अक्षर आकार:

श्रीदत्तात्रेयसहस्रनामस्तोत्रम् २

shrIdattAtreya sahasranAma stotram 2

श्रीदत्तात्रेयसहस्रनामस्तोत्रम् २

निखिलागमतत्त्वज्ञ ब्रह्मज्ञानपरायण । वदास्माकं मुक्त्युपायं सूत सर्वोपकारकम् ॥ १॥ सर्वदेवेषु को देवः सद्यो मोक्षप्रदो भवेत् । को मनुर्वा भवेत्तस्य सद्यः प्रीतिकरो ध्रुवम् ॥ २॥ सूत उवाच - निगमागमतत्त्वज्ञो ह्यवधूतश्चिदम्बरः । भक्तवात्सल्यप्रवणो दत्त एव हि केवलः ॥ ३॥ सदा प्रसन्नवदनो भक्तचिन्तैकतत्परः । तस्य नामान्यनन्तानि वर्तन्तेऽथाप्यदः परम् ॥ ४॥ दत्तस्य नामसाहस्रं तस्य प्रीतिविवर्धनम् । यस्त्विदं पठते नित्यं दत्तात्रेयैकमानसः ॥ ५॥ मुच्यते सर्वपापेभ्यः स सस्द्यो नात्र संशयः । अन्ते तद्धाम संयाति पुनरावृत्तिदुर्लभम् ॥ ६॥ (अस्य श्रीमद्दत्तात्रेयसहस्रनामकस्य तु । ऋषिर्ब्रह्म विनिरिर्दिष्टोनुष्टुप्छन्दं प्रकीर्तिम् ॥ दत्तात्रेयोऽस्यदेवता दत्तात्रेयात्मतारकम् । दाकारंरेफसंयुक्तं दत्तबीजमुदाहृतम् ॥ द्रामित्यादि त्रिभिः प्रोक्तं बीजं शक्तिश्च कीलकम् । षाअॅऊघर्फु? बीजसंयुक्तैं षडङ्गन्यास ईरितः ॥ ?? पीताम्बरालङ्कृत पृष्ठभागं भस्मावगुण्ठामलरुक्मदेहम् । विद्युत्रभापिङ्गजटाभिरामं श्रीदत्तयोगीशमहं भजामि ॥) अस्य श्रीमद्दत्तात्रेयसहस्रनामस्तोत्रमन्त्रस्य अवधूत ऋषिः । अनुष्टुप्छन्दः । दिगम्बरो देवता । ॐ बीजम् । ह्रीं शक्तिः । क्रौं कीलकम् । श्रीदत्तात्रेयप्रीत्यर्थे जपे विनियोगः ॥ अथ ध्यानम् - दिगम्बरं भस्मविलेपिताङ्गं बोधात्मकं मुक्तिकरं पर्सन्नम् । निर्मानसं श्यामतनुं भजेऽहं दत्तात्रेयं ब्रह्मसमाधियुक्तम् ॥ अथ सहस्रनामस्तोत्रम् । दत्तात्रेयो महोयोगी योगेशश्चामरप्रभुम् । मुनिर्दिगम्बरो बालो मायामुक्तो मदापहः ॥ १॥ अवधूतो महानाथः शङ्करोऽमरवल्लभः । महादेवश्चादिदेवः पुराणप्रभुरीश्वरः ॥ २॥ सत्त्वकृत्सत्त्वभृद्भावः सत्त्वात्मा सत्त्वसागरः । सत्त्ववित्सत्त्वसाक्षी च सत्त्वसाध्योऽमराधिपः ॥ ३॥ भूतकृद्भूतभृच्चैव भूतात्मा भूतसम्भवः । भूतभावो भवो भूतवित्तथा भूतकारणः ॥ ४॥ भूतसाक्षी प्रभूतिश्च भूतानां परमा गतिः । भूतसङ्गविहीनात्मा भूतात्मा भूतशङ्करः ॥ ५॥ भूतनाथो महानाथश्चादिनाथो महेश्वरः । सर्वभूतनिवासात्मा भूतसन्तापनाशनः ॥ ६॥ सर्वात्मा सर्वभृत्सर्वः सर्वज्ञः सर्वनिर्णयः । सर्वसाक्षी बृहद्भानुः सर्ववित्सर्वमङ्गलः ॥ ७॥ शान्तः सत्यः समः पूर्णो ह्येकाकी कमलापतिः । रामो रामप्रियश्चैव विरामो रामकारणम् ॥ ८॥ शुद्धात्मा पावनोऽनन्तः प्रतीतः परमार्थभृत् । हंससाक्षी विभुश्चैव प्रभुः प्रलय इत्यपि ॥ ९॥ सिद्धात्मा परमात्मा च सिद्धानां परमा गतिः ॥ सिद्धिसिद्धस्तथा साध्यः साधनो ह्युत्तमस्तथा ॥ १०॥ सुलक्षणः सुमेधावी विद्यावान्विगतान्तरः । विज्वरश्च महाबाहुर्बहुलानन्दवर्धनः ॥ ११॥ अव्यक्तपुरुषः प्राज्ञः परज्ञः परमार्थदृक् । परापरविनिर्मुक्तो युक्तस्तत्त्वप्रकाशवान् ॥ १२॥ दयावान्भगवान्भावी भावात्मा भावकारणः । भवसन्तापनाशश्च पुष्पवान्पण्डितो बुधः ॥ १३॥ प्रत्यक्षवस्तुर्विश्वात्मा प्रत्यग्ब्रह्म सनातनः । प्रमाणविगतश्चैव प्रत्याहारनियोजकः ॥ १४॥ प्रणवः प्रणवातीतः प्रमुखः प्रलयात्मकः । मृत्युञ्जयो विविक्तात्मा शङ्करात्मा परो वपुः ॥ १५॥ परमस्तनुविज्ञेयः परमात्मनि संस्थितः । प्रबोधकलनाधारः प्रभावप्रवरोत्तमः ॥ १६॥ चिदम्बरश्चिद्विलासश्चिदाकाशश्चिदुत्तमः । चित्तचैतन्यचित्तात्मा देवानां परमा गतिः ॥ १७॥ अचेत्यश्चेतनाधारश्चेतनाचित्तविक्रमः । चित्तात्मा चेतनारूपो लसत्पङ्कजलोचनः ॥ १८॥ परब्रह्म परं ज्योतिः परं धाम परन्तपः । परं सूत्रं परं तन्त्रं पवित्रं परमोहवान् ॥ १९॥ क्षेत्रज्ञः क्षेत्रगः क्षेत्रः क्षेत्राधारः पुरञ्जनः । क्षेत्रशून्यो लोकसाक्षी क्षेत्रवान्बहुनायकः ॥ २०॥ योगेन्दो योगपूज्यश्च योग आत्मविदां शुचिः । योगमायाधरः स्थाणुरचलः कमलापतिः ॥ २१॥ योगेशो योगनिर्माता योगज्ञानप्रकाशनः । योगपालो लोकपालः संसारतमनाशनः ॥ २२॥ गुह्यो गुह्यतमो गुप्तो मुक्तो युक्तः सनातनः । गहनो गगनाकारो गम्भीरो गणनायकः ॥ २३॥ गोविन्दो गोपतिर्गोप्ता गोभागो भावसंस्थितः । गोसाक्षी गोतमारिश्च गान्धारो गगनाकृतिः ॥ २४॥ योगयुक्तो भोगयुक्तः शङ्कामुक्तसमाधिमान् । सहजः सकलेशानः कार्तवीर्यवरप्रदः ॥ २५॥ सरजा विरजाः पुंसो पावनः पापनाशनः । पुमान् परावरविनिर्मुक्तः परञ्ज्योतिः पुरातनः ॥ २६॥ नानाज्योतिरनेकात्मा स्वयञ्ज्योतिः सदाशिवः । दिव्यज्योतिर्मयश्चैव सत्यविज्ञानभास्करः ॥ २७॥ नित्यशुद्धः परः पूर्णः प्रकाशः प्रकटोद्भवः । प्रमादविगतश्चैव परेशः परविक्रमः ॥ २८॥ योगी योगो योगपश्च योगाभ्यासप्रकाशनः । योक्ता मोक्ता विधाता च त्राता पाता निरायुध्यः ॥ २९॥ नित्यमुक्तो नित्ययुक्तः सत्यः सत्यपराक्रमः । सत्त्वशुद्धिकरः सत्त्वस्तथा सत्त्वम्भृतां गतिः ॥ ३०॥ श्रीधरः श्रीवपुः श्रीमान् श्रीनिवासोऽमरार्चितः । श्रीनिधिः श्रीपतिः श्रेष्ठः श्रेयस्कश्चरमाश्रयः ॥ ३१॥ त्यागी त्यागार्थसम्पन्नस्त्यागात्मा त्यागविग्रहः । त्यागलक्षणसिद्धात्मा त्यागज्ञस्त्यागकारणः ॥ ३२॥ भोगो भोक्ता तथा भोग्यो भोगसाधनकारणः । भोगी भोगार्थसम्पन्नो भोगज्ञानप्रकाशनः ॥ ३३॥ केवलः केशवः कृष्णः कंवासाः कमलालयः । कमलासनपूज्यश्च हरिरज्ञानखण्डनः ॥ ३४॥ महात्मा महदादिश्च महेशोत्तमवन्दितः । मनोबुद्धिविहीनात्मा मानात्मा मानवाधिपः ॥ ३५॥ भुवनेशो विभूतिश्च धृतिर्मेधा स्मृतिर्दया । दुःखदावानलो बुद्धः प्रबुद्धः परमेश्वरः ॥ ३६॥ कामहा क्रोधहा चैव दम्भदर्पमदापहः । अज्ञानपतिमिरारिश्च भवारिर्भुवनेश्वरः ॥ ३७॥ रूपकुद्रूपभृद्रूपी रूपात्मा रूपकारणः । रूपज्ञो रूपसाक्षी च नामरूपो गुणान्तकः ॥ ३८॥ अप्रमेयः प्रमेयश्च प्रमाणं प्रणवाश्रयः । प्रमाणरहितोऽचिन्त्यश्चेतनाविगतोऽजरः ॥ ३९॥ अक्षरोऽक्षरमुक्तश्च विज्वरो ज्वरनाशनः । विशिष्टो वित्तशास्त्री च दृष्टो दृष्टान्तवर्जितः ॥ ४०॥ गुणेशो गुणकायश्च गुणात्मा गणभावनः । अनन्तगुणसम्पन्नो गुणगर्भो गुणाधिपः ॥ ४१॥ गणेशो गुणनाथश्च गुणात्मा गणभावनः । गणबन्धुर्विवेकात्मा गुणयुक्तः पराक्रमी ॥ ४२॥ अतर्क्यः क्रतुरग्निश्च कृतज्ञः सफलाश्रयः । यज्ञश्च यज्ञफल्दो यज्ञ इज्योऽमरोत्तमः ॥ ४३॥ हिरण्यगर्भः श्रीगर्भः खगर्भः कुणपेश्वरः । मायागर्भो लोकगर्भः स्वयम्भूर्भुवनान्तकः ॥ ४४॥ निष्पापो निबिडो नन्दी बोधी बोधसमाश्रयः । बोधात्मा बोधनात्मा च भेदवैतण्डखण्डनः ॥ ४५॥ स्वाभाव्यो भावनिर्मुक्तो व्यक्तोऽव्यक्तसमाश्रयः । नित्यतृप्तो निराभासो निर्वाणः शरणः सुहृत् ॥ ४६॥ गुह्येशो गुणगम्भीरो गुणदोषनिवारणः । गुणसङ्गविहीनश्च योगारेर्दर्पनाशनः ॥ ४७॥ आनन्दः परमानन्दः स्वानन्दसुखवर्धनः । सत्यानन्दश्चिदानन्दः सर्वानन्दपरायणः ॥ ४८॥ सद्रूपः सहजः सत्यः स्वानन्दः सुमनोहरः । सर्वः सर्वान्तरश्चैव पूर्वात्पूर्वतरस्तथा ॥ ४९॥ खमयः खपरः खादिः खम्ब्रह्म खतनुः खगः । खवासाः खविहीनश्च खनिधिः खपराश्रयः ॥ ५०॥ अनन्तश्चादिरूपश्च सूर्यमण्डलमध्यगः । अमोघः परमामोघः परोक्षः वरदः कविः ॥ ५१॥ विश्वचक्षुर्विश्वसाक्षी विश्वबाहुर्धनेश्वरः । धनञ्जयो महातेजास्तेजिष्ठस्तैजसः सुखी ॥ ५२॥ ज्योतिर्ज्योतिर्मयो जेता ज्योतिषां ज्योतिरात्मकः । ज्योतिषामपि ज्योतिश्च जनको जनमोहनः ॥ ५३॥ जितेन्द्रियो जितक्रोधो जितात्मा जितमानसः । जितसङ्गो जितप्राणो जितसंसारवासनः ॥ ५४॥ निर्वासनो निरालम्बो निर्योगक्षेमवर्जितः । निरीहो निरहङ्कारो निराशीर्निरुपाधिकः ॥ ५५॥ नित्यबोधो विविक्तात्मा विशुद्धोत्तमगौरवः । विद्यार्थी परमार्थी च श्रद्धार्थी साधनात्मकः ॥ ५६॥ प्रत्याहारी निराहारी सर्वाहारपरायणः । नित्यशुद्धो निराकाङ्क्षी पारायणपरायणः ॥ ५७॥ अणोरणुतरः सूक्ष्मः स्थूलः स्थूलतरस्तथा । एकस्तथाऽनेकरूपो विश्वरूपः सनातनः ॥ ५८॥ नैकरूपो विरूपात्मा नैकबोधमयोऽपि च । नैकनाममयश्चैव नैकविद्याविवर्धनः ॥ ५९॥ एकश्चैकान्तिकश्चैव नानाभावविवर्जितः । एकाक्षरस्तथा बीजः पूर्णबिम्बः सनातनः ॥ ६०॥ मन्त्रवीर्यो मन्त्रबीजः शास्त्रवीर्यो जगत्पतिः । नानावीर्यधरश्चैव शक्रेशः पृथिवीपतिः ॥ ६१॥ प्राणेशः प्राणदः प्राणः प्राणायामपरायणः । प्राणपञ्चकनिर्मुक्तः कोशपञ्चकवर्जितः ॥ ६२॥ निश्चलो निष्कलोऽसङ्गो निष्प्रपञ्चो निरामयः । निराधारो निराकारो निर्विकारो निरञ्जनः ॥ ६३॥ निष्प्रतीतो निराभासो निरासक्तो निराकुलः । निष्ठासर्वगतश्चैव निरारम्भो निराश्रयः ॥ ६४॥ निरन्तरः सत्त्वगोप्ता शान्तो दान्तो महामुनिः । निःशब्दः सुकृतः स्वस्थः सत्यवादी सुरेश्वरः ॥ ६५॥ ज्ञानदो ज्ञानविज्ञानी ज्ञानात्माऽऽनन्दपूरितः । ज्ञानयज्ञविदां दक्षो ज्ञानाग्निर्ज्वलनो बुधः ॥ ६६॥ दयावान्भवरोगारिश्चिकित्साचरमागतिः । चन्द्रमण्डलमध्यस्थश्चन्द्रकोटिसुशीतलः ॥ ६७॥ यन्तकृत्परमो यन्त्री यन्त्रारूढपराजितः । यन्त्रविद्यन्त्रवासश्च यन्त्राधारो धराधरः ॥ ६८॥ तत्त्वज्ञस्तत्त्वभूतात्मा महत्तत्त्वप्रकाशनः । तत्त्वसङ्ख्यानयोगज्ञः साङ्ख्यशास्त्रप्रवर्तकः ॥ ६९॥ अनन्तविक्रमो देवो माधवश्च धनेश्वरः । साधुः साधुवरिष्ठात्मा सावधानोऽमरोत्तमः ॥ ७०॥ निःसङ्कल्पो निराधारो दुर्धरो ह्यात्मवित्पतिः । आरोग्यसुखदश्चैव प्रवरो वासवस्तथा ॥ ७१॥ परेशः परमोदारः प्रत्यक्चैतन्यदुर्गमः । दुराधर्षो दुरावासो दूरत्वपरिनाशनः ॥ ७२॥ वेदविद्वेदकृद्वेदो वेदात्मा विमलाशयः । विविक्तसेवी च संसारश्रमनाशनस्तथा ॥ ७३॥ ब्रह्मयोनिर्बृहद्योनिर्विश्वयोनिर्विदेहवान् । विशालाक्षो विश्वनाथो हाटकाङ्गदभूषणः ॥ ७४॥ अबाध्यो जगदाराध्यो जगदार्जवपालनः । जनवान्धनवान्धर्मी धर्मगो धर्मवर्धनः ॥ ७५॥ अमृतः शाश्वतः साद्यः सिद्धिदः सुमनोहरः । खलुब्रह्मखलुस्थानो मुनीनां परमा गतिः ॥ ७६॥ उपद्रष्टा तथा श्रेष्ठः शुचिर्भूतो ह्यनामयः । वेदसिद्धान्तवेद्यश्च मानसाह्लादवर्धनः ॥ ७७॥ देहदन्यो गुणादन्यो लोकादन्यो विवेकवित् । दुष्टस्वप्नहरश्चैव गुरुर्गुरुवरोत्तमः ॥ ७८॥ कर्मी कर्मविनिर्मुक्तः संन्यासी साधकेश्वरः । सर्वभावविहीनश्च तृष्णासङ्गनिवारकः ॥ ७९॥ त्यागी त्यागवपुस्त्यागस्त्यागदानविवर्जितः । त्यागकारणत्यागात्मा सद्गुरुः सुखदायकः ॥ ८०॥ दक्षो दक्षादिवन्द्यश्च ज्ञानवादप्रवर्तकः । शब्दब्रह्ममयात्मा च शब्दब्रह्मप्रकाशवान् ॥ ८१॥ ग्रसिष्णुः प्रभविष्णुश्च सहिष्णुर्विगतान्तरः । विद्वत्तमो महावन्द्यो विशालोत्तमवाङ्मुनिः ॥ ८२॥ ब्रह्मविद्ब्रह्मभावश्च ब्रह्मर्षिर्बाह्मणप्रियः । ब्रह्म ब्रह्मप्रकाशात्मा ब्रह्मविद्याप्रकाशनः ॥ ८३॥ अत्रिवंशप्रभूतात्मा तापसोत्तमवन्दितः । आत्मवासी विधेयात्मा ह्यत्रिवंशविवर्धनः ॥ ८४॥ प्रवर्तनो निवृत्तात्मा प्रलयोदकसन्निभः । नारायणो महागर्भो भार्गवप्रियकृत्तमः ॥ ८५॥ सङ्कल्पदुःखदलनः संसारतमनाशनः । त्रिविक्रमस्त्रिधाकारस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ ८६॥ भेदत्रयहरश्चैव तापत्रयनिवारकः । दोषत्रयविभेदी च संशयार्णवखण्डनः ॥ ८७॥ असंशयस्त्वसम्मूढो ह्यवादी राजनन्दितः । राजयोगी महायोगी स्वभावगलितस्तथा ॥ ८८॥ पुण्यश्लोकः पवित्राङ्घ्रिर्ध्यानयोगपरायणः । ध्यानस्थो ध्यानगम्यश्च विधेयात्मा पुरातनः ॥ ८९॥ अविज्ञेयो ह्यन्तरात्मा मुख्यबिम्बसनातनः । जीवसञ्जीवनो जीवश्चिद्विलासश्चिदाश्रयः ॥ ९०॥ महेन्द्रोऽमरमान्यश्च योगेन्द्रो योगवित्तमः । योगधर्मस्तथा योगस्तत्त्वस्तत्त्वविनिश्चयः ॥ ९१॥ नैकबाहुरनन्तात्मा नैकनामपराक्रमः । नैकाक्षी नैकपादश्च नाथनाथोत्तमोत्तमः ॥ ९२॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सहस्ररूपदृक्चैव सहस्रारमयोद्धवः ॥ ९३॥ त्रिपादपुरुषश्चैव त्रिपादूर्ध्वस्तथैव च । त्र्यम्बकश्च महावीर्यो योगवीर्यविशारदः ॥ ९४॥ विजयी विनयी जेता वीतरागी विराजितः । रुद्रो रौद्रो महाभीमः प्राज्ञमुख्यः सदाशुचिः ॥ ९५॥ अन्तर्ज्योतिरनन्तात्मा प्रत्यगात्मा निरन्तरः । अरूपश्चात्मरूपश्च सर्वभावविनिर्वृतः ॥ ९६॥ अन्तः शून्यो बहिः शून्यः शून्यात्मा शून्यभावनः । अन्तःपूर्णो बहिःपूर्णः पूर्णात्मा पूर्णभावनः ॥ ९७॥ अन्तस्त्यागी बहिस्त्यागी त्यागात्मा सर्वयोगवान् । अन्तर्यागी बहिर्यागी सर्वयोगपरायणः ॥ ९८॥ अन्तर्भोगी बहिर्भोगी सर्वभोगविदुत्तमः । अन्तर्निष्ठो बहिर्निष्ठः सर्वनिष्ठामयस्तथा ॥ ९९॥ बाह्यान्तरविमुक्तश्च बाह्यान्तरविवर्जितः । शान्तः शुद्धो विशुद्धश्च निर्वाणः प्रकृतेः परः ॥ १००॥ अकालः कालनेमी च कालकालो जनेश्वरः । कालात्मा कालकर्ता च कालज्ञः कालनाशनः ॥ १०१॥ कैवल्यपददाता च कैवल्यसुखदायकः । कैवल्यकलनाधारो निर्भरो हर्षवर्धनः ॥ १०२॥ हृदयस्थो हृषीकेशो गोविन्दो गर्भवर्जितः । सकलागमपूज्यश्च निगमो निगमाश्रयः ॥ १०३॥ पराशक्तिः पराकीर्तिः परावृत्तिर्निधिस्मृतिः । पराविद्या पराक्षान्तिर्विभक्तिर्युक्तसद्गतिः ॥ १०४॥ स्वप्रकाशः प्रकाशात्मा परसंवेदनात्मकः । स्वसेव्यः स्वविदां स्वात्मा स्वसंवेद्योऽनघः क्षमी ॥ १०५॥ स्वानुसन्धानशीलात्मा स्वानुसन्धानगोचरः । स्वानुसन्धानशून्यात्मा स्वानुसन्धानाश्रयस्तथा ॥ १०६॥ स्वबोधदर्पणोऽभङ्गः कन्दर्पकुलनाशनः । ब्रह्मचारी ब्रह्मवेत्ता ब्राह्मणो ब्रह्मवित्तमः ॥ १०७॥ तत्त्वबोधः सुधावर्षः पावनः पापपावकः । ब्रह्मसूत्रविधेयात्मा ब्रह्मसूत्रार्धनिर्णयः ॥ १०८॥ आत्यन्तिको महाकल्पः सङ्कल्पावर्तनाशनः । आधिव्याधिहरश्चैव संशयार्णवशोषकः ॥ १०९॥ तत्त्वात्मज्ञानसन्देशो महानुभवभावितः । आत्मानुभवसम्पन्नः स्वानुभावसुखाश्रयः ॥ ११०॥ अचिन्त्यश्च बृहद्भानुः प्रमदोत्कर्षनाशनः । अनिकेतप्रशान्तात्मा शून्यवासो जगद्वपुः ॥ १११॥ चिद्गतिश्चिन्मयश्चक्री मायाचक्रप्रवर्तकः । सर्ववर्णविदारम्भी सर्वारम्भपरायणः ॥ ११२॥ पुराणः प्रवरो दाता सुन्दरः कनकाङ्गदी । अनिसूयात्मजो दत्तः सर्वज्ञः सर्वकामदः ॥ ११३॥ कामजित्कामपालश्च कामी कामप्रदागमः । कामवान्कामपोषश्च सर्वकामनिवर्तकः ॥ ११४॥ सर्वकर्मफलोत्पत्तिः सर्वकामफलप्रदः । सर्वकर्मफलैः पूज्यः सर्वकर्मफलाश्रयः ॥ ११५॥ विश्वकर्मा कृतात्मा च कृतज्ञः सर्वसाक्षिकः । सर्वारम्भपरित्यागी जडोन्मत्तपिशाचवान् ॥ ११६॥ भिक्षुर्भिक्षाकरश्चैव भैक्षाहारी निराश्रमी । अकूलश्चानुकूलश्च विकलो ह्यकलस्तथा ॥ ११७॥ जटिलो वनचारी च दण्डी मुण्डी च गण्डवान् । देहधर्मविहीनात्मा ह्येकाकी सङ्गवर्जितः ॥ ११८॥ आश्रम्यनाश्रमारम्भोऽनाचारी कर्मवर्जितः । असन्देही च सन्देही न किञ्चिन्न च किञ्चनः ॥ ११९॥ नृदेही देहशून्यश्च नाभावी भावनिर्गतः । नाब्रह्मच परब्रह्म स्वयमेव निराकुलः ॥ १२०॥ अनघश्चागुरुश्चैव नाथनाथोत्तमो गुरुः । द्विभुजः प्राकृतश्चैव जनकश्च पितामहः ॥ १२१॥ अनात्मा न च नानात्मा नीतिर्नीतिमतां वरः । सहजः सदृशः सिद्धश्चैकश्चिन्मात्र एव च ॥ १२२॥ न कर्तापि च कर्ता च भोक्ता भोगविवर्जितः । तुरीयस्तुरीयातीतः स्वच्छः सर्वमयस्तथा ॥ १२३॥ सर्वाधिष्ठानरूपश्च सर्वध्येयविवर्जितः । सर्वलोकनिवासात्मा सकलोत्तमवन्दितः ॥ १२४॥ देहभृद्देहकृच्चैव देहात्मा देहभावनः । देही देहविभक्तश्च देहभावप्रकाशनः ॥ १२५॥ लयस्थो लयविच्चैव लयाभावश्च बोधवान् । लयातीतो लयस्यान्तो लयभावनिवारणः ॥ १२६॥ विमुखः प्रमुखश्चैव प्रत्यङ्मुखवदाचरी । विश्वभुग्विश्वधृग्विश्वो विश्वक्षेमकरस्तत्जा ॥ १२७॥ अविक्षिप्तोऽप्रमादी च परर्द्धिः परमार्थदृक् । स्वानुभावविहीनश्च स्वानुभावप्रकाशनः ॥ १२८॥ निरिन्द्रियश्च निर्बुद्धिर्निराभासो निराकृतः । निरहङ्कारश्चरूपात्मा निर्वपुः सकलाश्रयः ॥ १२९॥ शोकदुःखहरश्चैव भोगमोक्षफलप्रदः । सुप्रसन्नस्तथा सूक्ष्मः शब्दब्रह्मार्थसङ्ग्रहः ॥ १३०॥ आगमापायशून्यश्च स्थानदश्च सताङ्गतिः । अकृतः सुकृतश्चैव कृतकर्मा विनिर्वृतः ॥ १३१॥ भेदत्रयवरश्चैव देहत्रयविनिर्गतः । सर्वकाममयश्चैव सर्वकामनिवर्तकः ॥ १३२॥ सिद्धेश्वरोऽजरः पञ्चबाणदर्पहुताशनः । चतुरक्षरबीजात्मा स्वभूश्चित्कीर्तिभूषणः ॥ १३३॥ अगाधबुद्धिरक्षुब्धश्चन्द्रसूर्याग्निलोचनः । यमदंष्ट्रोऽतिसंहर्ता परमानन्दसागरः ॥ १३४॥ लीलाविश्वम्भरो भानुर्भैरवो भीमलोचनः । ब्रह्मचर्याम्बरः कालस्त्वचलश्चलनान्तकः ॥ १३५॥ आदिदेवो जगद्योनिर्वासवारिविमर्दनः । विकर्मकर्मकर्मज्ञोऽनन्यगमकोऽगमः ॥ १३६॥ अबद्धकर्मशून्यश्च कामरागकुलक्षयः । योगान्धकारमथनः पद्मजन्मादिवन्दितः ॥ १३७॥ भक्तकामोऽग्रजश्चक्री भावनिर्भावभावकः । भेदान्तको महानग्र्यो निगूहो गोचरान्तकः ॥ १३८॥ कालाग्निशमनः शङ्खचक्रपद्मगदाधरः । दीप्तो दीनपतिः शास्ता स्वच्छन्दो मुक्तिदायकः ॥ १३९॥ व्योमधर्माम्बरो भेत्ता भस्मधारी धराधरः । धर्मगुप्तोऽन्वयात्मा च व्यतिरेकार्थनिर्णयः ॥ १४०॥ एकानेकगुणाभासाभासनिर्भासवर्जितः । भावाभावस्वभावात्मा भावाभावविभाववित् ॥ १४१॥ योगिहृदयविश्रामोऽनन्तविद्याविवर्धनः । विघ्नान्तकस्त्रिकालज्ञस्तत्त्वात्मा ज्ञानसागरः ॥ १४२॥ इतीदं दत्तसाहस्रं सायं प्रातः पठेत्तु यः । स इहामुत्र लभते निर्वाणं परमं सुखम् ॥ १४३॥ गुरुवारे दत्तभक्तो भक्तिभावसमन्वितः । पठेत्सदैव तो ह्येतत्स लभेच्चिन्तितं ध्रुवम् ॥ १४४॥ इति श्रीमद्दत्तात्रेयपुराणोक्तं श्रीमद्दत्तात्रेयसहस्रनामस्तोत्रं सम्पूर्णम् ॥