं दीनोऽज्ञ इति विद्वान्भवान्प्रभुः । इन्द्र आशाभ्यः परि मां सर्वाभ्यो अभयं करत् ॥ १६॥ प्र य आरूपितां भ्रान्तिं त्वत्प्रसादाज्जहाति सः । विमुच्यते तद्विप्रास्त्वां जागृवांसः समिन्धते ॥ १७॥ इच्छन्ति देवा अपि ते प्रसादाय नृजन्म तत् । विद्वान्नामानि ते दत्त विश्वाभिर्गीर्भिरीमहे ॥ १८॥ इन्द्र त्वा भजतः सूरेर्दुर्लभं किं तरामि तत् । भक्त्या क्लेशादि ते नावा गम्भीराँ उदधीँरिव ॥ १९॥ न ता रोद्धुं धियः शक्ता योगेनाऽपि ततः सदा । त्रातारं धीमहीश त्वां धियो यो नः प्रचोदयात् ॥ २०॥ वैश्वानराय दत्त्वाऽन्नं विधिलब्धं सदैव ते । भवामो भजने सक्ता अस्माकं श‍ृणुधी हवम् ॥ २१॥ एवा त्वामिन्द्र विप्रासौ जागृवांसो विपन्यवः । स्तुवन्त्येभ्यो हि ते कोऽपि न ज्यायाँ अस्ति वृत्रहन् ॥ २२॥ प्रऋभुभ्यो गृणद्भ्यस्ते मर्त्येभ्योऽप्यमृतत्वमित् । दत्तं स्मृत्वा तव मनोरथ आयातु पाजसा ॥ २३॥ इदमुत्यदिषं श्रेयो यज्जग्ध्वा परितृप्यति । साधुस्तद्भजनं तेऽस्मे इषं स्तोतृभ्य आभर ॥ २४॥ त्वामग्ने मायिनं मायां जेतारमपराजितम् । हित्वा कं शरणं यामः स नो बोधि श्रुधी हवम् ॥ २५॥ मही महेशोऽज्ञानेन भवानवतु मावृतम् । यथा वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः ॥ २६॥ प्रयुञ्जती यदात्मानं मनीषा मनसा सह । तदैव भवतैकान्तं जानता सङ्गमेमहि ॥ २७॥ ऋतस्य गोपास्त्वं देहि मह्यं शं युञ्जते धियः । भीताय नाधमानाय ऋषये सप्तवध्रये ॥ २८॥ त्वं हि पातासि नो दत्त परिबाधस्व दुष्कृतम् । कामादीन्यस्य बीजानि जहि रक्षांसि सुक्रतो ॥ २९॥ पिबा सोममिति श्रुत्वा यष्टुर्हूतिं शुभं द्रवत् । आयासि पुरुरूप त्वामासु गोषूपपृछ्यताम् ॥ ३०॥ इन्द्रं वोतान्यं न पृथङ् मन्ये मायाभिरिद्भवान् । पुरुरूप इतीक्षे त्वममित्राँ सुषहान्कृधि ॥ ३१॥ यज्ञा यज्ञाधीश सर्वे त्वन्मया अपि तेषु नः । जपयज्ञो मतस्तेन समु पूष्णा गमेमहि ॥ ३२॥ स्तुषे नराप्यं तुष्टः सन्नथो यस्या अयोमुखम् । मायां जित्वा भवान्तां मे विश्वाहा शर्म यच्छतु ॥ ३३॥ जुषस्व स्तोममीशैते प्रियासः सन्तु सूरयः । वयं स्तोमप्रियानेन यच्छा नः शर्म दीर्घश्रुत् ॥ ३४॥ उग्रो जज्ञे मृत्युरयमदुग्धा इव धेनवः । धियो मेऽनेनेदृगीश न जातो न जनिष्यते ॥ ३५॥ प्रब्रह्मैहीदमार्ण्योर्वारुकमिव बन्धनात् । मृत्युञ्जय प्रमादाख्यान्मृत्योर्मुक्षीय माऽमृतात् ॥ ३६॥ यदद्य वर्ष्म तेनैव पश्येम शरदः शतम् । स्तोत्राय ते हते मृत्यौ जीवेम शरदः शतम् ॥ ३७॥ प्रत्युत्तमं महेशं त्वां मनामह इहागहि । मृला सुक्षत्र मृलय मा नो दुःशंस ईशत ॥ ३८॥ तिस्रो वाचस्तेऽत्र वरां क ईशानं न याचिषत् । भक्त्या गृणीमस्त्वां स्तोत्रैस्तेभिर्नस्तूयमागहि ॥ ३९॥ दूराद्विहाय सर्वं त्वामृशयो ये च तुष्ट्ववः । मर्ता अमर्त्यस्य ते तद्भूरि नाम मनामहे ॥ ४०॥ य इन्द्र त्वं यो नमसा स्वध्वरो हीति संस्तुतः । इन्द्रो ब्रह्मेन्द्र ऋषिरित्युप ब्रह्माणि नः श‍ृणु ॥ ४१॥ वयमु त्वा वरं देवमस्मभ्यं शर्म सप्रथः । मनामहे पृणन्तं तदभित्वामिन्द्र नोनुमः ॥ ४२॥ प्रकृतात्न्यपि सूक्तानि श‍ृण्वन्तं जातवेदसम् । त्वां गृणन्ति न के त्वं हि येषामिन्द्रो युवा सखा ॥ ४३॥ त्वावतः पाहि नो मर्त्यान्यत इन्द्र धयामहे । आदिश्य पदभक्तिं ते ततो नो अभयं कृधि ॥ ४४॥ आ त्वा रथं न तुरगैः स्तोत्रैस्त्वा वर्तयामसि । स त्वं न इन्द्र मृलय यस्य ते स्वादु सख्यमित् ॥ ४५॥ आ प्रबोधं भवोऽबोधः स्वप्नवद्दुःखदोऽशुचिः । पतितान्दुःखितान्नॄन्नः पाहि त्वं श‍ृणुधी गिरः ॥ ४६॥ इन्द्राय साम ते गातुं न क्षमो नाम ते गृणे । बण्महाँऽअसि सूर्य त्वं सत्रादेव महाँऽअसि ॥ ४७॥ सोमः पुनानोन्तारामो मया त्वं नाधिलक्षितः । ईक्षे तुच्छान्बहिर्भोगान्योषा जारमिव प्रियम् ॥ ४८॥ प्रण इन्दोरपि स्मरं रूपं ते दर्शयामलम् । नॄन्स्तोतॄन्पाह्यंहसो नो जहि रक्षांसि सुक्रतो ॥ ४९॥ हिन्वन्ति द्वैतमस्त्यस्माद्भयं विन्दति मामिह । यदन्ति दूरके यच्च पवमान वि तज्जहि ॥ ५०॥ धर्ता कारकशक्तीनां सर्वेषां त्वमिहैक इत् । यशोऽत्रेदं पवित्रं ते विततं ब्रह्मणस्पते ॥ ५१॥ असर्जि भवता विश्वमनित्यमवशं बृहत् । त्वं संस्मर ज्ञ शरण वत्सं जातं न धेनवः ॥ ५२॥ पुरोजितीश भो भूमन् तत्र माममृतं कृधि । यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ॥ ५३॥ अयं स इति विद्वान्त्सन्यमाय घृतवद्धविः । कुतो जुहोम्यतोऽदेवा यमाय जुहुता हविः ॥ ५४॥ निवर्तध्वमिनो देवा भद्रं नो अपि वातय । मनो हरे मां पाह्यार्तं पिता पुत्रमिव प्रियम् ॥ ५५॥ प्रमा प्रमाता प्रमेयं त्रिपुटीह न विद्यते । रूपं तेऽविकृतं सत्त्वं मधुमन्मे परायणम् ॥ ५६॥ प्रहोतारोऽत्रैव मनोन्वाहुवामह इत्यतः । गमादि मनसो नास्य यो यज्ञस्य प्रसाधनः ॥ ५७॥ ये यज्ञेनार्चन्त्यनेन सर्वे नन्दन्ति ते त्वया । नान्येऽतस्त्वत्प्रिया एव विरूपासो दिवस्परि ॥ ५८॥ देवानां नु वशे योऽस्य सुमङ्गलीरियं वधूः । स्नेहेषु त्वच्युतो भोगी पतिर्बन्धेषु बध्यते ॥ ५९॥ विहितं सर्वमित्ते त्वमतो ज्यायांश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ६०॥ हये जाये इति वदन्या सालावृकहृत्समा । तन्मयो न स वेदामुमात्मानं तव पूरुष ॥ ६१॥ उभा उपाधितोऽत्रैकः पाकेन मनसान्वितः । त्वां यदीक्षेत तं माता रेह्रलि स उ रेह्लि मातरम् ॥ ६२॥ तदिदात्मन्हृदि वपुः पश्यन्तस्ते मनीषया । मुनयो वातरशनाः पिशङ्गा वसतेऽमलाः ॥ ६३॥ त्यं चिन्मयं बुधा रूपं सञ्जानाना उपासते । यो अस्य पारे रजसः स नः पर्षदति द्विषः ॥ ६४॥ इषे त्वोर्जे चौदनेन नित्यहोमेऽपि गव्यतः । यजन्त्यहं त्वकामस्त्वां श्रेष्ठतमाय कर्मणे ॥ ६५॥ अग्न आयाहीति गातुं त्वाऽक्षमः स्तौमि केवलम् । निषीद मे हृदि यथा निहोता सत्सि बर्हिषि ॥ ६६॥ शं नो देवीः प्रसादात्ते सन्तु धीवृत्तयोऽनिशम् । आत्मप्रवाहाः स्वारस्याच्छंयोरभिस्रवन्तु नः ॥ ६७॥ ज्ञातेऽस्मिन्पाशमुक्तिः सकलविदिति तत्स्यादनिर्देश्यमेकं सूक्ष्मं चातीन्द्रियं सत्तदयमिति गिराशाब्दनिर्देश्यमेव । वाक्यैस्तत्त्वं विरोधेऽपि सति सुमतिभिः सोऽयमित्यादिवत्तद्- भागत्यागेन लक्ष्यं वरगुरुकृपया लभ्यमैक्यं हि तज्ज्ञैः ॥ ६८॥ इति श्रीपरमहंसपरिव्राजकाचार्य श्री श्री श्री वासुदेवानन्दसरस्वतीयति वरेण्य विरचितं श्रीदत्तवेदपादस्तुतिः समाप्ता ॥