अक्षर आकार:

श्रीदत्तात्रेयस्तोत्रं स्वागतं तव स्वागतं

shrIDattatreya Stotra 1

श्रीदत्तात्रेयस्तोत्रं स्वागतं तव स्वागतं

॥ ॐ ॥ स्वागतं तव स्वागतं गुरूदेव तव सुस्वागतम् । स्मरणचिन्तनपूजनात् निर्मले हृन्मन्दिरे । श्रीदत्त तव सुस्वागतं गुरूदेव तव सुस्वागतम् ॥ स्वागतार्थे प्राणज्योतिर्नयनद्वारे तिष्ठिता । चरणकमलक्षालनार्ता नयनजलसरितागता ॥ आसनार्थे हृदयपद्मं प्रेमगन्धविलेपनम् । भावकुसुमान्यर्पयेहं प्रणवमन्त्रैरर्चनम् ॥ योगधेनोर्दोहनं भक्तिक्षीरं सेवनम् । स्वानन्दकन्दं भोजनं सन्तोषनीरं प्राशनम् ॥ प्रणवगायनतत्परा तव प्रार्थने धन्या परा । तालबद्धं प्राणवहनं कुंडलिन्योर्नर्तनम् ॥ वेणुनादं प्रणवनादं श्रूयतां घंटारवः । तत्त्वमसि नीरांजनं सोऽहमिति मंत्रांजलिः ॥ गुरुदेव तव सुस्वागतं श्रीदत्त तव सुस्वागतम् ॥