अक्षर आकार:

श्रीदत्तशरणाष्टकम्

Shri Datta Sharanashtakam

श्रीदत्तशरणाष्टकम्

दत्तात्रेय भव शरणम् । दत्तनाथ भव शरणम् । त्रिगुणात्मक त्रिगुणातीत । त्रिभुवनपालक भव शरणम् ॥ १॥ शाश्वतमूर्ते भव शरणम् । श्यामसुन्दर भव शरणम् । शेषाभरण शेषभूषण । शेषशायिन् गुरो भव शरणम् ॥ २॥ षड्भुजमूर्ते भव शरणम् । षड्यतिवर भव शरणम् । दण्डकमण्डलु गदापद्मकर । शङ्खचक्रधर भव शरणम् ॥ ३॥ करुणानिधे भव शरणम् । करुणासागर भव शरणम् । कृष्णासङ्गमिंस्तरुवरवासिन् । भक्तवत्सल भव शरणम् ॥ ४॥ श्रीगुरुनाथ भव शरणम् । सद्गुरुनाथ भव शरणम् । श्रीपादश्रीवल्लभ गुरुवर । नृसिंहसरस्वति भव शरणम् ॥ ५॥ कृपामूर्ते भव शरणम् । कृपासागर भव शरणम् । कृपाकटाक्ष कृपावलोकन । कृपानिधे गुरो भव शरणम् ॥ ६॥ कालान्तक भव शरणम् । कालनाशक भव शरणम् । पूर्णानन्द पूर्णपरेश । पुराणपुरुष भव शरणम् ॥ ७॥ हे जगदीश भव शरणम् । जगन्नाथ भव शरणम् । जगत्पालक जगदधीश । जगदुद्धार भव शरणम् ॥ ८॥ अखिलान्तर भव शरणम् । अखिलैश्वर्य भव शरणम् । भक्तप्रिय वज्रपञ्जर । प्रसन्नवक्त्र भव शरणम् ॥ ९॥ दिगम्बर भव शरणम् । दीनदयाघन भव शरणम् । दीननाथ दीनदयाळ । दीनोद्धार भव शरणम् ॥ १०॥ तपोमूर्ते भव शरणम् । तेजोराशे भव शरणम् । ब्रह्मानन्द ब्रह्मसनातन । ब्रह्ममोहन भव शरणम् ॥ ११॥ विश्वात्मक भव शरणम् । विश्वरक्षक भव शरणम् । विश्वम्भर विश्वजीवन । विश्वपरात्पर भव शरणम् ॥ १२॥ विघ्नान्तक भव शरणम् । विघ्ननाशक भव शरणम् । प्रणवातीत प्रेमवर्धन । प्रकाशमूर्ते भव शरणम् ॥ १३॥ निजानन्द भव शरणम् । निजपददायक भव शरणम् । नित्यनिरञ्जन निराकार । निराधार भव शरणम् ॥ १४॥ चिद्धनमूर्ते भव शरणम् । चिदाकार भव शरणम् । चिदात्मरूप चिदानन्द । चित्सुखकन्द भव शरणम् ॥ १५॥ अनादिमूर्ते भव शरणम् । अखिलावतार भव शरणम् । अनन्तकोटि ब्रह्माण्डनायक । अघटितघटन भव शरणम् ॥ १६॥ भक्तोद्धार भव शरणम् । भक्तरक्षक भव शरणम् । भक्तानुग्रह गुरुभक्तप्रिय । पतितोद्धार भव शरणम् ॥ १७॥ दत्तात्रेय भव शरणम् ॥ इति श्रीदत्तशरणाष्टकं सम्पूर्णम् ।