अक्षर आकार:

दत्तप्रबोधः

dattaprabodhaH

दत्तप्रबोधः

श्रीगणेशाय नमः ॥ नित्यो हि यद्य महिमा न हि मानमेति स त्वं महेश भगवन्मघवन्मुखेड्य । उत्तिष्ठ तिष्टदमृतैरमृतैरिवोक्तै- र्गीतागमैश्च पुरुधा पुरुधामशालिन् ॥ १॥ भक्तेषु जागृहि मुदा हिमुदारभावं तल्पं विधाय सविशेषविशेषहेतो । यः शेष एष सकलः सकलः स्वगीतै- स्त्वं जागृहि श्रितपते तपते नमस्ते ॥ २॥ दृष्ट्वा जनान् विविधकष्टवशान्दयालु- स्त्र्यात्मा बभूव सकलार्तिहरोऽत्र दत्तः । अत्रेर्मुनेः सुतपसोऽपि फलं च दातुं बुद्ध्यस्व स त्वमिह यन्महिमानियत्तः ॥ ३॥ आयात्यशेषविनुतोऽप्यवगाहनाय दत्तोऽधुनेति सुरसिन्धुरपेक्षते त्वाम् । क्षेत्रे तथैव कुरुसंज्ञक एत्य सिद्धा- स्तस्थुस्तवाचमनदेश इनोदयात्प्राक् ॥ ४॥ सन्ध्यामुपासितुमजोऽप्यधुना गमिष्य- त्याकाङ्क्षते कृतिजनः प्रतिवीक्षते त्वाम् । कृष्णातटेऽपि नरसिंहसुवाटिकायां सारार्तिकः कृतिजनः प्रतिवीक्षते त्वाम् ॥ ५॥ गान्धर्वसंज्ञकपुरेऽपि सुभाविकास्ते ध्यानार्थमत्र भगवान्समुपैष्यतीति । मत्वास्थुराचरितसन्नियताप्लवाद्या उत्तिष्ठ देव भगवन्नत एव शीघ्रम् ॥ ६॥ पुत्री दिवः खगगणान् सुचिरं प्रसुप्ता- नुत्पातयत्यरुणगा अधिरुह्य तूषाः । काषायवस्त्रमपिधानमपावृणूद्य- न्तार्क्ष्याग्रजोऽयमवलोकय तं पुरस्तात् ॥ ७॥ शाटीनिभाभ्रपटलानि तवेन्द्रकाष्ठा- भागं यतीन्द्र रुरुधुर्गरुडाग्रजोऽतः । अस्माभिरीश विदितो ह्युदितोऽयमेवं चन्द्रोऽपि ते मुखरुचिं चिरगां जहाति ॥ ८॥ द्वारेऽर्जुनस्तव च तिष्ठति कार्तवीर्यः प्रह्राद एष यदुरेष मदालसाजः । त्वां द्रष्ट्वकाम इतरे मुनयोऽपि चाह- मुत्तिष्ठ दर्शय निजं सुमुखं प्रसीद ॥ ९॥ एवं प्रबुद्ध इव संस्तवनादभूत्स मालां कमण्डलुमधो डमरुं त्रिशूलम् । चक्रं च शङ्खमुपरि स्वकरैर्दधानो नित्यं स मामवतु भावितवासुदेवः ॥ १०॥ इति वासुदेवानन्दसरस्वतीविरचितो दत्तप्रबोधः सम्पूर्णः ।