अक्षर आकार:

श्रीदत्तस्तवराजः

Shri Datta StavarAjaH

श्रीदत्तस्तवराजः

श्रीगणेशाय नमः । श्रीशुक उवाच - महादेव महादेव देवदेव महेश्वर । दत्तात्रेयस्तवं दिव्यं श्रोतुमिच्छाम्यहं प्रभो ॥ १॥ तदस्य वद माहात्म्यं देवदेव दयानिधे । दत्तात्परतरं नास्ति पुरा व्यासेन कीर्तितम् ॥ २॥ जगद्गुरुर्जगन्नाथो गीयते नारदादिभिः । तत्सर्वं ब्रूहि मे देव करुणाकर शङ्कर ॥ ३॥ महादेव उवाच- श‍ृणु व्यासात्मजात त्वं गुह्याद्गुह्यतरं महत् । यस्य स्मरणमात्रेण मुच्यते सर्वबन्धनात् ॥ ४॥ दत्तं सनातनं बह्म निर्विकारं निरञ्जनम् । आदिदेवं निराकारं व्यक्तं गुणविवर्जितम् ॥ ५॥ नामरूपक्रियातीतं निःसङ्गं देववन्दितम् । नारायणं शिवं शुद्धं दृश्यदर्शनवर्जितम् ॥ ६॥ परेशं पार्वतीकान्तं रमाधीशं दिगम्बरम् । निर्मलो नित्यतृप्तात्मा नित्यानन्दो महेश्वरः ॥ ७॥ ब्रह्मा विष्णुः शिवः साक्षाद् गोविन्दो गतिदायकः । पीताम्बरधरो देवः माधवः सुरसेवितः ॥ ८॥ मृत्युञ्जयो महारुद्रः कार्तवीर्यवरप्रदः । ओमित्येकाक्षरं बीजं क्षराक्षरपदं हरिः ॥ ९॥ गया काशी कुरुक्षेत्रं प्रयागं बदरिकाश्रमः । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १०॥ गोमती जाह्नवी भीमा गण्डकी च सरस्वती । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ११॥ सरयूस्तुङ्गभद्रा च यमुना पयवाहिनी । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १२॥ ताम्रपर्णी प्रणीता च गौतमी तापनाशिनी । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १३॥ नर्मदा सिन्धु कावेरी कृष्णवेणी तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १४॥ अवन्ती द्वारका माया मल्लिनाथस्य दर्शनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १५॥ द्वादश ज्योतिर्लिङ्गं च वाराहे पुष्करे तथा । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १६॥ ज्वालामुखी हिङ्गुला च सप्तश‍ृङ्गस्तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १७॥ अयोध्या मथुरा काञ्ची रेणुका सेतुबन्धनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १८॥ अहोबिलं त्रिपथगां गङ्गा सागरमेव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ १९॥ करवीरमहास्थानं रङ्गनाथं तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २०॥ एकादशीव्रतं चैव अष्टाङ्गैर्योगसाधनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २१॥ शाकम्भरी च मूकाम्बा कार्तिकस्वामिदर्शनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २२॥ व्रतं निष्ठा तपो दानं सामगानं तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २३॥ मुक्तिक्षेत्रं च कामाक्षी तुलजा सिद्धिदेवता । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २४॥ अन्नहोमादिकं दानं मेदिन्यश्वगजान् वृषान् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २५॥ माघकार्तिकयोः स्नानं सन्यासं ब्रह्मचर्यकम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २६॥ अश्वमेधसहस्राणि मातापितृप्रपोषणम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २७॥ अमितं पोषणं पुण्यं उपकारस्तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २८॥ जगन्नाथं च गोकर्णं पाण्डुरङ्गं तथैव च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ २९॥ सर्वदेवनमस्कारः सर्वे यज्ञाः प्रकीर्तिताः । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३०॥ शास्त्रषट्कं पुराणानिअष्टौ व्याकरणानि च । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३१॥ सावित्री प्रणवं जप्त्वा चतुर्वेदांश्च पारगः । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३२॥ कन्यादानानि पुण्यानि वानप्रस्थस्य पोषणम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३३॥ वापी कूपतटाकानि काननारोपणानि च एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३४॥ अश्वत्थतुलसी धात्री सेवेत यो नरस्सदा । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३५॥ शिवं विष्णुं गणेशं च शक्तिं सूर्यं च पूजनम् । एतत्सर्वं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३६॥ गोहत्यादिसहस्राणि ब्रह्महत्यास्तथैव च । प्रायश्चित्तं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३७॥ मुच्यते सर्वपापेभ्यो दत्त इत्यक्षरद्वयम् ॥ ३८॥ स्वर्णस्तेयं सुरापानं मातागमनकिल्बिषम् । प्रायश्चित्तं कृतं तेन दत्त इत्यक्षरद्वयम् ॥ ३९॥ स्त्रीहत्यादिकं पापं बालहत्यास्तथैव च ॥ ४०॥ प्रायश्चित्तं कृतं तेन सर्वपापप्राणाशनम् । ब्रह्मत्वं लभ्यते ज्ञानं दत्त इत्यक्षरद्वयम् ॥ ४१॥ कलिदोष विनाशार्थं जपेदेकाग्रमानसः । श्री गुरुं परमानन्दं दत्त इत्यक्षरद्वयम् ॥ ४२॥ दत्त दत्त त्विदं वाक्यं तारकं सर्वदेहिनाम् । श्रद्धायुक्तो जपेन्नित्यं दत्त इत्यक्षरद्वयम् ॥ ४३॥ केशवं माधवं विष्णुं गोविन्दं गोपतिं हरिम् । गुरूणां पठ्यते नित्यं तत्सर्वं च शुभावहम् ॥ ४४॥ निरञ्जनं निराकारं देवदेवं जनार्दनम् । मायामुक्तं जपेन्नित्यं पावनं सर्वदेहिनाम् ॥ ४५॥ आदिनाथं सुरश्रेष्ठं कृष्णं श्यामं जगद्गुरुम् । सिद्धराजं गुणातीतं रामं राजीवलोचनम् ॥ ४६॥ नारायणं परं ब्रह्म लक्ष्मीकान्तं परात्परम् । अप्रमेयं सुरानन्दं नमो दत्तदिगम्बरम् ॥ ४७॥ योगिराजोऽत्रिवरदः सुराध्यक्षो गुणान्तकः । अनसूयात्मजो देवो देवो गतिप्रदायकः ॥ ४८॥ गोपनीयं प्रयत्नेन यदि देवमुनीश्वरैः । समस्तऋषिभिः सर्वैः भक्त्या स्तुत्वा महात्मभिः ॥ ४९॥ नारदेन सुरेन्द्रेण सनकाद्यैर्महात्मभिः । गौतमेन च गार्गेण व्यासेन कपिलेन च ॥ ५०॥ वामदेवेन दक्षेण अत्रिभार्गवमुद्गलैः । वसिष्ठप्रमुखैः सर्वैः गीयते सर्वदादरात् ॥ ५१॥ विनायकेन रुद्रेण महासेनेन वै सदा । मार्कण्डेयेन धौम्येन कीर्तितं स्तवमुत्तमम् ॥ ५२॥ मरीच्यादिमुनीन्द्रैश्च शुककर्दमसत्तमैः । अङ्गिराकृतपौलस्त्यभृगुकश्यपजैमिनी ॥ ५३॥ गुरुस्तवमधीयानो विजयी सर्वदा भवेत् । गुरोः सायुज्यमाप्नोति गुरोर्नाम पठेद्बुधः ॥ ५४॥ गुरोः परतरं नास्ति सत्यं सत्यं न संशयः । गुरोः पादोदकं पीत्वा गुरुनाम सदा जपेत् ॥ ५५॥ तेऽपि संन्यासैनो ज्ञेयाः इतरे वेषधारिणः । गङ्गाद्याः सरितः सर्वे गुरोः पादाम्बुजे सदा ॥ ५६॥ गुरुस्तवं न जानाति गुरुनाममुखेन हि । पशुतुल्यं विजानीयात्सत्यं सत्यं महामुने ॥ ५७॥ इति स्तोत्रं महादिव्यं स्तवराजं मनोहरम् । पठनाच्छ्रवणाद्वापि सर्वान्कामानवाप्नुयात् ॥ ५८॥ इति श्रीमन्महादेवशुकसंवादे दत्तस्तवराजः सम्पूर्णः ।