अक्षर आकार:

श्रीदत्तनवरत्नमालिका

Shri Datta Navaratnamalika

श्रीदत्तनवरत्नमालिका

वित्ततर्षरहितैर्मनुजानां सत्तमैरनिशसेव्यपदाब्जम् । चित्तशुद्धिमभिलिप्सुरहं द्राक् दत्तदेवमनिशं कलयामि ॥ १॥ कार्तवीर्यगुरुमत्रितनूजं पादनम्रशिर आहितहस्तम् । श्रीदमुख्यहरिदीश्वरपूज्यं दत्तदेवमनिशं कलयामि ॥ २॥ नाकनायकसमर्चितपादं पाकचन्द्रधर मौल्यवतारम् । कोकबन्धुसमवेक्ष्यमहस्कं दत्तदेवमनिशं कलयामि ॥ ३॥ मूकपङ्गु बधिरादिमलोकान्लोकतस्तदितरान्विदधानम् । एकवस्तुपरिबोधयितारं दत्तदेवमनिशं कलयामि ॥ ४॥ योगदानत इहैव हरन्तं रोगमाशु नमतां भवसंज्ञम् । रागमोहमुख वैरिनिवृत्त्यै दत्तदेवमनिशं कलयामि ॥ ५॥ जामदग्न्यमुनये त्रिपुरायाः ज्ञानखण्डमवबोधितवन्तम् । जामिताविदलनं नतपङ्क्तेः दत्तदेवमनिशं कलयामि ॥ ६॥ तारकं भवमहाजलराशेः पूरकं पदनतेप्सितराशेः । वारकं कलिमुखोत्थभयानां दत्तदेवमनिशं कलयामि ॥ ७॥ सत्यवित्सुखनिरन्तरसक्तं स्वान्तमानतजनं विदधानम् । श्रान्तलोकततितोषणचन्द्रं दत्तदेवमनिशं कलयामि ॥ ८॥ रक्षणाय जगतो धृतदेहं शिक्षणाय च दुरध्वगतानाम् । ऋक्षराजपरिभाविनिटालं दत्तदेवमनिशं कलयामि ॥ ९॥ नवरत्नमालिकेयं ग्रथिता भक्तेन केनचिद्यतिना । गुरुवरचरणाब्जयुगे तन्मोदायार्पिता चिरं जीयात् ॥ १०॥ इति श्रीजगद्गुरुश्रीचन्द्रशेखरभारतीस्वामिपादैः विरचिता श्रीदत्तनवरत्नमालिका समाप्ता ।