अक्षर आकार:

श्रीदत्तस्तोत्रम् ६

Shri Datta Stotram 6

श्रीदत्तस्तोत्रम् ६

बालार्कप्रभमिन्द्रनीलजटिलं भस्माङ्गरागोज्वलं शान्तं नादविलीनचित्तपवनं शार्दूलचर्माम्बरम् । ब्रह्मज्ञैः सनकादिभिः परिवृतं सिद्धैः समाराधितं आत्रेयं समुपास्महे हृदि मुदा ध्येयं सदा योगिभिः ॥ १॥ दिगम्बरं भस्मविलेपिताङ्गं चक्रं त्रिशूलं डमरुं गदां च । पद्मासनस्थं शशिसूर्यनेत्रं दत्तात्रेयं ध्येयमभीष्टसिद्ध्यै ॥ २॥ ॐ नमः श्रीगुरुं दत्तं दत्तदेवं जगद्गुरुम् । निष्कलं निर्गुणं वन्दे दत्तात्रेयं नमाम्यहम् ॥ ३॥ ब्रह्म लोकेश भूतेश शङ्खचक्रगदाधरम् । पाणिपात्रधरं देवं दत्तात्रेयं नमाम्यहम् ॥ ४॥ सुरेशवन्दितं देवं त्रैलोक्य लोकवन्दितम् । हरिहरात्मकं देवं दत्तात्रेयं नमाम्यहम् ॥ ५॥ निर्मलं नीलवर्णं च सुन्दरं श्यामशोभितम् । सुलोचनं विशालाक्षं दत्तात्रेयं नमाम्यहम् ॥ ६॥ त्रिशूलं डमरुं मालां जटामुकुटमण्डितम् । मण्डितं कुण्डलं कर्णे दत्तात्रेयं नमाम्यहम् ॥ ७॥ विभूतिभूषितदेहं हारकेयूरशोभितम् । अनन्तप्रणवाकारं श्रीदत्तात्रेयं नमाम्यहम् ॥ ८॥ प्रसन्नवदनं देवं भुक्तिमुक्तिप्रदायकम् । जनार्दनं जगत्त्राणं दत्तात्रेयं नमाम्यहम् ॥ ९॥ राजराजं मिताचारं कार्तवीर्यवरप्रदम् । सुभद्रं भद्रकल्याणं दत्तात्रेयं नमाम्यहम् ॥ १०॥ अनसूयाप्रियकरं अत्रिपुत्रं सुरेश्वरम् । विख्यातयोगिनां मोक्षं दत्तात्रेयं नमाम्यहम् ॥ ११॥ दिगम्बरतनुं श्रेष्ठं ब्रह्मचर्यव्रते स्थितम् । हंसं हंसात्मकं नित्यं दत्तात्रेयं नमाम्यहम् ॥ १२॥ कदा योगी कदा भोगी बाललीलाविनोदकः । दशनैः रत्नसङ्काशैः दत्तात्रेयं नमाम्यहम् ॥ १३॥ भूतबाधा भवत्रासः ग्रहपीडा तथैव च । दरिद्रव्यसनध्वंसी दत्तात्रेयं नमाम्यहम् ॥ १४॥ चतुर्दश्यां बुधे वारे जन्ममार्गशिरे शुभे । तारकं विपुलं वन्दे दत्तात्रेयं नमाम्यहम् ॥ १५॥ रक्तोत्पलदलपादं सर्वतीर्थे समुद्भवम् । वन्दितं योगिभिः सर्वैः दत्तात्रेयं नमाम्यहम् ॥ १६॥ ज्ञानदाता प्रभुः साक्षाद्गतिर्मोक्षप्रदायकः । आत्मभूरीश्वरः कृष्णः दत्तात्रेयं नमाम्यहम् ॥ १७॥ भृगुविरचितमिदं दत्तात्रेय पारायणान्वितम् । साक्षाद्यद्वत्स्वयं ब्रह्मा दत्तात्रेयं नमाम्यहम् ॥ १८॥ प्राणिनां सर्वजन्तूनां कर्मपाशप्रभञ्जनम् । दत्तात्रेयगुरुस्तोत्रं सर्वान्कामानवाप्नुयात् ॥ १९॥ अपुत्रो लभते पुत्रं धनधान्यसमन्वितः । राजमान्यो भवेल्लक्ष्मीं अप्राप्यं प्राप्नुयात् नरः ॥ २०॥ त्रिसन्ध्यं जपमानस्तु दत्तात्रेयस्तुतिं सदा । तस्य रोगभयं नास्ति दीर्घायुर्विजयी भवेत् ॥ २१॥ कूष्माण्डडाकिनीपक्षपिशाचब्रह्मराक्षसाः । स्तोत्रस्य श्रुतमात्रेण गच्छन्त्यत्र न संशयः ॥ २२॥ एतद्विंशतिश्लोकानां आवृत्तिं कुरु विंशतिम् । तस्यावृत्तिसहस्रेण दर्शनं नात्र संशयः ॥ २३॥ इति श्रीभृगुविरचितं दत्तस्तोत्रं सम्पूर्णम् ॥