अक्षर आकार:

श्रीदत्तप्रार्थनाचतुष्कम्

shrIdattaprArthanAchatuShkam

श्रीदत्तप्रार्थनाचतुष्कम्

श्रीगणेशाय नमः ॥ समस्तदोषशोषणं स्वभक्तचित्ततोषणं निजाश्रितप्रपोषणं यतीश्वराग्र्यभूषणम् । त्रयीशिरोविमूषणं प्रदर्शितार्थदूषणं भजेऽत्रिजं गतैषणं विभुं विभूतिभूषणम् ॥ १॥ समस्तलोककारणं समस्तजीवधारणं समस्तदुष्टमारणं कुबुद्धिशक्तिजारणम् । भजद्भयाद्रिदारणं भजत्कुकर्मवारणं हरिं स्वभक्ततारणं नमामि साधुचारणम् ॥ २॥ नमाम्यहं मुदास्पदं निवारिताखिलापदं समस्तदुःखतापदं मुनीन्द्रवन्द्य ते पदम् । यदञ्चितान्तरा मदं विहाय नित्यसम्मदं प्रयान्ति नैव ते भिदं मुहुर्भजन्ति चाविदम् ॥ ३॥ प्रसीद सर्वचेतने प्रसीद बुद्धिचेतने स्वभक्तहृन्निकेतने सदाम्ब दुःखशातने । त्वमेव मे प्रसूर्मता त्वमेव मे प्रभो पिता त्वमेव मेऽखिलेहितार्थदोऽखिलार्तितोऽविता ॥ ४॥ इति श्रीमद्वासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयप्रार्थनाचतुष्कं सम्पूर्णम् ॥