अक्षर आकार:

श्रीदत्तात्रेयस्तोत्रम् ४

Shri Dattatreya Stotra 4

श्रीदत्तात्रेयस्तोत्रम् ४

अनसूयात्रिसम्भूत दत्तात्रेय महामते । सर्वदेवाधिदेव त्वं मम चित्तं स्थिरीकुरु ॥ १॥ शरणागतदीनार्ततारकाऽखिलकारक । सर्वचालक देव त्वं मम चित्तं स्थिरीकुरु ॥ २॥ सर्वमङ्गलमाङ्गल्य सर्वाधिव्याधिभेषज । सर्वसङ्कटहारिन् त्वं मम चित्तं स्थिरीकुरु ॥ ३॥ स्मर्तृगामी स्वभक्तानां कामदो रिपुनाशनः । भुक्तिमुक्तिप्रदः स त्वं मम चित्तं स्थिरीकुरु ॥ ४॥ सर्वपापक्षयकरस्तापदैन्यनिवारणः । योऽभीष्टदः प्रभुः स त्वं मम चित्तं स्थिरीकुरु ॥ ५॥ य एतत्प्रयतः श्लोकपञ्चकं प्रपठेत्सुधीः । स्थिरचित्तः स भगवत्कृपापात्रं भविष्यति ॥ ६॥ इति श्रीपरमहंस परिव्राजकाचार्य श्रीमद्वासुदेवानन्दसरस्वतीस्वामीविरचितं श्रीदत्तस्तोत्रं सम्पूर्णम् ॥ (यह एक प्रभावी स्तोत्र है । साधक व विद्यार्थी इसका प्रयोग मन की चञ्चलता कम करने हेतु वा एकाग्रता बढाने हेतु अवश्य करें और अनुभव लें ।)